Book Title: Dharmabhyudaya Mahakavya
Author(s): Chaturvijay, Punyavijay
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
१७० सङ्घपतिचरितापरनामक
' [त्रयोदशी नैक केशवसैन्यानि, तापयन्तं हुताशनम् । महोऽपि मगधेशस्य, शान्ति निन्युस्तदाऽम्बुदाः ॥ ३८६॥ धृतेन्द्रचापो, निस्तापः, शरासारैस्तदाऽम्बुदः । श्रीनेमिरिव नीलश्रीररिसैन्यानि बद्धवान् ॥ ३८७ ॥ विलोकयन् नृपो मेघधारासाराकुलं बलम् । यशोमालिन्यमुच्छेत्तुं, मुमुचेऽस्त्रं स पावनम् ॥ ३८८ ॥ द्रुतं. विदुद्रुवे वातैर्धनडम्बरमम्बरम् । मगधेशप्रतापश्च, भास्वान् दुःसहतामधात् ॥ ३८९ ॥ सङ्कोचं पृतनाङ्गेषु, कुर्वाणं प्रमिदुर्धरम् । वायुप्रकोपं हन्ति स्म, हरिर्वाताशनौषधैः ॥ ३९० ॥ यश क्षीरं च वातं च, पीत्वा ते मगधेशितुः । प्रतापदीपं फूत्कारैः, शमयन्ति स्म पन्नगाः ॥ ३९१ ॥ अथो फणिफणाघातकातरां वीक्ष्य वाहिनीम् । मुमोचास्त्रं नृपो धैर्यचारु गारुडमुत्कटम् ॥ ३९२ ॥ ततपक्षास्ततो लक्षसङ्ख्या रुरुधुरुधुराः । गरुडा गगनं मेरुकुलोत्पन्ना इवाद्रयः ॥३९३ ॥ गरुडैरथ कंसारिन गास्त्रे विफलीकृते । भास्वानपि मुमोचास्त्रं, तामसं नाम सगरे ॥३९४ ॥ विदधानस्तदाऽपास्तवात मार्तण्डमण्डलम् । अन्धकारैर्जगन्नेत्रबन्दिकारैर्विजृम्भितम् ॥३९५ ।। वलितैः स्खलितैरङ्गैनिजैरेव परैरिव । अपश्यन्तोऽप्यबध्यन्त, जरासन्धबले भटाः . ॥३९६ ॥ मुमोचास्त्रमथ प्रौढवैरो वैरोचनं नृपः । प्रतापैरिव तद् भानुभारैराविरभावि खे ॥ ३९७ ॥ मूलेषु जग्मुर्नागानां, तुरङ्गि-रथि-पत्तयः । नारायणबले तापाक्रान्ता यान्तु क दन्तिनः ॥ ३९८ ॥ आहवै राहवीयास्त्रं, निदधेऽथ यदूद्वहः । चेलस्ततः करालास्या, राहवो बहवोऽम्बरे ॥३९९ ॥ अगिलन्नथ मार्तण्डमण्डलानि सहस्रशः । आकाशगुफलानीव, ते पक्षिण इव क्षणात् ॥१०० ॥ अतृप्ता इव मार्तण्डमण्डलैगिलितैरथ । विधुभ्रान्त्येव तेऽधावन् , परवीराननान्यभि ॥४०१ ॥ लीलानिष्फलिताशेषदिव्यास्त्रेषु प्रैमाथिषु । राहुण्वथ क्रुधा चक्रं, प्रतिचक्री मुमोच तत् ॥ ४०२ ॥ बहूनामपि राहूणामथाऽऽधाय वधं युधि । हरि प्रत्यचलच्चक्रं, सहस्रांशुसहस्ररुक् ॥४०३ ॥ सम्भूय यदुभिर्मुक्तान्यपि शस्त्राणि भस्मयत् । दावपावकवचक्र, वनमालिनमभ्यगात् ॥४०४ ॥ आसन्नेऽपि तदाऽऽयाते, चक्रेऽस्मिन्नर्ककर्कशे । नाऽगाद् गोविन्दवक्त्रेन्दुर्मन्दिमानं मनागपि ॥ ४०५ ॥ तदा यादवसैन्यानामाकुलैस्तुमुलारवैः । परमार्थविदोऽप्यन्तश्चक्षुभुः कुलदेवताः ॥४०६ ॥ क्रुद्धस्त्रीमुक्तताडकताडं कष्टप्रदं तदा । नाभिपिण्डिकया चक्रं, तत् पस्पर्श हरेरुरः ॥ ४०७ ॥ उत्को यावजरासन्धा, पश्यत्यरिशिरश्छिदाम् । तावद् विष्णोः करे चक्रं, ददर्श व्योनि भानुवत् ॥४०८॥ अभवद् वासुदेवोऽद्य, नवमोऽयमिति ब्रुवन् । विष्णौ व्यधित गन्धाम्बु-पुष्पवृष्टिं सुरव्रजः ॥ ४०९ ॥ . पूर्वाब्धिरिव कल्लोले, रविं चक्रं करे दधत् । अथ कृष्णः कृपाविष्टो, जरासन्धमदोऽवदत् ।। ४१०॥' आजीवमशिराजीवभ्रमरीभूय भूयसीम् । भज लक्ष्मी जरासन्ध !, बन्धो! सन्धेहि जीवितम् ॥ ४११ ॥
अथाभ्यधाजरासन्धो, मुधा गोविन्द ! माद्यसि । मदुच्छिष्टेन लब्धेन, चक्रेण च्छत्रधारवत् ॥ ४१२॥ । तदुच्चैर्मुञ्च मुञ्चाहो !, चक्रं मां प्रति सम्प्रति । रे रे! मदीयमेवेदं, प्रभविष्यति नो मयि ॥ ४१३ ॥
ततः कृष्णकरोन्मुक्तं, स्फुलिङ्गैः पिङ्गय दिशः। तदायुधं जरासन्धस्कन्धबन्धं द्विधा व्यधात् ॥ ४१४ ॥ '. चतुर्थ नरकं निन्ये, जरासन्धः स्वकर्मभिः। जयोज्ज्वलस्तु कृष्णोऽस्थाद्, वसुदेवागमोत्सुकः॥ ४१५॥ .
जरासन्धवधं श्रुत्वा, तद्वैः खेचरैरितः । विमुच्य रणसंरम्भ, वसुदेवः समाश्रितः ॥४१६ ॥ - गृहीतोपायनैः साकं; तैर्विद्याधरपुङ्गवैः । प्रद्युम्न-साम्बवान् कृष्णं, वसुदेवः समाययौ ॥ ४१७ ॥
१°म्बरे खता० ॥ २ प्ययुध्य खंता० ॥ ३ प्रधाविषु खता० ॥ ४ 'तुर्थन खता० ॥

Page Navigation
1 ... 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284