________________
सर्गः] , .
धर्माभ्युदयमहाकाव्यम्।
१७५ ततोऽभ्यधात् प्रभुः कृष्ण!, नोक्तं युक्तमिदं त्वया। विचारय चिरं वन्धो !, निर्बन्धस्याऽऽयति मम ।।८८॥ संसारसुखमापातमधुरं स्यादपथ्यवत् । प्रियङ्करः प्रियश्चायं, शमस्तु कटुजायुवत् ॥ ८९ ॥ सर्वेषां तत् प्रियाकर्तुं, प्रशमोऽयं श्रितो मया। हितं यत् परिणामे हि, हितं तत् पारमार्थिकम् ॥ ९० ॥ इत्युक्त्वा स्वजनेष्वश्रुगद्गदे' रुदत्स्वपि । समाजगाम श्रीनेमिहमुद्वाहनिःस्पृहः ॥९१ ।। तदा च समयं ज्ञात्वा, प्रभुलॊकान्तिकामरैः । मुदा विज्ञपयाञ्चक्रे, नाथ! तीर्थ प्रवर्तय ॥ ९२ ॥ अथाऽसौ वार्षिकं दानं, दातुं प्रारब्धवान् प्रभुः । कारुण्यसागरः सप्तवतग्रहणनिश्चयः ॥ ९३ ।। अन्यतश्चलिते विश्वस्वामिन्यथ रवाविव । भेजे मूर्छामियं राजीमती राजीविनीव सा ॥९४ ।। अमन्दैश्चन्दनस्यन्दैः, कौमुदीकोमलैरथ । अभिषिक्ता वयस्याभिर्बुद्धा कुमुदिनीव सा ॥९५ ।। सकज्जलैरश्रुजलैः, कपोललुलितैरथ । विललापेयमेणाङ्कविम्बयन्ती मुखाम्बुजम् ॥९६ ॥ रे दैव! यदि भाले मे, न नेमिलिखितः पतिः । ततः किमियती भूमि, त्वयाऽहमधिरोपिता ॥ ९७ ॥ यदि नेमिन मे भावी, भर्ता किं दौकितस्ततः । तन्नाऽलव्धनिधेर्दुःखं, दृष्टनष्टनिधेर्हि यत् ॥ ९८ ॥ काऽहं ? क नेमिरित्यासीत् , त्वत्पतित्वे मनोऽपि न । त्वविरैव विवाहार्थे, स्वामिन्नस्मि प्रतारिता ॥ ९९ ॥ त्वयाऽरोपि ममोद्वाहमनोरथतरुः स्वयम् । उन्मूलयन्निमं स्वामिन्नात्मनोऽपि न लज्जसे ! ॥१०० ॥ क्रन्दन्तीति, वयस्याभिर्निषिद्धा कथमप्यसौ। निश्चिकायेति शैवेय, एव देवोऽस्तु मे गतिः ॥ १०१ ॥ ववर्ष वार्षिकं दानमितश्च श्रीशिवासुतः । समुद्रविजयादीनां, जलं च नयनोच्चयः ॥१०२ ॥ क्लप्तदीक्षाभिषेकोऽयमथाशेषैः सुरेश्वरैः । नाम्नोत्तरकुरु रत्नशिविकामारुरोह सः ॥१०३ ॥ सुरा-ऽसुर-नरैर्मातृ-जनक-स्वजनैरपि । स्वामी परिवृतो राजपथेन प्राचलन्मुदा ॥१०४ ॥ तदाऽऽलोक्य गृहासन्नं, प्रसन्नं नेमिनं जिनम् । अवाप व्याकुला राजीमती मूर्छा मुहुर्मुहुः ॥ १०५ ॥ अथाऽऽससाद श्रीनेमिः, सहस्राम्रवणं वनम् । वनान्तलक्ष्मीधम्मिल्लतुल्यरैवतकाचलम् ॥१०६ ॥ पूर्वाहे श्रावणश्वेतषष्ठ्यां षष्ठेन स प्रभुः । पूर्णाव्दत्रिशतीकोऽथ, प्राव्रजत् त्वाष्ट्रगे विधौ ॥ १०७ ॥
प्रतीष्य केशान् देवेशो, दूष्यं स्कन्धे विभोर्यधात् । तान् परिक्षिप्य दुग्धाब्धौ, तुमुलं च न्यषेधयत्
॥ १०८ ॥ सामायिकमथाऽऽदाय, मनःपर्ययमासदत् । श्रीमान् नेमिश्च सौख्यं च, प्रपेदे नारकैरपि ॥ १०९॥ भूभुजः प्राव्रजस्तत्र, सहस्रं सह नेमिना । स तैः प्रभाद्भुतैव्या॑प्तः, सहस्रांशुरिवाऽऽवभौ ॥११० ॥ अथ नत्वा गते लोके, परमान्नेन पारणम् । द्वितीयेऽह्नि विभुश्चक्रे, वरदत्तद्विनौकसि ॥१११ ॥ अथोत्सवे कृते तत्र, त्रिदशेशैर्यथाविधि । विजहारान्यतः स्वामी, कर्मनिर्मथनोद्यतः ॥ ११२ ॥ रथनेमिरथो नेमेरनुजो मदनातुरः । उपाचरचिरं राजीमती पाणिग्रहेच्छया ॥११३ ॥ हेमपात्रेऽन्यदा पीतं, वान्त्वा दुग्धं प्रयोगतः । पिवेदमिति तं नेमिरथं राजीमती जगौ ॥ ११४ ॥
स तामुवाच श्वानोऽस्मि, किमु वान्तं पिबामि यत् । ।
साऽप्याह नेमिवान्तां मां, भोक्तुकामोऽसि किं ततः? ॥११५ ॥ आश्विने मासि पूर्वाढेिऽमावास्यायां कृताष्टमः। वेतसाधः प्रभुः प्राप, केवलं वाष्ट्रगे विधौ ।। ११६ ॥ ___. १त् पुनः क खता० ॥ २ यस्यायं खंता० ॥ ३ पु वद खंता० ॥ ४°न्दचन्द खंता० सं० ॥ ५ यन्नमुं स्वा खंता० ॥ ६ वात्मजः सं० ॥