________________
सवपतिचरितापरनामकं. . [चतुर्दशा अथावद विभुः शौर्य पुरसीम्नि परासरः। सिषवे तापसः कोञ्चित् ; कन्यां नीचकुलां. पुरा ॥ २२७ ॥ तद्भूद्वैपायनो नाम, ब्रह्मचारी दमी शमी। वसन् वनेऽत्र मद्यान्धैः, शाम्बाद्यैः सःहनिष्यते ॥ २२८ ॥ स. पुरीं धक्ष्यति क्रुद्धो, यादवैः सह तापसः । भातुर्जराकुमारात् ते, मृत्युर्भावी जरासुतात् ।। २२९ ॥ .' श्रुत्वा जराकुमारस्तत् , खिन्नचेताः प्रमोर्वचः । ययौ वनं जिनं नत्वा, तूण-कोदण्डदण्डभृत् ॥ २३०॥ . श्रुत्वा द्वैपायनोऽपीदं, नृपरम्परया वचः । सर्वक्षयाय मा भूवमित्यभूद् वनमन्दिरः ॥२-३१॥ नेमि प्रणम्य कृष्णोऽपि, प्रति द्वारवतीं गतः । भावी मद्यादनर्थोऽयमिति मद्यं न्यवारयत् ॥॥२३२ ॥ ' अथ कादम्बरी कादम्बरीसंज्ञगुहान्तरे । शिलाकुण्डे समीपाद्रेः, पौराः कृष्णाज्ञयाऽत्यनन् ।। २३३॥ . एवं क्षयभियाऽऽपृच्छय, सिद्धार्थः सोदरो बलम् । देवीभूयोपकर्तास्मि, गदित्वेत्यग्रहीव्रतम् ॥ २३४॥ स षण्मासी तपस्तत्वा, मुनीन्द्रस्त्रिदिवं ययौ। इतश्च कश्चित् कुण्डस्थां, सुरांशाम्बानुगः पपौः॥ २३५॥ शाम्बायाथ सुरापूर्णा, चक्रे दृतिमुपायनम् । आख्यत् पृष्टः स शाम्वेन; शिलाकुण्डे स्थितां सुराम् ॥२३६॥ द्वितीयेऽह्नि ययौ शाम्बः, कुमारैः सह दुधेरैः । अतृप्तश्च पपौ स्वादुरसां स्वादुरसां चिरात् ॥ २३७॥ ... द्वैपायनस्तदा ध्यानस्थितः शैलाश्रितः शमी । पूर्वाहहेतुरित्येष, रुषा शाम्बेन कुट्टितः ॥२३८॥ कृत्याऽथ तं मृतप्रायं, ययुः सर्वेऽपि वेश्मसु । क्रुद्धस्यास्य पुरीदाहे, प्रतिज्ञां श्रुतवान् हरिः ॥ २३९॥ , पटुमिश्वटुभिः शास्त्रवचोभिर्भक्तिभिस्तथा । कृष्णस्तं सान्त्वयामास, न पुनः शान्तवानसौ. ॥ २४ ॥ कोपक्रूरारुणाक्षोऽपि, मुनीशः कृष्णमब्रवीत् । सह रामेण मुक्तोऽसि, पुरीदाहेऽतिभक्तिभाक्॥२४११॥ हन्यमानेन दुर्दान्तर्मया तव कुमारकैः । बद्धं निदानमोति, पूर्दाहोऽस्तु तपःफलम् ॥२४२ ॥ कृष्णस्तपस्विनेत्युक्तः, सरामः प्रययौः पुरीम् । द्वैपायननिदानं च, तदभूत् प्रकटं पुरे। ॥ २४३॥ अथ कृष्णाज्ञयाऽभूवन् । धर्मनिष्ठाः पुरीजनाः। तदा रैवतकाद्रौ च, श्रीनेमिः समवासरत् ।।। २४४ ॥ तत्र गत्वा प्रभु नत्वा, चाश्रौषी देशनां हरिः। प्रद्युम्न-शाम्बौ निषध उल्मुकःसारणादयः॥ २४५ ॥ कुमारा रुक्मिणी चात्र, सत्याद्याश्च यदुस्त्रियः । बयः संसारनिर्विण्णा, देशनान्ते प्रवत्रजुः ॥२४६॥
.. ॥ युग्मम् ॥ समुद्रविजयादीन् स, स्तुवन् प्रव्रजितान् पुरा । निनिन्द स्वयमात्मानं, हरिर्मुहुरदीक्षितम्। ॥ २४७ ॥ ज्ञातचेताः प्रभुः प्राह, जातचिन्नैव शाङ्गिणः । भजन्ते संयम बद्धा, यन्निदानेन केशव ॥२४८॥ । ' किंञ्चाधोगामिनः सर्वे, स्वभावेन भवन्त्यमी । श्रुत्वेति विधुरं बाढं, तं स्वामी मुनरभ्यधात् ॥ २४९॥ मा विषीद हरे! भावी, त्वमर्हन्नत्र भारते । ब्रह्मलोकंबलो गत्वा, च्युत्वा मत्यो भविष्यति ॥२५॥ देवीभूतस्ततच्युत्वा, पुनरत्रैव भारते । भूत्वा ते तीर्थनाथस्य, शासने मोक्षमाप्स्यति । २५१।। श्रुत्वेति नत्वा तीर्थेशं, कृष्णोऽगानगरी निजाम् ।भगवान् नेमिनाथोऽपि, विजहांरान्यतस्ततः॥ २५२॥ 'पुनः कृष्णाज्ञया पौरा, बाढं धर्मपराः स्थिताः । द्वैपायनोऽपि मृत्वाऽभूदथ वह्निकुमारकः ॥ २५३ ॥
पूर्ववैरस्मृतेरेत्य, द्वारकां दग्धुमुद्धरः । नालम्भूष्णुरसौ.पौरतपःप्रतिहतः परम् : ॥२५४ ॥ वर्षाण्येकादशालब्धच्छिद्रोऽस्थादेष रोषणः। द्वादशेऽब्दे प्रवृत्ते च, लोकश्चित्तमिति व्यधात्।। ५५॥ . · भ्रष्टस्तपोनिरस्माकं, सोऽपि 'द्वैपायनो ध्रुवम् । रमामहे ततः स्वैरं, प्रवर्तितमहोत्सवाः । ॥२५६.॥ :....१ "दुर्मदैः खंता० । दुर्दमैः सं० ॥ -२ न पिट्टि खता०सं०॥ ३ क्षोऽथ, मुखता० सं० ॥ ': ४ °त्मानमेकं मुहु° खता० ॥ ५ तधों सं० ॥ ६ स्मृतेः प्राप्तो, द्वार खता० सं० ॥ . . .