Book Title: Dharmabhyudaya Mahakavya
Author(s): Chaturvijay, Punyavijay
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 250
________________ or . १७७ धर्माभ्युदयमहाकाव्यम् । कृष्णोऽपृच्छदथ क्रोधात्, कथं ज्ञेयः स दुर्द्विजः ।। प्रभुः प्राह त्वदालोके, शिरो यस्य स्फुटिष्यति ॥ १४५॥ रुदन् कृष्णोऽथ -संस्कार्य, गजं निजपुरेऽविशत् । सोमं तथामृतं बद्धपादं बहिरचिक्षिपत् ।। १४६ ॥ यदवो गजदुःखेन, प्राव्रजन् वहवस्ततः । शिवादेवी च दाशार्हा, वसुदेवं विना नव ॥१४७ ॥ विभोः सहोदराः सप्त, चान्ये हरिकुमारकाः।राजीमती चैकनासा, कन्या चान्या यदुस्त्रियः॥ १४८ ॥ ॥ युग्मम् ।। प्रत्याख्याच्च हरिः कन्योद्वाहं सोत्साहमानसः। तत्पुन्यः प्राव्रजन् सर्वा, वसुदेवस्य चाङ्गनाः ।। १४९ ॥ देवकी-कनकवती-रोहिणीभिर्विना पुनः । गृहे कनकवत्यास्तु, जातं केवलमुज्ज्वलम् ॥१५० ॥ तत्रोामेत्य गीर्वाणैः, क्लुप्तोच्चैःकेवलोत्सवा । प्रव्रज्यां स्वयमादाय, नेमि वीक्ष्य ययौ वने ॥ १५१ ॥ कृत्वाऽऽहारपरीहार, तत्र त्रिंशदसौ दिनान् । क्षिप्त्वा निःशेषकर्माणि, मोक्षलक्ष्मीमुपाददे ॥ १५२ ।। शकोऽन्यदा सदस्याह, नाऽऽहवं कुरुतेऽधमम् । दोषान् परेषामुत्सृज्य,भाषते च गुणं हरिः॥१५३॥ तदश्रद्दधता मार्गे, चक्रे देवेन केनचित् । दुर्गन्धः श्वा मृतः श्यामः, स्वैरं विहरतो हरेः ।। १५४ ।। गन्धवस्तजनं.श्वान, तं प्रेक्ष्य प्राह केशवः। इह श्यामरुचौ दन्ता, भान्ति व्योम्नीव तारकाः ॥ १५५ ॥ __हयरत्नं हरन्नवहरीभूय पुरःसरः । ऊचे जितान्यसैन्योऽथ, स्वयमभ्येत्य विष्णुना ॥ १५६ ॥ स्थिरीभव के रे! यासि ?, म्रियसे मुञ्च वाजिनम् । इति वासवकल्पं तं, जल्पन्तं त्रिदशोऽवदत् ॥१५७॥ यच्छन्ति वाञ्छितं युद्धं, शुद्धक्षत्रियगोत्रजाः । पुताहवेन मां जित्वा, तद् गृहाण हयं निजम् ॥ १५८ ॥ निषिद्धाधमयुद्धोऽसौ, तुष्टादथ हरिः सुरात् । भेरीं भेजे ध्वनिध्वस्तषाण्मासिकमहारुजम् ॥ १५९ ।। । इति प्रीते सुरे तस्मिन् , गते भेरौं हरिः पुरे। अवादयद् यदा लोके, रोगः क्षयमगात् तदा ॥१६०॥ अथ लक्षण लक्षण, तस्या भेर्याः पलं पलम् । विक्रीत रक्षकेणैषा, पूर्णा श्रीखण्डखण्डकैः ॥ १६१ ।। तां निष्प्रभावां तज्ज्ञात्वा, घातयामास रक्षकम् । हरिः सुरात् परां लेभे, भेरीमष्टमभक्ततः ॥ १६२ ॥ तदेरीभूरिनादेन, स चक्रे विरुजं पुरम् । पर्जन्यगर्जितेनेव, गतदुःखं महीतलम् ॥ १६३ ॥ अन्येयुरिकां प्राप्तो, वर्षासु श्रीशिवासुतः। ततः प्रभुप्रणामाय, निर्मायः केशवो ययौ ॥ १६४ ॥ नत्वा शुश्रूषमाणोऽथ, पप्रच्छ स्वामिनं हरिः।न किं चलन्ति वर्षासु, दत्तहर्षाः सुसाधवः ॥ १६५ ॥ विश्वचक्षुरथाऽऽचख्यौ, नेमिर्गम्भीरया गिरा । वहुजीवकुलोत्कर्षा, वर्षा तन्नोचिता गतिः ॥ १६६ ॥ श्रुत्वेति श्रीपतिः श्रीमान् , जग्राह नियमं तदा। वर्षासु निःसरियामि, कचिन्नाहं गृहान बहिः ॥ १६७ ॥ निश्चित्येति हरिनत्वा, नेमि धाम जगाम सः। कोऽपि मोच्योऽन्तरा नेति, द्वारपालं तथाऽऽदिशत् ॥ १६८॥ वीराख्यस्तु पुरे तस्मिन् , कुविन्दो भक्तिमान् हरौ । अविलोक्य हृषीकेशं, न मुझे स्म कदाचन । आवासे न प्रवेशंस, लेमे द्वारस्थितस्ततः । सपर्या विष्णुमुद्दिश्य, चक्रे नित्यमभोजनः ॥ १७० ॥ १ °लोकात्, समन्ताद् यः स्फुटच्छिराः संता० सं० ॥ २ 'मृतं पादयद्धं वहि वताः ॥ ३ मातौ'द खंता० सं०॥ ४ क भो! या खंता० ॥ ५ 'यवंशजाः मं० ॥ ६ युद्धोऽय, तुष्टादेष हरिः खंता० सं० ॥ ७ द्वारि स्थि' खंता० ॥ घ० २३

Loading...

Page Navigation
1 ... 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284