Book Title: Dharmabhyudaya Mahakavya
Author(s): Chaturvijay, Punyavijay
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 248
________________ सर्गः] , . धर्माभ्युदयमहाकाव्यम्। १७५ ततोऽभ्यधात् प्रभुः कृष्ण!, नोक्तं युक्तमिदं त्वया। विचारय चिरं वन्धो !, निर्बन्धस्याऽऽयति मम ।।८८॥ संसारसुखमापातमधुरं स्यादपथ्यवत् । प्रियङ्करः प्रियश्चायं, शमस्तु कटुजायुवत् ॥ ८९ ॥ सर्वेषां तत् प्रियाकर्तुं, प्रशमोऽयं श्रितो मया। हितं यत् परिणामे हि, हितं तत् पारमार्थिकम् ॥ ९० ॥ इत्युक्त्वा स्वजनेष्वश्रुगद्गदे' रुदत्स्वपि । समाजगाम श्रीनेमिहमुद्वाहनिःस्पृहः ॥९१ ।। तदा च समयं ज्ञात्वा, प्रभुलॊकान्तिकामरैः । मुदा विज्ञपयाञ्चक्रे, नाथ! तीर्थ प्रवर्तय ॥ ९२ ॥ अथाऽसौ वार्षिकं दानं, दातुं प्रारब्धवान् प्रभुः । कारुण्यसागरः सप्तवतग्रहणनिश्चयः ॥ ९३ ।। अन्यतश्चलिते विश्वस्वामिन्यथ रवाविव । भेजे मूर्छामियं राजीमती राजीविनीव सा ॥९४ ।। अमन्दैश्चन्दनस्यन्दैः, कौमुदीकोमलैरथ । अभिषिक्ता वयस्याभिर्बुद्धा कुमुदिनीव सा ॥९५ ।। सकज्जलैरश्रुजलैः, कपोललुलितैरथ । विललापेयमेणाङ्कविम्बयन्ती मुखाम्बुजम् ॥९६ ॥ रे दैव! यदि भाले मे, न नेमिलिखितः पतिः । ततः किमियती भूमि, त्वयाऽहमधिरोपिता ॥ ९७ ॥ यदि नेमिन मे भावी, भर्ता किं दौकितस्ततः । तन्नाऽलव्धनिधेर्दुःखं, दृष्टनष्टनिधेर्हि यत् ॥ ९८ ॥ काऽहं ? क नेमिरित्यासीत् , त्वत्पतित्वे मनोऽपि न । त्वविरैव विवाहार्थे, स्वामिन्नस्मि प्रतारिता ॥ ९९ ॥ त्वयाऽरोपि ममोद्वाहमनोरथतरुः स्वयम् । उन्मूलयन्निमं स्वामिन्नात्मनोऽपि न लज्जसे ! ॥१०० ॥ क्रन्दन्तीति, वयस्याभिर्निषिद्धा कथमप्यसौ। निश्चिकायेति शैवेय, एव देवोऽस्तु मे गतिः ॥ १०१ ॥ ववर्ष वार्षिकं दानमितश्च श्रीशिवासुतः । समुद्रविजयादीनां, जलं च नयनोच्चयः ॥१०२ ॥ क्लप्तदीक्षाभिषेकोऽयमथाशेषैः सुरेश्वरैः । नाम्नोत्तरकुरु रत्नशिविकामारुरोह सः ॥१०३ ॥ सुरा-ऽसुर-नरैर्मातृ-जनक-स्वजनैरपि । स्वामी परिवृतो राजपथेन प्राचलन्मुदा ॥१०४ ॥ तदाऽऽलोक्य गृहासन्नं, प्रसन्नं नेमिनं जिनम् । अवाप व्याकुला राजीमती मूर्छा मुहुर्मुहुः ॥ १०५ ॥ अथाऽऽससाद श्रीनेमिः, सहस्राम्रवणं वनम् । वनान्तलक्ष्मीधम्मिल्लतुल्यरैवतकाचलम् ॥१०६ ॥ पूर्वाहे श्रावणश्वेतषष्ठ्यां षष्ठेन स प्रभुः । पूर्णाव्दत्रिशतीकोऽथ, प्राव्रजत् त्वाष्ट्रगे विधौ ॥ १०७ ॥ प्रतीष्य केशान् देवेशो, दूष्यं स्कन्धे विभोर्यधात् । तान् परिक्षिप्य दुग्धाब्धौ, तुमुलं च न्यषेधयत् ॥ १०८ ॥ सामायिकमथाऽऽदाय, मनःपर्ययमासदत् । श्रीमान् नेमिश्च सौख्यं च, प्रपेदे नारकैरपि ॥ १०९॥ भूभुजः प्राव्रजस्तत्र, सहस्रं सह नेमिना । स तैः प्रभाद्भुतैव्या॑प्तः, सहस्रांशुरिवाऽऽवभौ ॥११० ॥ अथ नत्वा गते लोके, परमान्नेन पारणम् । द्वितीयेऽह्नि विभुश्चक्रे, वरदत्तद्विनौकसि ॥१११ ॥ अथोत्सवे कृते तत्र, त्रिदशेशैर्यथाविधि । विजहारान्यतः स्वामी, कर्मनिर्मथनोद्यतः ॥ ११२ ॥ रथनेमिरथो नेमेरनुजो मदनातुरः । उपाचरचिरं राजीमती पाणिग्रहेच्छया ॥११३ ॥ हेमपात्रेऽन्यदा पीतं, वान्त्वा दुग्धं प्रयोगतः । पिवेदमिति तं नेमिरथं राजीमती जगौ ॥ ११४ ॥ स तामुवाच श्वानोऽस्मि, किमु वान्तं पिबामि यत् । । साऽप्याह नेमिवान्तां मां, भोक्तुकामोऽसि किं ततः? ॥११५ ॥ आश्विने मासि पूर्वाढेिऽमावास्यायां कृताष्टमः। वेतसाधः प्रभुः प्राप, केवलं वाष्ट्रगे विधौ ।। ११६ ॥ ___. १त् पुनः क खता० ॥ २ यस्यायं खंता० ॥ ३ पु वद खंता० ॥ ४°न्दचन्द खंता० सं० ॥ ५ यन्नमुं स्वा खंता० ॥ ६ वात्मजः सं० ॥

Loading...

Page Navigation
1 ... 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284