Book Title: Dharmabhyudaya Mahakavya
Author(s): Chaturvijay, Punyavijay
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
' [चतुर्दशः
१७४
सङ्घपतिचरितापरनामकं । गीयमानगुणग्रामो, हृष्टैर्वन्धुवधूजनैः । कामं जामिसमूहेन, क्रियमाणावतारणः .... ॥ ५९॥ ' : समं समौर्यदुभिर्यदुनारीभिरप्यथ । उग्रसेनगृहासन्नो, जगाम जगदीश्वरः ॥ ६० ॥ कलापकम् ॥ .! वयस्याभिरभिप्रायविद्भिः सा प्रेरिता ततः । गवाक्षमाययौ राजीमती नेमिदिदृक्षया , ॥ ६१॥ , आयाति विश्वमालिन्यभिदि नेमौ भयाद् गतम् । पश्चालक्ष्मेव वक्त्रेन्दोर्दधाना कबरीभरम् ।। ६२ ।। सीमन्तसीम्नि बिभ्राणा, मुक्तास्तवकमद्भुतम् । लावण्याम्भोधिसम्भूतनवनिर्लाल्छनेन्दुवत् ॥ ६३ ।। मदनद्विरदालानमणिस्तम्भानुकारिणा । भालस्थलस्थकाश्मीरतिलकेन विभूषिता ॥६४ ॥ समारूढरति-प्रीतिप्रियशैलूषशालिना । भ्रूरज्जुसज्जितेनोचैर्नासावंशेन भासुरा
॥६५॥ हग्भ्यां योग्याकृते क्षिसः, कर्णकोटरमध्यगैः । विशिखैरिव 'राजन्ती, कटाक्षैर्वृतपातिभिः ॥६६॥ .' अन्तर्भित्तिसग्नासाविभक्तौ मणिभासुरौ । कपोलौ बिभ्रती कामप्रेयस्योर्वासवेश्मवत् ॥६७ ॥ ' आस्येन्दुना निपीतस्य, शशाङ्कयशसोऽधिकान् । उद्गारानिव तन्वाना, स्मितदन्तद्युतिच्छलात् ॥ ६८॥ . प्रियानुरागं चित्तान्तरमान्तमिव निर्भरम् । उद्धान्तमधरच्छायाच्छमना दधती मुखे ॥६९॥ क्रष्टुं नाभीहूदादीशदग्धं मग्नमिव स्मरम् । दाम्नेवास्येन्दुमुक्तेन, मुक्ताहारेण हारिणी ॥७०॥ ५, दधाना मेखलारलं, दीपरूपमिव स्मरम् । उद्यत्कज्जललेखाभरोमराजिविराजितम् ॥१॥ । पादाभ्यामङ्गुलिश्रेणिशोणितक्षोणिमण्डला । तर्जयन्तीव पद्मानि, मणिनू पुरसिञ्जितैः ॥७२॥ . हर्षपीयूषवर्षेणोद्भिन्नरोमाकुरोत्करा । साऽऽरुरोह वरारोहा, गवाक्षं वीक्षिता जनैः ॥७३॥ :
॥ द्वादशभिः कुलकम् ॥ , विश्वौतिशायिसौभाग्य-भाग्य-लावण्यसम्पदम् । पिबन्ती निर्निमेषाक्षी, सा देवीभूयमन्वभूत् ॥ ७४॥ .
विवोढुमप्युपायान्तं, सा तं वीक्ष्य व्यचिन्तयत् । एतत्पाणिग्रहे योग्यं, भाग्यं किं मे भैविष्यति
॥७५ ॥ .. इतश्चाऽऽकर्णयन् नानाजीवानां कणं रवम् । जानन्नपि जिनोऽपृच्छत् , किमेतदिति सारथिम् ॥ ७६ ॥ अथ सारथिनाऽभाषि, देवाऽऽतिथ्यकृते तव । उग्रसेनोऽग्रहीजीवान् , जल-स्थल-नभश्चरान् ।। ७७ ॥ तत् सर्वेऽपि कृपाकान्त !, वाटकान्तः स्थिता अमी। तन्वते तुमुलं प्राणभयं येन महाभयम् ॥ ७८ ॥... तदुवाच यदुस्वामी, यत्रामी सन्ति जन्तवः । स्यन्दनं नय तत्रामुमित्यकार्षीच सारथिः ॥७९॥ अथ व्यलोकि दीनास्यैः,प्राणिभिर्वध्यतां गतः। स्वोक्त्या रक्षेति जल्पद्भिः, पितेव तनुजैः प्रभुः ॥ ८० ॥ . करुणाकरिणीकेलिकाननेनाथ नेमिना । अमी सर्वेऽप्यमोच्यन्त, जवादादिश्य सारथिम् ॥८१॥ . मुक्तेषु तेषु जीवेषु, करुणावीचिवार्घिना । स्यन्दनो जगतां पत्या, प्रत्यावासमचाल्यत ॥८२ ॥ . शिवा समुद्रविजयः, कृष्ण-रामादयोऽप्यथ । स्वस्वयानं समुत्सृज्य, श्रीमन्नेमिनमभ्यंगुः ॥ ८३ ॥ ' ततो नेमिनमूचाते, पितरौ साश्रुलोचनौ । त्वया जात! किमारव्धमिदं नः प्रतिलोमिकम् ? ॥ ८४ ॥ प्रभुःप्राह मयाऽऽरव्यमेतद्विश्वानुकूलिकम् । पशुवन्मोचयिष्यामि, यद् युष्मान् स्वं च बन्धनात् ॥ ८५ ॥ तदाकाथ मूर्छालौ, पितरौ पेततुः क्षितौ । चन्दनादिभिरावास्य, कृष्णस्तौ नेमिमभ्यधात् ॥ ८६॥ .. धिक् ! ते विवेकितामेती, पशूनप्यनुकम्पसे । दोदूयसे पुनर्मातृ-पितृ-बन्धु-सुहृज्जनान् ॥८७ ॥ . '
' १ कुलकम् वता० ॥ २ अयं श्लोकः वता० नास्ति ॥ ३ भवेदिति खता० सं० ॥ .४ रुणारवम् खंता० सं० ॥ ५ न्तधृता सं० ॥ ६ भ्ययुः खता० ॥ ७ मेतान् , पशू खता० ॥ . !

Page Navigation
1 ... 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284