________________
• दानपात्रमीमांसा •
८५१ लिङ्गिन इति । लिङ्गिनो = व्रतसूचकतथाविधनेपथ्यवन्तः सामान्यतः पात्रं आदिधार्मिकस्य । विशिष्य = विशेषतः अपचाः स्वयमपाचकाः, उपलक्षणात् परैरपाचयितारः पच्यमानाऽननुमन्तारश्च । स्वक्रियाकृतः = स्वशास्त्रोक्ताऽनुष्ठानाऽप्रमत्ताः । तदुक्तं- “व्रतस्था लिङ्गिनः पात्रमपचास्तु विशेषतः । स्वसिद्धान्ताऽविरोधेन वर्तन्ते ये सदैव हि ।।” (यो.बि.१२२)
एतदेव भावयति- 'लिङ्गिन' इति । व्रतसूचकतथाविधनेपथ्यवन्तः = (भाग-२, पृ.५५६) पूर्वोक्ताऽहिंसादिव्रतद्योतकरजोहरण-पिच्छिका-त्रिदण्ड-त्रिशूल-जटा-भस्म-रक्तपीतश्वेताम्बरादिसाधुवेशशालिनः सामान्यतः = विशेपाऽनवगमदशाऽपेक्षया पात्रं = दानपात्रं सर्वतन्त्रगतस्य आदिधार्मिकस्य अभिप्रायेण वर्तन्ते, → गोपु क्षान्तो ब्रह्मचारी परनिन्दाविवर्जितः । अपरिग्रहशीलश्च स वन्द्योऽस्माभिरुत्तमः ।। - (वृ.ना.३ १६४) इति बृहन्नारदीयपुराणप्रभृतिवचनाऽवलम्वनादिति गम्यते । प्रकृते → यादृशः तादृशो लिङ्गी जैनैः पूज्यः सुभावतः । भक्तिभावेन लिङ्गिनामुन्नतिर्जायते ध्रुवम् ।। - (जै.गी.१८) इति जैनगीतावचनमप्यपुनबन्धकाद्यवस्थागतं जैनकुलवर्तिनमाश्रित्य यथागममनुयोज्यमागमानुसारिभिः। विभिन्नाऽऽचारवर्तिनः साधून् दृष्ट्वा नाऽपुनर्बन्धकः कुप्यति । प्रकृते → दृष्ट्वा परस्परं साधून भिन्नाऽऽचारव्यवस्थितान् । परस्परं प्रकुप्यन्ति साधवो न विवेकिनः ।। - (महा.गी.५/४३१) इति महावीरगीतावचनमप्यवश्यमनुस्मर्तव्यम् । ___ अत्रापि विशेषमाह विशेषतः = इतरयत्यपेक्षगुणाऽऽधिक्याऽवगमतः स्वयं एव अपाचकाः = भोजनोद्देश्यकाऽग्न्याधारम्भवर्जिनः उपलक्षणात् परैः = स्वव्यतिरिक्तैः अपाचयितारः, पच्यमानाननुमन्तारश्च यत्युद्देशेन तण्डुल-पाकादौ स्वयमेव प्रवृत्तानां गृहस्थादीनां तण्डुलाद्यग्रहणाऽनुपभोगादिना । पुनरपि विशेपयति- स्वशास्त्रोक्ताऽनुष्ठानाऽप्रमत्ताः = भोजनोत्तरकालेऽपि स्वधर्मशास्त्रोपदर्शितस्वाध्याय-वैयावृत्त्यध्यानादिक्रियास्वप्रमत्ततयोपयुक्ताः । योगबिन्दुसंवादमाह 'व्रतस्था' इत्यादि । हिंसाऽनृतादिपापस्थानविरतिलक्षणव्रतस्थत्वोक्त्या स्वरूपशुद्धिरावेदिता, 'अपचा' इत्यनेन हेतुशुद्धिरुपदर्शिता, उत्तरार्धेन चाऽनुबन्धशुद्धिरावेदिता योगबिन्दुश्लोके । सामान्यत एतादृशं ज्ञानं दुष्करम् । अत एव महाभारते → अनर्हते यद् ददादि, न ददादि यदर्हते । अर्हाऽनर्हापरिज्ञानाद् दानधर्माऽतिदुष्करः ।। 6 (म.भा.शांति.२०/९) इत्युक्तम् ।
यदपि गुरुगीतायां → चातुर्यवान् विवेकी च अध्यात्मज्ञानवान् शुचिः । मानसं निर्मलं यस्य गुरुत्वं तस्य शोभते ।। गरीब, अंध, ५९ वगैरे. पोनो समूह होनाहि वाय. (१२/१२)
ટીકાર્થ :- સંન્યાસવ્રત સૂચક તેવા પ્રકારના વેશને ધારણ કરનારા જીવો સામાન્યથી આદિધાર્મિક જીવની દૃષ્ટિએ દાનપાત્ર બને છે. તથા જાતે રસોઈ ન બનાવનારા, ઉપલક્ષણથી બીજા દ્વારા રસોઈ ન કરાવનારા તથા સાધુને ઉદેશીને બનાવવામાં આવેલી રસોઈને નહિ લેવા દ્વારા તે) વિરાધનાની અનુમોદના પણ ન કરનારા એવા સાધુઓ તો આદિધાર્મિક જીવની દષ્ટિએ વિશેષ પ્રકારે દાનપાત્ર બને છે. તેવા સાધુઓ પોતાના શાસ્ત્રમાં બતાવેલા આચારોને ચુસ્ત રીતે પાળતા હોય છે. યોગબિંદુમાં શ્રીહરિભદ્રસૂરિજીએ આ જ વાતને જણાવતા કહે છે કે વ્રત-યમ-નિયમમાં રહેલા સાધુવેશધારી જીવો દાનપાત્ર કહેવાય છે. તથા જાતે રસોઈ ન કરનારા સાધુઓ તો વિશેષ પ્રકારે દાનપાત્ર બને છે. કારણ કે તેવા સાધુઓ કાયમ માટે પોતાના સિદ્ધાન્તનો બાધ ન થાય તે રીતે વર્તન કરનારા હોય છે. १. हस्तादर्श ‘पचासु' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org