Book Title: Dharmabhyudaya Mahakavya
Author(s): Chaturvijay, Punyavijay
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 152
________________ सर्गः ] धर्माभ्युदयमहाकाव्यम् । ७५ उच्चैः प्रपञ्चिताटोपा, सकोपा साऽपि तापसीम् । निर्भर्त्स्य गृहपाश्चात्यद्वारेण निरसारयत् ॥ ३८६ ॥ व्रीडा-पीडाभराभुग्नकन्धराबन्धबन्धुरा । अथाकथयदस्मै सा, रुदती सुदती कथाम् ॥ ३८७ ॥ ॥ ३८८ ॥ तदुक्तपश्चिमद्वारनिष्कासकथया ततः । अयमाहूतमात्मानं, मेने पश्चिमवर्त्मना निष्पन्नमात्मनः कार्यं, मत्वा स प्राह तापसीम् । वाच्या न कापि पापिष्ठा, मातः ! साइतः परं त्वया ॥ ३८९ ॥ इमां च शान्तसन्तापां, दत्तप्रस्तुतवस्तुतः । चकार कारणं सिद्धेः स्मरस्मरणदुर्मदः ॥ ३९० ॥ ॥ ३९१ ॥ ॥ ३९२ ॥ ॥ ३९३ ॥ - ॥ ३९९ ॥ ॥ ४०० ॥ अथ मन्मथदीपेन, प्रकाशितपथो निशि । स्मरार्तो देवदत्तस्य तस्य धाम जगाम सः पाश्चात्यवर्त्मना कामविवशः प्रविशन्नसौ । ददर्श दुर्गिलामग्रे, साऽपि तं स्निग्धया दृशा समाप्य गृर्हकृत्यानि, पत्यौ निद्रावशंवदे । ययावुपपतिं हृष्टा, सा गृहोपवनावनौ अनारतरतश्रान्ता, सर्हं तेन हताशया । सा स्वापमाप तत्रैव, समं भत्रैव निर्भरम् तदानीं कायचिन्तार्थमुत्थायोपवनं गतः । देवदत्तः स्नुषां तत्र तदवस्थां व्यलोकयत् विपश्चिनिश्चयायाथ, सुतवासगृहं गतः । एकाकिनं सुतं वीक्ष्य, प्राप्तस्तत्र वने पुनः रुषा स्नुषापदाम्भोजादभिज्ञानकृते कृती । मन्दं मन्दं स्वहस्तेन, मञ्जीरमुदतीतरत् क्रमादुत्तार्यमाणे सा, नूपुरे जातजागरा । गुरुमालोकयामास, यान्तं कलितनूपुरम् ससम्भ्रममथोत्थाय, कृपणा प्राणवल्लभम् । नूपुरोत्तारवृत्तान्तं, सनिर्वेदं न्यवेदयत् क्रियमाणे प्रिय ! प्रातर्दिव्ये साहायकं त्वया । किञ्चिन्मम विधातव्यं, सेत्युक्त्वा विससर्ज तम् वहन्नत्यद्भुतं भीतिभारं सोऽपि युवा जवात् । पथा यथागतेनाधोवदनः सदनं ययौ दुर्गिला तु समालिङ्गय, निद्रारसवशीकृतम् । पतिं जागरयामास, मांसलस्नेहनाटिका महेया तया सार्धं, वर्धितोद्दामहेलया । तदा विद्राणनिद्रोऽयं, चिक्रीड ब्रीडमुक्तया तत्रा थोपवेने नीत्वा तं रतिश्रान्तिशान्तये । निद्रामुद्रितनेत्राब्जं त्रीडितेव जगाद सा पादादुत्तार्य मञ्जीरं, मम पश्य पिता तव । अयं प्रयाति निर्लज्जः, कुलाचारः क एष वः १ सहोपपतिना सुप्ता, गुप्ताऽसौ विपिनान्तरे । ध्यात्वेति त्वत्पिता मन्ये, चकर्ष मम नूपुरम् ॥ तत् साक्षादेव भाषस्व, पितरं हितरञ्जक ! | कलङ्क मत्कुले प्रातरयमानेष्यतेऽन्यथा निशम्येति गिरं देवदिन्नः कान्तामवोचत । शीलैकसज्जे ! लज्जेऽहमिदानीमेव तं ब्रुवन् ॥ ४०८ ॥ वक्ष्ये प्रातस्त्विति स्पष्टसन्धाकर्तरि भर्तरि । असौ सुष्वाप निस्तापा, पटुः कपटनाटके ॥ ४०९ ॥ देवदिनोऽथ कोपेन, पावकेनेव सवलन् । प्रिययोत्थापितः प्रातः प्रयातः पितरं प्रति ॥ ४१० ॥ मयैव सह सुप्ताया, बधूट्या नूपुरं हृतम् । भ्रान्तेन भवता यत् तदर्प्यतामित्यवोचत ॥ ४११ ॥ ॥ युग्मम् ॥ ॥ ४०४ ॥ ॥ ४०५ ॥ ४०६ ॥ ॥ ४०७ ॥ ॥ ३९४ ॥ ॥ ३९५ ॥ ॥ ३९६ ॥ ॥ ३९७ ॥ ॥ ३९८ ॥ ॥ ४०१ ॥ ॥ ४०२ ॥ ॥ ४०३ ॥ सुतं तमिति वक्तारमाह स्वर्णकृदग्रणीः । त्वां वीक्ष्य सुप्तमत्रास्याः, पांशुलाया हृतं मया ॥ ४१२ ॥ अथेति श्वशुरेणोक्ते, दुर्गिला साऽऽह साहसात् । भुज्यते प्रविधाय स्वं, निष्कलङ्क कुलं किल ॥ ४१३ ॥ अथो सुवर्णकारेण, कुटुम्बं मेलितं निजम् । स्वजना दुर्गिलायाश्च, समाहूताः समन्ततः ॥ ४१४ ॥ असत्यं हन्ति पादाधश्चारिणं यः क्षणाज्जनम् । यक्षस्य तस्य ते चैत्ये, जग्मुर्दुर्गिलया समम् ॥ ४१५ ॥ १. च सान्तःसन्ता ं संता० ॥ २ हकर्माणि, पत्यौ संता० ॥ ३ हानेन पाता० ॥ ४ निश्चिकायाथ वता० ॥ ५ 'वनं नीं बता० ॥

Loading...

Page Navigation
1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284