Book Title: Dharmabhyudaya Mahakavya
Author(s): Chaturvijay, Punyavijay
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
सर्गः]
.
धर्माभ्युदयमहाकाव्यम् ।
१७१ अथ प्रीतो हरिः सर्वैः, खेचरैचरैर्वृतः । वसुधां साधयामास, त्रिखण्डां चण्डविक्रमः ॥४१८ ॥ भरतार्द्ध विजित्याथ, प्रविष्टो द्वारकापुरीम् । स भेजे सम्भृतं भूपैरभिषेकमहोत्सवम् ॥ ४१९ ॥ सम्बन्धि-बन्धुवर्गेषु, सेवकेषु सुहृत्सु च । यथौचित्यं ददौ राज्यसंविभागं गदाग्रजः ॥ ४२० ॥ इत्थं निर्मथिताशेषोपसर्ग-ग्रह-विग्रहः । गोविन्दो विदधे न्यायधर्मशर्ममयीं महीम् ॥४२१ ॥
परिचरति पुरीयं वारिधौ न्यायधर्म
व्यतिकरमकरन्दस्यारविन्दस्य लक्ष्मीम् । जितसितकरमूर्तिस्फूर्तिभिः सच्चरित्रै
रिह विहरति हंसः कंसविध्वंसनोऽसौ ॥४२२॥
॥ इति श्रीविजयसेनसूरिशिष्यश्रीमदुदयप्रभसूरिविरचिते श्रीधर्माभ्युदयनानि __ श्रीसङ्घपतिचरिते लक्ष्म्यके महाकाव्ये हरिविजयो नाम
त्रयोदशः सर्गः ॥
विश्वस्मिन्नपि वस्तुपाल ! जगति त्वत्कीर्तिविस्फूर्तिभिः,
श्वेतद्वीपति कालिकाकलयति स्वर्मालिकानां मुखम् । यस्तैस्तावककीर्तिसौरभमदान्मन्दारमन्दादरे,
वर्गे स्वर्गसदां सदा च्युतनिजव्यापारदुःस्थैः स्थितम् ॥१॥ ॥ ग्रन्थानम् ४३० ॥ उभयम् ४६९० ।।
१ म् ४०४ । उभयं ग्रंथ ४५७९ वता० ॥

Page Navigation
1 ... 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284