________________
'सर्गः]
.
धर्माभ्युदयमहांकाव्यम् । इति मांसादनं मद्यपानं च यदवो व्यधुः । छिद्रान्वेषी स च च्छिद्रं, लेमे द्वैपायनासुरः ॥ २५७ ॥ 'उस्का-निर्घात-भूकम्पा-ऽऽलेख्य-प्रहसितादयः । उत्पाता विविधाः प्रादुरासंस्तस्यां ततः पुरि ॥ २५८ ॥ पिशाच-शाकिनी-भूत-वेतालादिपरिच्छदः । द्वैपायनासुरः सोऽपि, बभ्राम द्वारिकान्तरे ॥ २५९.॥ उष्ट्रारूढं दक्षिणस्यां, यान्तं रक्तांशुकावृतम् । महिषारूढमात्मानं, स्वमेऽपश्यन् पुरीजनाः ॥ २६० ॥ सीरादि सीरिणो नष्टं, रत्नं चक्रादि शाणिः । तत्र संवर्तकं वातं, विचकारासुरस्ततः ॥ २६१ ॥ 'काननानि समग्राणि, दिग्भ्योऽष्टाभ्योऽपि वायुना । उन्मूल्य स पुरी काष्ठ-तृणादिभिरपूरयत् ॥ २६२ ॥
भीत्या प्रणश्यतो लोकान्, दिग्भ्योऽप्यानीय दुष्टधीः । द्वारकान्तर्निचिक्षेप, क्षणाद् द्वैपायनासुरः ।
॥ २६३ ॥ अथ क्षयानलमाये, ज्वलने ज्वालिते द्विषा । तत्र वालैश्च वृद्धैश्च, कण्ठलग्नमिथः स्थितम् ॥ २६४ ॥ देवकीरोहिणीयुक्त, वसुदेवमथो रथे । ऋष्टुं प्रज्वलनाद् रामयुक्तः कृष्णो न्यवेशयत् ॥ २६५ ॥ न हया न वृषा नेमास्तं क्रष्टुं रथमीशते । स्तम्भितास्तेन दैत्येन, स्थिता लेप्यमया इव ॥ २६६ ।। कृष्ण-रामौ स्वसामर्थ्यात् , तं रथं द्वारि निन्यतुः । पू:प्रतोलीकपाटे ते, पिदधावसुरः क्रुधा ॥ २६७ ॥ अपाटयंत्। कपाटौ तौ, रामः पादप्रहारतः । रथस्तु नाचलतू कृष्यमाणोऽपि गिरिशृङ्गवत् ॥२६८ ॥ अथ तो पितरः प्राहुर्वत्सौ! द्राग् गच्छतं युवाम् । निदानं स मुनिः कुर्वन् ,युवामेव मुमोच यत् ।। २६९ ॥ शरणनः पुनर्नेमिरधुनाऽप्यस्तु दुर्षियाम् । कस्यापि न वयं कोऽपि, नास्माकमिति निश्चयः ॥ २७०।। 'इति ध्यानवतां मूर्ति, तेषाममिं ववर्ष सः। मृत्वाऽथ दिवि जग्मुस्ते, राम-कृष्णौ निरीयतुः ॥ २७१ ॥ 'द मानां पुरी पाल्यां, द्रष्टुमप्यक्षमौशुचा । आलोच्याऽऽलोच्य तौ पाण्डुपत्नं प्रति चेलतुः ॥ २७२ ॥ 'पुरेऽथं प्रज्वलत्यस्मिन्, समसः कुब्जवारकः। शिष्योऽस्मि नेमिनाथस्य, भावतोऽहं धृतवतः ॥२७३॥ ब्रुवन्निति समुत्पाट्य, नीतोऽसौ जृम्भकामरैः । प्रांत्राजीत् पल्हवे देशे, श्रीमन्नेमिपदान्तिके ॥२७॥
॥ युग्मम् ॥ इतोऽपि धितं कृष्णं; मुक्त्वा हस्तिपराद बहिः ।गत्वा बलो गृहीत्वा च, शम्बलं वलितः स्वयम् ॥२७५॥ 'तन्नृपेणाऽच्छदन्तैन, धार्तराष्ट्रेण सीरभूत । पिधाय नगरद्वारं, चौरोऽयमिति रोधितः ॥ २७६ ॥ क्ष्वेडाइतेन कृष्णेन, बलादर्गलंबाहुना | हेलाहतकपाटेन, युक्तः सीरी द्विषोऽजयत् ॥ २७७ ॥ अथ मुक्त्वा तदुद्याने, तौ कौशाम्बवनं गतौ । तत्रातस्तृष्णया कृष्णस्तस्थौ रामोऽम्भसे गतः ॥ २७८॥
अथ पीताम्बरच्छन्नतनोः सुप्तस्य कानने । लानो जानूपरिन्यस्ते, कृष्णस्याशितले शरः ॥ २७९ ॥ तदुत्थाय हरि कोऽयमित्यवादीदमर्षणः । उपलक्ष्य गिराऽऽगत्य, जरापुत्रो मुमूर्छ च ॥२८०॥ 'लब्धसंज्ञो रुदन्नाह धिग्मे जन्मेदमीदृशम् । घिगमा यन्न तदादीर्णः, श्रुत्वा तत् तीर्थकृद्वचः ॥ २८१॥ ममारण्यगतस्यापि, यदभूः शरगोचरः । तन्मन्ये कृष्ण! पूर्दग्धा, न स्यादर्हद्वचोऽन्यथा ॥ २८२ ॥ अथ तंम्हरिरित्याह, विषादेन कृतं कृतिन् ! । त्वं जीव-यादवेवेको, व्रज वेगेन पाण्डवान् ॥ २८३॥ भाविनस्ते सहायास्ते, चिरंक्षाम्याश्च मदिरा । गच्छ यावबलो नैति, त्वांहनिष्यति स क्रुषा ।। २८४ ॥ इत्युक्त्वा प्रेषित सैष गोविन्देन जरासुतः। उन्मूल्यास्मै ददौ चायमभिज्ञानाय कौस्तुभम् ॥ २८५॥
१ परिग्रहः खता० ॥ २ पाक्रान्तमात्मा' खंता० सं० ॥ ३ स्तं रथं कष्टमी संता० ॥ ४ °ण्डुमथुरा प्रति संता० सं० ॥ ५ त्वाऽथ, श खंता । त्वाऽध्वश सं० ॥