Book Title: Dharmabhyudaya Mahakavya
Author(s): Chaturvijay, Punyavijay
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 252
________________ '१७९ सर्गः] . धर्माभ्युदयमहाकाव्यम्। . अन्यदा कर्म तस्योच्चैरुदगादान्तरायिकम् । स्वयं न लभते सोऽयं, हन्ति लामं परस्य च ॥१९॥ साधवोऽथ जगन्नाथमपेच्छन् किं न ढण्ढणः । कुनापि लभते किञ्चिन्नगरे ऋद्धिमत्यपि ? ॥ १९८ ॥ ___ अथावदद् विभुमे, धान्यपूराभिधे पुरा । विप्रो मगधदेशेऽभूदयं नाम्ना परासरः ।। १९९ ।। प्रामे राजनियुक्तोऽसौ, ग्राम्यैः क्षेत्राणि वापयन् । सीतामकर्षयद् भक्तेऽभ्युपेतेऽपि पृथक् पृथक् ॥ २० ॥ बुमुक्षितानपि श्रान्तानपि तृष्णातुरानपि । वृषान् दासांश्च स क्रूरो, मुमोच न कथञ्चन ॥२०१॥ इत्यन्तरायमर्जित्वा, कर्म भ्रान्त्वा भृशं भवे । ढण्ढणोऽभूत् सुतो विष्णोः, पूर्वकर्मोदितं च तत् ॥ २०२ ॥ समाकयेति संविमः, कृष्णसूनुः पुरः प्रभोः । अभ्यग्रहीदिदं यन्न, भोक्ष्येऽहं परलब्धिभिः ॥ २०३ ॥ परलब्धं न तद् भुले, लभते न स्वयं कचित् । कालक्षेपमसावित्थं, चक्रे दुष्करकारकः ॥ २०४ ॥ कोऽतिदुष्करकारीति, प्रभुः पृष्टोऽथ विष्णुना। व्याचल्यौ ढण्ढणं साधु, सोढाऽलाभपरीषहम् ॥२०५।। नत्वाऽथ स्वामिनं विष्णुः, पुरं द्वारवतीं व्रजन् । मुनि ढण्ढणमालोक्य, ननामोत्तीर्य कुञ्जरात् ॥ २०६॥ ववन्दे विष्णुनाऽप्येष, धन्यः कोऽपि मुनीश्वरः। कोऽपि श्रेष्ठीति तं साधू, मोदकैः प्रत्यलाभयत् ।। २०७॥ दर्शयन् मोदकान् सोऽपि, मुनिः प्रभुमभाषत । मम कर्माद्य किं क्षीणं, लब्धा यन्मोदका अमी?॥२०८ ॥ जिनो जगाद नो कर्म, क्षीणं लब्धिश्च नैव ते।वन्दमानं हरिं दृष्ट्वा, यत् त्वां स प्रत्यलाभयत् ॥ २०९ ॥ परलब्धिमभुलानः, स्थण्डिले मोदकान् मुनिः । द्राक् परिष्ठापयन् लेमे, केवलं भूरिभावनः॥ २१० ॥ प्रभुं प्रदक्षिणीकृत्य, स केवलिसमां गतः । विहृत्याथ भुवि स्वामी, द्वारकां पुनरागमत् ॥ २११ ॥ रथनेमिरथान्येयुर्भिक्षां भ्रान्त्वा पुरान्तरे। वलमानो गुहां काञ्चित्, प्रविष्टो वृष्टिपीडितः॥ २१२ ॥ नेमि नत्वा तथा राजीमती यान्ती पुरं प्रति । वृष्टिदूना तमोगुप्ता, रथनेमिगुहामगात् ।। २१३ ॥ रथनेमिमजानन्ती, तमःस्तोमतिरोहितम् । उद्वापयितुमत्रासौ, वस्त्राण्यूwण्यमुञ्चत ॥२१४ ।। तां तथा वीक्ष्य कामार्तो, रथनेमिरथाऽवदत् । पुराऽपिप्रार्थिताऽसि त्वमद्य मे कुरु वाञ्छितम् ॥ २१५ ॥ रथनेमिमयो मत्वा, ध्वनिना भोजनन्दनी । संवृताङ्गी जवादेव, ब्रीडाभारादुपाविशत् ॥ २१६ ॥ राजीमत्याऽथ जल्पन्त्या, चिरं साधूचितं वचः । प्रत्यबोधि तदा प्रीतो, रथनेमिमहामुनिः ॥ २१७ ॥ तदालोच्य प्रभोरगे, तपस्तीव्रतरं चरन् । स्वच्छात्मा वत्सरेणासौ, कलयामास केवलम् ॥ २१८ ॥ विहृत्य पुनरन्येद्युः, स्वामी रैवतपर्वते । सेवितो देवतावृन्दैः, शमवान् समवासरत् ॥ २१९ ॥ हरिराह सुतान् प्रातयः प्राग नस्यति नेमिनम् । यच्छामि वाञ्छितं तस्मै, वाजिनं रयराजिनम् ॥ २२० ।। श्रुत्वेति प्रथमं प्रातर्बालकः पालको मुदा । तुरङ्गस्यैव लोमेन, नेमिनाथं ननाम सः ॥२२१ ॥ शाम्बस्तु प्रस्तुतध्याननिधानीभूतमानसः । स्थानस्थ एव तीर्थेशं, प्रणनाम निशात्यये ॥२२२ ।। ययाचे पालक: प्रातर्हयं हरिरथाब्रवीत् । प्रभुः प्राग् वन्दितो येन, दास्ये तस्यैव वाजिनम् ॥ २२३ ॥ गत्वाऽथ विष्णुना पृष्टः, स्वामी सम्यगभाषत । द्रव्यतः पालकः शाम्बो, भावतः प्राग् ननाम माम् ॥ २२४ ॥ अभन्योऽयमिति क्रुद्धो, निचक्रे पालक हरिः । शाम्याय मण्डलेशत्वमिष्टं चतुरगं ददौ ।। २२५ ।। देशनान्तेऽन्यदा नेमि, नमस्कृत्य जनार्दनः । पप्रच्छ द्वारकाऽप्येषा, कदाचिद्यास्यति क्षयम् ।।२२६॥ १न्त्वा चिरं भवे । खंता० सं० ॥ २तकाचले खंता.॥ ३ नत्वा सं० ॥ ४ 'ति श्रुत्वा, निच खंता० ॥

Loading...

Page Navigation
1 ... 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284