________________
• तन्त्रान्तरेषु दानविचारः •
८५३ व्याधिग्रस्ताः = कुष्ठ्याद्यभिभूताः । निःस्वाः = निर्धनाः ।।१२।।
वैदिकतन्त्रस्थोऽपुनर्वन्धकः → क्षुध्यद्भ्यो वय आसुतिं दाः - (ऋ.वे.१/१०४/७) इति ऋग्वेदवचनतः क्षुधातुरेभ्योऽन्नपानादिकं दत्ते । ‘वयः = अन्नं, आसुतिं = पेयं क्षीरादिकम्' इति ऋग्वेदसायणभाष्ये । एवं → देवो देवेसु देवः - (य.वे.२७/१२) इति यजुर्वेदवचनमपि दानप्रवर्तकमवसेयम् । 'देवः = दानादिगुणयुक्तः' (उ.भा.२७/१२) इति उव्वटभाष्यकारः । → न हि त्वा शूर देवा न मर्तासो दित्सन्तम् । भीमं न गां वारयन्ते - (सा.वे.२/२/६/३) इति सामवेदवचनमपि दानोत्साहजनकमवसेयम् । 'मासो = मनुष्याः' इति सामवेदसायणभाष्ये,→ यो देवकामो न धनं रुणद्धि, समित् तं रायः सृजति स्वधाभिः (अथ.वे.७/५०/६) इति अथर्ववेदवचनमपि वैदिकानामपुनर्बन्धकानां दानप्रेरकम् । → दानान्नातिदुष्करम् - (तै.आ.१०/६२) इति पूर्वोक्तं(पृ.७५) तैत्तिरीयारण्यकनारायणोपनिषद्वचनं दानश्रेष्ठतामाह ।
एवं कालोचितदानविधायकम् → काल एव दद्यात्, अकाले न दद्यात् + (ऐ.आ.२ ३।६) इति ऐतरेयारण्यकवचनं, → म्रियते याचमानो वै, न जातु म्रियते ददत् + (म.भा.अनुशासनपर्व६०/५) इति महाभारतवचनं, → दानमेकं कलौ युगे - (म.स्मृ.१८६) इति मनुस्मृतिवचनं, → अभिगम्योत्तमं दानम् - (परा.स्मृ.१।२८) इति पराशरस्मृतिवचनं, → दानं दया दमः शान्तिः सर्वेपां धर्मसाधनम् + (या.व.स्मृ.१/१२२) इति याज्ञवल्क्यस्मृतिवचनं, → यद् ददाति यदश्नाति तदेव धनिनो धनम् - (व्या.स्मृ.४/१७) इति व्यासस्मृतिवचनं → अदत्त्वा विपमश्नुते 6 (वि.पु.३ ।११।७२) इति विष्णुपुराणवचनं च साक्षात्परम्परया वा दानप्रेरकतयाऽवगम्य वैदिकतन्त्रस्थोऽपुनर्वन्धको दाने प्रयतते ।
बौद्धतन्त्राऽवस्थितोऽपुनर्बन्धकः → सक्कच्च दानं देथ, सहत्था दानं देथ । चित्तकतं दानं देथ, अनपविद्धं दानं देथ - (दी.नि.२/१०/५) इति दीघनिकायवचनं श्रुत्वा स्वहस्तेन सत्कार-प्रीतिपूर्वं दोपरहिततया दातुमुत्सहते । → अप्पस्मा दक्खिणा दिन्ना सहस्सेन समं मिता - (सं.नि.११।३२) इति संयुत्तनिकायवचनं, → मनापदायी लभते मनापं - (अं.५ ।५।४) इति, → दिन्नं होति सुनिहितं - (अंगु.३ ।६।२) इति च अंगुत्तरनिकायवचनं, → न वे कदरिया देवलोकं वजन्ति - (ध.प. १३ ११) इति धम्मपदवचनं, → ददतो पुओं पवड्ढति - (उदा.८/५) उदानवचनं, → ददं मित्तानि गन्थति (सु.नि.१ ।१०।७) इति सुत्तनिपातवचनं, → यो च दत्त्वा नानुतप्ते तं दुक्करतरं ततो ( (जा.७।४०१।४४) सूत्रपिटकान्तर्गतजातकवचनं, → दानं सब्बत्थसाधकं 6 (वि.मा.९/३९) इति विसुद्धिमग्गवचनं, → दानफलं होति परम्हि लोए - (पे.व.१ १२० १२४८) इति पेतवत्थुवचनं च दानप्रवर्तकतयाऽवगम्य वौद्धदर्शनस्थोऽपुनर्बन्धको दातुमुत्सहते इत्यादिकं तत्तत्तन्त्रोक्त्याद्यनुशीलनतोऽत्र योजनीयम् । जैनदर्शनस्थाऽपुनर्बन्धकानां दानप्रवर्त्तकानि वचनानि तु दानद्वात्रिंशिकोक्तानीहानुसन्धेयानि ।।१२/१२।। ક્ષીણ થયેલી હોય તેવા જીવો. આંખ વગરના જીવો અહીં અંધ તરીકે અભિપ્રેત છે. તથા તેવા પ્રકારના સ્વભાવથી જ જેઓ સજ્જનોને કરુણાપાત્ર બને તેવા જીવો કૃપણ સમજવા. કોઢ વગેરે રોગથી ઘેરાયેલા डोय ते व्याधियस्त सम४५. तथा नि:स्व = निर्धन वो तो प्रसिद्ध ४ छे. (१२/१२)
વિશેષાર્થ :- ‘વ્રત’ શબ્દથી મહાવ્રત અથવા પૂર્વોક્ત (બત્રીસી ૮ ગાથા ૯ પૃષ્ઠ.૫૫૫) અહિંસાદિ પાંચ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org