Book Title: Dharmabhyudaya Mahakavya
Author(s): Chaturvijay, Punyavijay
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
.१८२ सङ्घपतिचरितापरनामकं
- [चतुर्दशः कृष्णाङ्ग्रेर्वाणमुद्धृत्य, प्रयातोऽथ जरासुतः। रामान्वेषभयात् किश्चिद्, विपरीतैः पदैश्चलन् ॥ २८६ ॥ उत्तराभिमुखीभूय, कृष्णोऽपि प्राञ्जलिस्तदा । पञ्चभ्यः परमेष्ठिभ्यो, नमश्चक्रे यथाविधि ॥२८७ ॥ प्रशशंस कुटुम्ब स्वं, पुरा प्रवजितं तदा । हृदा निनिन्द चात्मानमीदृशव्यसनातुरम् ,' ॥२८८ ॥ प्रहारपीडयाऽथाऽयं, निर्विवेकीभवन्मनाः । ध्यातद्वैपायनद्वेषस्तृतीयां पृथिवीं ययौ ॥२८९ ॥ कृत्वाऽम्भः पद्मपत्रेऽथ, बला कृष्णाग्रमागतः । असौ सुखेन विश्रान्तः, सुप्तोऽस्तीति क्षणं स्थितः ॥२९॥ वीक्ष्य रक्तं चिराचीरं, मृतं मत्वाऽथ बान्धवम् । सोऽपतन्मूच्छितो लब्धसज्ञः सद्यो रुरोद च ॥ २९१ ॥ विष्णोर्मुखाग्रमागत्य, जगाद च शुचाऽर्दितः। प्रातर्न किं वदस्यच ?, कोऽपराधः कृतो मया ॥२९२॥ लग्नः कालो ममायेति, क्रुद्धश्चेत् तत् त्यज क्रुधम् । पयोमध्याङ्गुलीरेखोपमः कोपो महात्मनाम् ॥२९३॥ रोमस्तमित्यजल्पन्तं, बैन्धुं वात्सल्यमोहितः। स्कन्धेऽधिरोप्य बभ्राम, पूजयामास. चान्वहम् ॥.२९४ ॥
षण्मासान्ते कदाऽप्येष, कश्चित् पप्रच्छ पूरुषम् । मेलयन्तं रथं शैलोवीर्णं भग्नं पुनः समे ॥ २९५ ॥ उत्तीर्य विषमाद् भमः, समे योऽयं रथः पथि । कथं सहस्रखण्डोऽयं, मूढ ! मेलकमेष्यति ? ॥ २९६ ॥
सोऽप्याह जित्वा युद्धानि, सुखसुप्तोऽप्ययं मृतः ।
चेत् ते जीविष्यति भ्राता, मिलिण्यति रथोऽपि तत् ॥२९७ ॥ रामोऽन्यतः कमप्याह, वपन्तं प्राणि पद्मिनीः । लगिष्यन्ति महामूढ !, कथमत्राप्यमूरिति ॥२९८॥ सोऽप्युवाच यदि भ्राता, जीविष्यति मृतस्तव । तदेताः कमलिन्योऽपि, गमिष्यन्त्यत्र वैभवम् ॥२९९॥ अन्यतोऽपि हली प्राह, नरं प्लुष्टद्रुसेचिनम् । रोक्ष्यत्येष कथं नाम, दग्धकीलोपमो द्रुमः ॥ ३०॥ सहासमाह सोऽप्येनमहो! महदिहाद्भुतम् । शबं स्कन्धे वहन् प्लुष्टद्रुसेके यद्वदस्यदः ॥३०१॥ गोशबास्ये तृणं कश्चित् , क्षिपन् रामेण भाषितः ।रचयन्ति मृताः कापि, गावः कवलनक्रियाम् ! ॥३०२॥ स जगाद यदा स्कन्धे, जीविष्यति शबस्तव । करिष्यति तदा सद्यो, गौरियं कवलग्रहम् ॥ ३०३ ॥ किं मृतो मेऽनुजः सीरी, ध्यायन्निति तदुक्तिभिः। दिव्यरूपं पुरोऽपश्यत् ,तं सिद्धार्थ स्वबान्धवम् ॥३०॥ साजगाद व्रताकाङ्क्षी, त्वयाऽहं प्रार्थितोऽभवम् । तेनाऽऽयातोऽस्मि मूढं त्वामद्य बोधयितुं बलात् ।।३०५॥ रथादि मत्कृतं सर्व, मोहं मुञ्च मृतो हरिः । इदं वदन् जरास्नुकथामपि जगाद सः ॥३०६॥ . अथाऽऽह सीरभृबन्धो!, साधु साध्वस्मि बोधितः। किं करोम्यधुनाऽहंतु, स्वबान्धववियोजितः ॥३०॥ अथामाषिष्ट सिद्धार्थों, जिनदीक्षां विनाऽधुना । बन्धो! न युज्यते किञ्चित् , तव कर्तुं विवेकिनः ॥३०८॥ , मत्वेति तद्वचस्तेन, देवेन. सह सीरभृत् । चकार हरिसंस्कारं, सिन्धुसम्भेदसीमनि ॥ ३०९ ॥ चारणरेरथो नेमिनियुक्तात् प्रावजद् बलः । तुङ्गिकाशिखरस्थायी, सिद्धार्थोऽभूच्च रक्षकः ॥३१० ॥
अन्यदा तं पुरे कापि, पश्यन्ती काऽपि कूपगा। कुम्भस्थाने स्वपुत्रस्य, प्रीवायां रज्जुमक्षिपत् ॥३११॥ .' आलोक्येदं बलो निन्दन् , निजरूपातिशायिताम् । तदादि नगर-आमगत्यभिग्रहमग्रहीत् ॥ ३१२ ॥
सदा.मासोपवासी स, वन एव स्थितः कृती। तृण-काष्ठादिहारिभ्यो, भिक्षया पारणं व्यधात् ॥ ३१३ ॥ अस्मद्राज्येच्छया धीरः, कोऽप्ययं तप्यते तपः । ध्यात्वेति भूरयो भूपास्तं हन्तुं तद् वनं ययुः ॥ ३१४॥ सिद्धार्थः सन्निधानेऽथ,तस्य सिंहान् विचक्रिवान् । भीतास्ततो बलं नत्वा; ययुर्निजपुरं नृपाः ॥ ३१५ ॥
१°लीलेखों खता० सं० ॥२ ततस्त खंता० ॥ ३ बन्धुवा खंता० ॥ ४ मस्मिन्नमू खंता० सं०॥ . ५°ण पारितः । खंता० ॥ ६॥ मुग्धं त्वा सं० ॥ ७°सङ्गमसीम खंता० सं० ॥

Page Navigation
1 ... 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284