________________
८५०
• दानस्य सर्वधर्मशास्त्रसम्मतता •
द्वात्रिंशिका-१२/१२ 'लिङ्गिनः पात्रमपचा विशिष्य स्वक्रियाकृतः। दीनाऽन्ध-कृपणादीनां वर्गः कार्याऽन्तराऽक्षमः ।।१२।।
इत्थमेव महादानत्वोपपत्तेः, अन्यथा दानमेव स्यात् । यथोक्तं षोडशके 'न्यायाऽऽत्तं स्वल्पमपि हि भृत्याऽनुपरोधतो महादानम् । दीन-तपस्व्यादौ गुर्वनुज्ञया दानमन्यत्तु ।।' (पोड.५/१३) इति। प्रकृतदाननिरूपणं योगबिन्दौ ‘पात्रे दीनादिवर्गे च दानं विधिवदिप्यते। पोप्यवर्गाऽविरोधेन न विरुद्धं स्वतश्च यत् ।।' (यो.विं.१२१) इति ‘पोप्यवर्गाऽविरोधेने'त्युक्त्या 'पोप्यपोपकत्वलक्षणः पञ्चविंशतितमो मार्गानुसारिता गुणः प्रकटीकृतः । प्रकृतदानेन च ‘अन्योऽन्याऽप्रतिबन्धेन त्रिवर्गमपि साधयन्' (यो.शा.१/ ५२) इति योगशास्त्रोक्त एकोनविंशतितमो मार्गानुसारितागुणः प्रदर्शितः ।।
सर्वतन्त्रस्थितोऽपुनर्वन्धकादिः → धर्मस्याऽऽदिपदं दानम् + (यो.बि.१२५) इति योगबिन्दुवचनं, → उच्चा दिवि दक्षिणावन्तो अस्थुः 6 (ऋ.वे.१०/१०७/२) इति ऋग्वेदवचनं, → दानमिति सर्वाणि भूतानि प्रशंसन्ति - (तै.आ.१०/६२) इति तैत्तरीयारण्यकवचनं, → दानधर्मं निपेवेत नित्यम् 6 (मनु.४/२२७) इति मनुस्मृतिवचनं, → दीयमानं हि नाऽपैति ८ (स्क. पु.मा.को.२/६१) इति स्कन्दपुराणवचनं, → सत्यवाक्याच्च राजेन्द्र ! किञ्चिद् दानं विशिष्यते ।। - (म.भा.वनपर्व १८२/ ५) इति महाभारतवचनं, → धनं धर्माय विसृजेत् - (का.नी.३/२९) इति कामन्दकीयनीतिसारवचनं, → दानेन तुल्यो निधिरस्ति नान्यः - (पं.तं.२/१५५) इति पञ्चतन्त्रवचनं, → दानं कर्तव्यम् - (बा.सू.१ ।२४) इति बार्हस्पत्यसूत्रं, → दानं सत्त्वमितं दद्यात् + (चा.च.१८) इति चारुचर्यावचनं, → दानं नाम महानिधानमतुलम् + (जा.मा.२१) इति जातकमालावचनञ्चाऽवलम्ब्य प्रकृतदानादौ प्रवर्तते मुक्तिञ्चाऽपि लभते, दानस्य मोक्षदधर्माऽङ्गत्वात् । तदुक्तं संन्यासगीतायां → मुक्तिदत्वे च धर्मस्य तदङ्गञ्चाऽपि मुक्तिदम् । यस्यांऽशिनो हि यो धर्मः स तदंशेऽपि लभ्यते ।। यथाऽग्नेर्दाहकत्वञ्चेद् गुणो लोकेऽवलोक्यते । तदा तस्य स्फुलिङ्गेऽपि प्रत्यासन्नः स वै गुणः ।। सद्देश-काल-पात्रादिसाहाय्यञ्चेत् समश्नुते । दहत्येकः स्फुलिङ्गोऽपि वनमामपि क्षणात् ।। एवं धर्माङ्गमप्येकं दानञ्चेद् विधिना भवेत् । तदा तेनाऽप्यश्नुवीत नरो मुक्तिं न संशयः ।। 6 (सं.गी.३/३५-३८) इति । युक्तञ्चैतत्, दानद्वात्रिंशिकोक्तरीत्या(पृ.२२/२३) शालिभद्रजीवसङ्गमायुदाहरणेन भावनीयम् ।।१२/११।।
વિશેષાર્થ:- યોગની પૂર્વસેવારૂપે જે સદાચાર માન્ય છે તેમાં સૌપ્રથમ દાનનો સમાવેશ કરવામાં આવેલ છે. દાનનો વિષય છે પાત્ર અને દીનાદિ સમૂહ. આ બન્નેનો પરિચય આગળના શ્લોકમાં કરવામાં આવશે. પરંતુ મહત્ત્વની વાત એ છે કે એ દાન મહાઆરંભ-મહાપરિગ્રહ વગેરેમાં નિમિત્ત ન થવું જોઈએ. તથા માતા-પિતા વગેરેને ભૂખ્યા મરવું પડે તેવી રીતે દાન ન કરાય.“ઘરના છોકરા ઘંટી ચાટે અને પડોશીને આટો.” આવીદાનજન્ય પરિસ્થિતિ શાસ્ત્રકારોને માન્ય નથી. દાનપાત્ર કોને કહેવાય? તે વાત આગળના શ્લોકમાં કહેવાશે. (૧૨/૧૧)
હ પાત્રની ઓળખાણ છે ગાથાર્થ :- સાધુવેશધારી જીવો દાનપાત્ર કહેવાય. જાતે રસોઈ ન બનાવનારા તથા સાધુ-જીવનના આચારને પાળનારા સાધુઓ વિશેષ પ્રકારે દાનપાત્ર કહેવાય. તથા કમાણી વગેરે કાર્યમાં અસમર્થ એવા १. मुद्रितप्रती 'लिंगन...' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org