________________
'१७९
सर्गः] .
धर्माभ्युदयमहाकाव्यम्। . अन्यदा कर्म तस्योच्चैरुदगादान्तरायिकम् । स्वयं न लभते सोऽयं, हन्ति लामं परस्य च ॥१९॥ साधवोऽथ जगन्नाथमपेच्छन् किं न ढण्ढणः । कुनापि लभते किञ्चिन्नगरे ऋद्धिमत्यपि ? ॥ १९८ ॥ ___ अथावदद् विभुमे, धान्यपूराभिधे पुरा । विप्रो मगधदेशेऽभूदयं नाम्ना परासरः ।। १९९ ।। प्रामे राजनियुक्तोऽसौ, ग्राम्यैः क्षेत्राणि वापयन् । सीतामकर्षयद् भक्तेऽभ्युपेतेऽपि पृथक् पृथक् ॥ २० ॥ बुमुक्षितानपि श्रान्तानपि तृष्णातुरानपि । वृषान् दासांश्च स क्रूरो, मुमोच न कथञ्चन ॥२०१॥ इत्यन्तरायमर्जित्वा, कर्म भ्रान्त्वा भृशं भवे । ढण्ढणोऽभूत् सुतो विष्णोः, पूर्वकर्मोदितं च तत् ॥ २०२ ॥ समाकयेति संविमः, कृष्णसूनुः पुरः प्रभोः । अभ्यग्रहीदिदं यन्न, भोक्ष्येऽहं परलब्धिभिः ॥ २०३ ॥ परलब्धं न तद् भुले, लभते न स्वयं कचित् । कालक्षेपमसावित्थं, चक्रे दुष्करकारकः ॥ २०४ ॥ कोऽतिदुष्करकारीति, प्रभुः पृष्टोऽथ विष्णुना। व्याचल्यौ ढण्ढणं साधु, सोढाऽलाभपरीषहम् ॥२०५।। नत्वाऽथ स्वामिनं विष्णुः, पुरं द्वारवतीं व्रजन् । मुनि ढण्ढणमालोक्य, ननामोत्तीर्य कुञ्जरात् ॥ २०६॥ ववन्दे विष्णुनाऽप्येष, धन्यः कोऽपि मुनीश्वरः। कोऽपि श्रेष्ठीति तं साधू, मोदकैः प्रत्यलाभयत् ।। २०७॥ दर्शयन् मोदकान् सोऽपि, मुनिः प्रभुमभाषत । मम कर्माद्य किं क्षीणं, लब्धा यन्मोदका अमी?॥२०८ ॥ जिनो जगाद नो कर्म, क्षीणं लब्धिश्च नैव ते।वन्दमानं हरिं दृष्ट्वा, यत् त्वां स प्रत्यलाभयत् ॥ २०९ ॥ परलब्धिमभुलानः, स्थण्डिले मोदकान् मुनिः । द्राक् परिष्ठापयन् लेमे, केवलं भूरिभावनः॥ २१० ॥ प्रभुं प्रदक्षिणीकृत्य, स केवलिसमां गतः । विहृत्याथ भुवि स्वामी, द्वारकां पुनरागमत् ॥ २११ ॥
रथनेमिरथान्येयुर्भिक्षां भ्रान्त्वा पुरान्तरे। वलमानो गुहां काञ्चित्, प्रविष्टो वृष्टिपीडितः॥ २१२ ॥ नेमि नत्वा तथा राजीमती यान्ती पुरं प्रति । वृष्टिदूना तमोगुप्ता, रथनेमिगुहामगात् ।। २१३ ॥ रथनेमिमजानन्ती, तमःस्तोमतिरोहितम् । उद्वापयितुमत्रासौ, वस्त्राण्यूwण्यमुञ्चत ॥२१४ ।। तां तथा वीक्ष्य कामार्तो, रथनेमिरथाऽवदत् । पुराऽपिप्रार्थिताऽसि त्वमद्य मे कुरु वाञ्छितम् ॥ २१५ ॥ रथनेमिमयो मत्वा, ध्वनिना भोजनन्दनी । संवृताङ्गी जवादेव, ब्रीडाभारादुपाविशत् ॥ २१६ ॥ राजीमत्याऽथ जल्पन्त्या, चिरं साधूचितं वचः । प्रत्यबोधि तदा प्रीतो, रथनेमिमहामुनिः ॥ २१७ ॥ तदालोच्य प्रभोरगे, तपस्तीव्रतरं चरन् । स्वच्छात्मा वत्सरेणासौ, कलयामास केवलम् ॥ २१८ ॥
विहृत्य पुनरन्येद्युः, स्वामी रैवतपर्वते । सेवितो देवतावृन्दैः, शमवान् समवासरत् ॥ २१९ ॥ हरिराह सुतान् प्रातयः प्राग नस्यति नेमिनम् । यच्छामि वाञ्छितं तस्मै, वाजिनं रयराजिनम् ॥ २२० ।। श्रुत्वेति प्रथमं प्रातर्बालकः पालको मुदा । तुरङ्गस्यैव लोमेन, नेमिनाथं ननाम सः ॥२२१ ॥ शाम्बस्तु प्रस्तुतध्याननिधानीभूतमानसः । स्थानस्थ एव तीर्थेशं, प्रणनाम निशात्यये ॥२२२ ।। ययाचे पालक: प्रातर्हयं हरिरथाब्रवीत् । प्रभुः प्राग् वन्दितो येन, दास्ये तस्यैव वाजिनम् ॥ २२३ ॥
गत्वाऽथ विष्णुना पृष्टः, स्वामी सम्यगभाषत ।
द्रव्यतः पालकः शाम्बो, भावतः प्राग् ननाम माम् ॥ २२४ ॥ अभन्योऽयमिति क्रुद्धो, निचक्रे पालक हरिः । शाम्याय मण्डलेशत्वमिष्टं चतुरगं ददौ ।। २२५ ।। देशनान्तेऽन्यदा नेमि, नमस्कृत्य जनार्दनः । पप्रच्छ द्वारकाऽप्येषा, कदाचिद्यास्यति क्षयम् ।।२२६॥
१न्त्वा चिरं भवे । खंता० सं० ॥ २तकाचले खंता.॥ ३ नत्वा सं० ॥ ४ 'ति श्रुत्वा, निच खंता० ॥