Book Title: Dharmabhyudaya Mahakavya
Author(s): Chaturvijay, Punyavijay
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
सर्गः] . धर्माभ्युदयमहाकाव्यम् ।
१८३ अथ सिंहादयोऽप्यस्मिन् , बलदेशनया वने । निवृत्तपिशिताहाराः, श्रावकत्वं प्रपेदिरे॥ ३१६ ।। प्राक्सम्बन्धी मुनेरस्य, कोऽपि जातिस्मरो मृगः । वनेऽशंसज्जनं सान्नमागतं मौलिसंज्ञया ॥ ३१७ ॥ रथकारोऽन्यदा कोऽपि, दारुभ्यस्तद् वनं गतः । तत्रानयन्मृगो राम, भिक्षाहेतोः पुरःसरः ॥ ३१८ ॥ तदा भोक्तुं निविष्टोऽसौ, रथकृद् वीक्ष्य सीरिणम् । धन्योऽहं यदिहायातः, साधुरित्युत्थितो मुदा ॥३१९॥ सर्वाङ्गस्पृष्टभूनत्वा, स मुनि प्रत्यलाभयत् । भाग्यभागी भवत्वेष, भिक्षामित्यग्रहीन्मुनिः ॥३२० ॥ समृगोऽपि तदाऽध्यायद्, धिग् मे तिर्यक्त्वमागतम् । न शक्तोऽस्मि तपः कत्तुं, दानं दातुं च नक्षमः॥३२१॥ इति त्रयोऽपि सद्ध्याना, स्थकारण-सीरिणः । वातेरितद्रुधातेन, ब्रह्मलोके ययुः समम् ॥ ३२२ ॥
इतश्च पाण्डवा मत्वा, जरापुत्रात् कथामिमाम् । आक्रन्दमुखराश्चक्रुः, मुरारेरौ देहिकम् ॥३२३॥ जरासनुमथ न्यस्य, राज्ये मार्तण्डतेजसम् । ते नेमिप्रेषिताद्धर्मघोषाचार्याद् व्रतं दधुः ॥ ३२४ ॥
आर्या-ऽनार्येषु देशेषु, लोकं नेमिरबोधयत् । निर्वाणसमये चायं, ययौ रैवतकाचलम् ॥ ३२५ ॥ कृते समवसरणे, देवैः कृत्वाऽन्तदेशनाम् । तत्र प्राबोधयन्नेमिस्वामी लोकाननेकशः ॥ ३२६ ।। सहितः पञ्चभिः साधुशतैः षट्त्रिंशताऽधिकैः । मासिकानशनी स्वामी, पादपोपगमं व्यधात् ॥ ३२७ ॥ अथ त्वाष्ट्रे शुचिश्वेताष्टम्यां सद्ध्यानमाश्रितः । सार्द्ध तैः साधुभिः सायं, विभुर्निर्वाणमासदत् ॥ ३२८ ॥ कौमारे त्रिशती जज्ञे, छम-केवलयोः पुनः । शतानि सप्त वर्षाणां, सहस्रायुरिति प्रभुः ॥ ३२९ ॥
निर्वाणपर्वणि सुपर्वपतिर्विधाय, कृत्यानि तत्र सफलीकृतनाकिलक्ष्मीः । . नन्दीश्वरे प्रशमिताखिललोककष्टमष्टाहिकोत्सवमतुच्छमतिस्ततान ॥३३० ॥ तस्यां निर्वाणभूमौ मणिमयमतुलं मन्दिरं नेमिभर्तु
श्चक्रे शक्रेण शृङ्गप्रकरकवलितव्योमदेशावकाशम् । तत् पूर्व रैवताद्रिः प्रथितमिह महातीर्थमेतत् पृथिव्यां,
देवी यत्राऽम्बिकाऽसौ किशलयति सतां सन्ततं क्षेमलक्ष्मीम् ॥३३१ ॥ ॥ इत्याचार्यश्रीविजयसेनसूरिशिष्यश्रीमदुदयप्रभसूरिविरचिते श्रीधर्माभ्युदयनानि श्रीसङ्घपतिचरिते लक्ष्म्यङ्के महाकाव्ये श्रीनेमिनिर्वाणवर्णनो
नाम चतुर्दशः सर्गः ॥ यात्रायां चन्द्रसान्द्रं लसदहितयशः कोटिशः कुट्टयित्वा,
क्षिप्त सङ्घप्रतापानलमहसि मुदा यत् त्वया लीलयैव । अद्याप्युद्दामपूरप्रसरसुरभिताशेषदिक्चक्रवाल। स्तेन श्रीवस्तुपाल! स्फुरति परिमलः कोऽपि सौभाग्यभूमिः ॥ १ ॥ क्लप्तस्त्वं ननु दीनमण्डलपतिर्दारिद्रय ! तत् किं पुनः,
खिन्नः साम्प्रतमीक्ष्यसे गतमहा धातः ! समाकर्ण्यताम् । त्वहत्तामपि पत्तलां मम हठाद दुःस्थालिभालाक्षरश्रेणिं सम्प्रति लुम्पति प्रतिमुहुः श्रीवस्तुपालः क्षितौ ॥२॥
॥ ग्रन्थानम् ३४० । उभयम् ४९१९ ॥
१ इति श्रीवि' खता० ॥ २ मिस्वामिनिर्वा खेता० ॥ ३ अयं श्लोक वता० प्रतौ नास्ति ॥ ४ प्रन्यायम्-३४५। उभयम्-४९२४ । वता० ॥

Page Navigation
1 ... 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284