________________
or .
१७७
धर्माभ्युदयमहाकाव्यम् । कृष्णोऽपृच्छदथ क्रोधात्, कथं ज्ञेयः स दुर्द्विजः ।। प्रभुः प्राह त्वदालोके, शिरो यस्य स्फुटिष्यति
॥ १४५॥ रुदन् कृष्णोऽथ -संस्कार्य, गजं निजपुरेऽविशत् । सोमं तथामृतं बद्धपादं बहिरचिक्षिपत् ।। १४६ ॥ यदवो गजदुःखेन, प्राव्रजन् वहवस्ततः । शिवादेवी च दाशार्हा, वसुदेवं विना नव ॥१४७ ॥ विभोः सहोदराः सप्त, चान्ये हरिकुमारकाः।राजीमती चैकनासा, कन्या चान्या यदुस्त्रियः॥ १४८ ॥
॥ युग्मम् ।। प्रत्याख्याच्च हरिः कन्योद्वाहं सोत्साहमानसः। तत्पुन्यः प्राव्रजन् सर्वा, वसुदेवस्य चाङ्गनाः ।। १४९ ॥ देवकी-कनकवती-रोहिणीभिर्विना पुनः । गृहे कनकवत्यास्तु, जातं केवलमुज्ज्वलम् ॥१५० ॥ तत्रोामेत्य गीर्वाणैः, क्लुप्तोच्चैःकेवलोत्सवा । प्रव्रज्यां स्वयमादाय, नेमि वीक्ष्य ययौ वने ॥ १५१ ॥ कृत्वाऽऽहारपरीहार, तत्र त्रिंशदसौ दिनान् । क्षिप्त्वा निःशेषकर्माणि, मोक्षलक्ष्मीमुपाददे ॥ १५२ ।।
शकोऽन्यदा सदस्याह, नाऽऽहवं कुरुतेऽधमम् । दोषान् परेषामुत्सृज्य,भाषते च गुणं हरिः॥१५३॥ तदश्रद्दधता मार्गे, चक्रे देवेन केनचित् । दुर्गन्धः श्वा मृतः श्यामः, स्वैरं विहरतो हरेः ।। १५४ ।। गन्धवस्तजनं.श्वान, तं प्रेक्ष्य प्राह केशवः। इह श्यामरुचौ दन्ता, भान्ति व्योम्नीव तारकाः ॥ १५५ ॥ __हयरत्नं हरन्नवहरीभूय पुरःसरः । ऊचे जितान्यसैन्योऽथ, स्वयमभ्येत्य विष्णुना ॥ १५६ ॥ स्थिरीभव के रे! यासि ?, म्रियसे मुञ्च वाजिनम् । इति वासवकल्पं तं, जल्पन्तं त्रिदशोऽवदत् ॥१५७॥ यच्छन्ति वाञ्छितं युद्धं, शुद्धक्षत्रियगोत्रजाः । पुताहवेन मां जित्वा, तद् गृहाण हयं निजम् ॥ १५८ ॥ निषिद्धाधमयुद्धोऽसौ, तुष्टादथ हरिः सुरात् । भेरीं भेजे ध्वनिध्वस्तषाण्मासिकमहारुजम् ॥ १५९ ।। । इति प्रीते सुरे तस्मिन् , गते भेरौं हरिः पुरे। अवादयद् यदा लोके, रोगः क्षयमगात् तदा ॥१६०॥ अथ लक्षण लक्षण, तस्या भेर्याः पलं पलम् । विक्रीत रक्षकेणैषा, पूर्णा श्रीखण्डखण्डकैः ॥ १६१ ।। तां निष्प्रभावां तज्ज्ञात्वा, घातयामास रक्षकम् । हरिः सुरात् परां लेभे, भेरीमष्टमभक्ततः ॥ १६२ ॥ तदेरीभूरिनादेन, स चक्रे विरुजं पुरम् । पर्जन्यगर्जितेनेव, गतदुःखं महीतलम् ॥ १६३ ॥
अन्येयुरिकां प्राप्तो, वर्षासु श्रीशिवासुतः। ततः प्रभुप्रणामाय, निर्मायः केशवो ययौ ॥ १६४ ॥ नत्वा शुश्रूषमाणोऽथ, पप्रच्छ स्वामिनं हरिः।न किं चलन्ति वर्षासु, दत्तहर्षाः सुसाधवः ॥ १६५ ॥ विश्वचक्षुरथाऽऽचख्यौ, नेमिर्गम्भीरया गिरा । वहुजीवकुलोत्कर्षा, वर्षा तन्नोचिता गतिः ॥ १६६ ॥ श्रुत्वेति श्रीपतिः श्रीमान् , जग्राह नियमं तदा। वर्षासु निःसरियामि, कचिन्नाहं गृहान बहिः ॥ १६७ ॥
निश्चित्येति हरिनत्वा, नेमि धाम जगाम सः। कोऽपि मोच्योऽन्तरा नेति, द्वारपालं तथाऽऽदिशत्
॥ १६८॥ वीराख्यस्तु पुरे तस्मिन् , कुविन्दो भक्तिमान् हरौ ।
अविलोक्य हृषीकेशं, न मुझे स्म कदाचन । आवासे न प्रवेशंस, लेमे द्वारस्थितस्ततः । सपर्या विष्णुमुद्दिश्य, चक्रे नित्यमभोजनः ॥ १७० ॥
१ °लोकात्, समन्ताद् यः स्फुटच्छिराः संता० सं० ॥ २ 'मृतं पादयद्धं वहि वताः ॥ ३ मातौ'द खंता० सं०॥ ४ क भो! या खंता० ॥ ५ 'यवंशजाः मं० ॥ ६ युद्धोऽय, तुष्टादेष हरिः खंता० सं० ॥ ७ द्वारि स्थि' खंता० ॥
घ० २३