________________
८५२
• गुरुलक्षणविमर्शः •
द्वात्रिंशिका-१२/१२ दीनाऽन्ध-कृपणादीनां वर्गः = समुदायः कार्यान्तराऽक्षमो = भिक्षाऽतिरिक्तनिर्वाहहेतुव्यापाराऽसमर्थः। यत उक्तं- “दीनान्धकृपणा ये तु व्याधिग्रस्ता विशेषतः । निःस्वाः क्रियान्तराऽशक्ता एतद्वर्गो हि मीलकः ।।" (यो.बि.१२३) इति । दीनाः = क्षीणसकलपुरुषार्थशक्तयः । अन्धाः = नयनरहिताः कृपणाः = स्वभावत एव सतां कृपास्थानम् ।। गुरवो निर्मलाः शान्ताः साधवो मितभाषिणः । कामक्रोधविनिर्मुक्ताः सदाचारा जितेन्द्रियाः ।।
6 (गु.गी.२४३,२४४) इत्येवं गुरुलक्षणमुक्तं, यदपि च → स्वाध्यायाढ्यं योनिमित्रं प्रशान्तं चैतन्यस्थं पापभीरूं वहुज्ञम् । स्त्रीमुक्तान्तं धार्मिकं गोशरण्यं वृत्तं क्षान्तं तादृशं पात्रमाहुः ।। - (व.स्मृ.२९) इति वशिष्ठस्मृतौ पात्रलक्षणमुक्तं, यदपि च याज्ञवल्क्यस्मृतौ → न विद्यया केवलया तपसा वाऽपि पात्रता । यत्र वृत्तमिमे चोभे तद्धि पात्रं प्रकीर्तितम् ।। - (या.स्मृ.१/२००) इत्येवं तात्त्विकं पात्रपदप्रवृत्तिनिमित्तमावेदितं तदपि वैदिकतन्त्राऽवस्थितोऽपुनर्बन्धकः स्वचेतसि समारोपयति पात्रविशेपविचारविमर्शावसरे ।
बौद्धदर्शनस्थितश्चाऽपुनर्बन्धकः → अजेन च केवलिनं महेसिं खीणासवं कुक्कुच्चकपसंतं । अन्नेन पानेन उपट्टहस्सु खेत्तं हितं पुञपेक्खस्स होति ।। - (सु.नि.२७) इति सुत्तनिपातवचनानुसारेण दानपात्रं मार्गयतीत्यादिकमूहनीयं यथातन्त्रम् । कुमारपालप्रबन्धे तु → धर्मज्ञो धर्मकर्ता च, सदा धर्मपरायणः । सत्त्वेभ्यः सर्वशास्त्राऽर्थदेशको गुरुरुच्यते ।। - (कु.प्र.पृष्ठ ५१) इत्येवं सर्वतन्त्रसाधारणरूपेण गुरुलक्षणमुक्तं तदपीहाऽनुयोज्यं यथागमम् । एतेन → धम्मन्नू धम्मकत्ता य सया धम्मपरायणो । सत्ताणं धम्मसत्थत्थदेसओ भण्णए गुरु ।। (द.शु.प्र.४/४२) इति दर्शनशुद्धिप्रकरणवचनमपि व्याख्यातम् ।
भिक्षाऽतिरिक्तनिर्वाहहेतुव्यापाराऽसमर्थः = भिक्षाभिन्नो यो जीवननिर्वाहहेतुभूतः कृप्यादिव्यापारः तत्राऽशक्तः । अत एव दानसम्प्रदानं तेपां न विरुध्यते लौकिक-लोकोत्तरशास्त्राऽभिप्रायेण । दीनाः = क्षीणसकलपुरुषार्थशक्तयः = विनप्टधर्माऽर्थ-कामादिपुरुपार्थसामर्थ्याः । ‘मे धान्यादिकं मा हीयतामिति कुधीवन्तः कृपणाः प्राणत्यागेऽपि स्वधनधान्याद्यनुपभोगात् स्वभावत एव = निसर्गतो हि सतां = शिप्टपुरुपाणां कृपास्थानं = स्वकीयधान्यादिवितरणाऽऽक्षेपककरुणाभाजनम् । दानस्तुतिश्च → धर्मस्याऽऽदिपदं दानं, दानं दारिद्र्यनाशनम् । जनप्रियकरं दानं, दानं कीर्त्यादिवर्धनम् ।। - (यो.विं.१२५) इत्येवं योगबिन्दौ दर्शिता। पात्रे विनियोगात् धर्मादिपदत्वं, दीनादिवर्गे वितरणात् दारिद्र्यनाशकत्वं, औदार्ययोगात् जनप्रियकरत्वं स्वभावत एव च कीर्त्यादिवर्धकत्वं दानस्य यथायोगं भावनीयम् ।
તથા ભિક્ષા સિવાય બીજી કોઈ પ્રવૃત્તિથી જીવનનિર્વાહ કરવામાં અસમર્થ એવા ગરીબ, અંધજન, કૃપણ વગેરે જીવોનો સમૂહ દિનાદિવર્ગ કહેવાય છે. કારણ કે શ્રીહરિભદ્રસૂરિજી મહારાજે યોગબિંદુમાં જણાવેલ છે કે – જે જીવો દીન, અંધ, કૃપણ હોય તેમ જ વિશેષ પ્રકારે રોગગ્રસ્ત હોય, નિર્ધન હોય તથા જીવનનિર્વાહકારી અન્ય પ્રવૃત્તિમાં અશક્ત હોય તેઓનો સમૂહ = મીલક દીનાદિવર્ગ સમજવો. ૯ દીન કે ગરીબ શબ્દનો અર્થ છે ધર્મ-અર્થ-કામ-મોક્ષ – આ ચારેય પ્રકારના પુષાર્થની શક્તિ જેમની १. हस्तादर्श ...षस्तु' इति पाठः । २. 'मीलकाः' इत्यशुद्धः पाठो मुद्रितप्रतौ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org