Book Title: Dwatrinshada Dwatrinshika Prakran Part 3
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 271
________________ ८५२ • गुरुलक्षणविमर्शः • द्वात्रिंशिका-१२/१२ दीनाऽन्ध-कृपणादीनां वर्गः = समुदायः कार्यान्तराऽक्षमो = भिक्षाऽतिरिक्तनिर्वाहहेतुव्यापाराऽसमर्थः। यत उक्तं- “दीनान्धकृपणा ये तु व्याधिग्रस्ता विशेषतः । निःस्वाः क्रियान्तराऽशक्ता एतद्वर्गो हि मीलकः ।।" (यो.बि.१२३) इति । दीनाः = क्षीणसकलपुरुषार्थशक्तयः । अन्धाः = नयनरहिताः कृपणाः = स्वभावत एव सतां कृपास्थानम् ।। गुरवो निर्मलाः शान्ताः साधवो मितभाषिणः । कामक्रोधविनिर्मुक्ताः सदाचारा जितेन्द्रियाः ।। 6 (गु.गी.२४३,२४४) इत्येवं गुरुलक्षणमुक्तं, यदपि च → स्वाध्यायाढ्यं योनिमित्रं प्रशान्तं चैतन्यस्थं पापभीरूं वहुज्ञम् । स्त्रीमुक्तान्तं धार्मिकं गोशरण्यं वृत्तं क्षान्तं तादृशं पात्रमाहुः ।। - (व.स्मृ.२९) इति वशिष्ठस्मृतौ पात्रलक्षणमुक्तं, यदपि च याज्ञवल्क्यस्मृतौ → न विद्यया केवलया तपसा वाऽपि पात्रता । यत्र वृत्तमिमे चोभे तद्धि पात्रं प्रकीर्तितम् ।। - (या.स्मृ.१/२००) इत्येवं तात्त्विकं पात्रपदप्रवृत्तिनिमित्तमावेदितं तदपि वैदिकतन्त्राऽवस्थितोऽपुनर्बन्धकः स्वचेतसि समारोपयति पात्रविशेपविचारविमर्शावसरे । बौद्धदर्शनस्थितश्चाऽपुनर्बन्धकः → अजेन च केवलिनं महेसिं खीणासवं कुक्कुच्चकपसंतं । अन्नेन पानेन उपट्टहस्सु खेत्तं हितं पुञपेक्खस्स होति ।। - (सु.नि.२७) इति सुत्तनिपातवचनानुसारेण दानपात्रं मार्गयतीत्यादिकमूहनीयं यथातन्त्रम् । कुमारपालप्रबन्धे तु → धर्मज्ञो धर्मकर्ता च, सदा धर्मपरायणः । सत्त्वेभ्यः सर्वशास्त्राऽर्थदेशको गुरुरुच्यते ।। - (कु.प्र.पृष्ठ ५१) इत्येवं सर्वतन्त्रसाधारणरूपेण गुरुलक्षणमुक्तं तदपीहाऽनुयोज्यं यथागमम् । एतेन → धम्मन्नू धम्मकत्ता य सया धम्मपरायणो । सत्ताणं धम्मसत्थत्थदेसओ भण्णए गुरु ।। (द.शु.प्र.४/४२) इति दर्शनशुद्धिप्रकरणवचनमपि व्याख्यातम् । भिक्षाऽतिरिक्तनिर्वाहहेतुव्यापाराऽसमर्थः = भिक्षाभिन्नो यो जीवननिर्वाहहेतुभूतः कृप्यादिव्यापारः तत्राऽशक्तः । अत एव दानसम्प्रदानं तेपां न विरुध्यते लौकिक-लोकोत्तरशास्त्राऽभिप्रायेण । दीनाः = क्षीणसकलपुरुषार्थशक्तयः = विनप्टधर्माऽर्थ-कामादिपुरुपार्थसामर्थ्याः । ‘मे धान्यादिकं मा हीयतामिति कुधीवन्तः कृपणाः प्राणत्यागेऽपि स्वधनधान्याद्यनुपभोगात् स्वभावत एव = निसर्गतो हि सतां = शिप्टपुरुपाणां कृपास्थानं = स्वकीयधान्यादिवितरणाऽऽक्षेपककरुणाभाजनम् । दानस्तुतिश्च → धर्मस्याऽऽदिपदं दानं, दानं दारिद्र्यनाशनम् । जनप्रियकरं दानं, दानं कीर्त्यादिवर्धनम् ।। - (यो.विं.१२५) इत्येवं योगबिन्दौ दर्शिता। पात्रे विनियोगात् धर्मादिपदत्वं, दीनादिवर्गे वितरणात् दारिद्र्यनाशकत्वं, औदार्ययोगात् जनप्रियकरत्वं स्वभावत एव च कीर्त्यादिवर्धकत्वं दानस्य यथायोगं भावनीयम् । તથા ભિક્ષા સિવાય બીજી કોઈ પ્રવૃત્તિથી જીવનનિર્વાહ કરવામાં અસમર્થ એવા ગરીબ, અંધજન, કૃપણ વગેરે જીવોનો સમૂહ દિનાદિવર્ગ કહેવાય છે. કારણ કે શ્રીહરિભદ્રસૂરિજી મહારાજે યોગબિંદુમાં જણાવેલ છે કે – જે જીવો દીન, અંધ, કૃપણ હોય તેમ જ વિશેષ પ્રકારે રોગગ્રસ્ત હોય, નિર્ધન હોય તથા જીવનનિર્વાહકારી અન્ય પ્રવૃત્તિમાં અશક્ત હોય તેઓનો સમૂહ = મીલક દીનાદિવર્ગ સમજવો. ૯ દીન કે ગરીબ શબ્દનો અર્થ છે ધર્મ-અર્થ-કામ-મોક્ષ – આ ચારેય પ્રકારના પુષાર્થની શક્તિ જેમની १. हस्तादर्श ...षस्तु' इति पाठः । २. 'मीलकाः' इत्यशुद्धः पाठो मुद्रितप्रतौ । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358