Book Title: Dharmabhyudaya Mahakavya
Author(s): Chaturvijay, Punyavijay
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 242
________________ सर्गः]. . धर्माभ्युदयमहाकाव्यम् । १६९ हयतः पतितौ पादकटकस्खलितक्रमौ । केशाकर्षादयुध्येतां, शस्त्र्या कौचिदधोमुखौ ॥३५६ ॥ सारणेन रणे जप्ने, तदा रामानुजन्मना । जवनाख्यो जरासन्धयुवराजो महाभुजः ॥३५७ ॥ ततः सुतवधक्रुद्धो, जरासन्धोऽपि जनिवान् । दश रामसुतान् तायव्यहाधिनखरानिव ॥ ३५८ ॥ कृष्णोऽपि शिशुपालस्य, मूर्धानमसिनाऽच्छिनत् । चक्राधिरूढकलशं, कुलाल इव तन्तुना ॥ ३५९ ॥ तदाऽष्टाविंशतिस्तत्र, जरासन्धसुता हताः । बलेन मुशलेनाऽऽशु, निजाङ्गजवधनुधा ॥३६० ।। जरासन्धेर्न चापत्यपेपरोषान्धचक्षुषा । आहतो गदया रक्तं, वमन् भुवि वलोऽपतत् ॥ ३६१ ॥ तदा बन्धुपराभूतिक्रोधाविर्भूतिदुर्धरः । जरासन्धभुवोऽभेत्सीद्, विष्णुरेकोनसप्ततिम् ॥ ३६२ ॥ तदो रविरोधेन, क्रोधेन मगधाधिपः । ज्वलंश्चचाल कृष्णाय, शरमायेव केसरी ॥३६३ ।। __ इहान्तरे जरासन्धशरासारतिरस्कृते । अभवद् यदुसैन्येऽस्मिन् , हतो हरिरिति प्रथा ॥ ३६४ ॥ तदाऽऽकुलं यदुकुलं, श्रीमान् नेमिर्विलोकयन् । रथं मातलिना युद्धे, ससम्भ्रममविभ्रमत् ॥ ३६५ ॥ अथेन्दचापनिमुक्तैः, शरैः स्वामी रिपुत्रजम् । आच्छादयदुड्डस्तोमं, करैरिव दिवाकरः ॥ ३६६ ॥ एक एव तदा स्वामी, विश्वरक्षा-क्षयक्षमः । विपक्षक्ष्माभृतां लक्षं, रुरोधाऽघातकैः शरैः ॥ ३६७ ॥ किरीटेषु ध्वजाग्रेषु, कुन्तप्रान्तेषु सारिषु । फलकेष्वातपत्रेषु, पेतुः प्रभुपतत्रिणः ॥३६८ ॥ अथ श्रीनेमिसाहाय्यलब्धोत्साहो यदुव्रजः । परेषुमारुतप्रत्तोद्यमो दव इवाज्वलत् ॥ ३६९ ॥ भीमस्तंदा रणक्षोणावन्विष्यान्विण्य कौरवान् । करीवोन्मूलयामास, वनान्तः सल्लकीतरून ॥ ३७० ।। भास्वानाश्वासनामाप्य, वलोऽपि प्रवलोद्यमः । अरीन् व्यरीरमद् वायुः, कज्जलध्वजवजवात् ॥ ३७१ ॥ ___ सद्योऽजब्रजध्वंसोबुद्धकंसवधक्रुधा । जिष्णुं जगाद जाज्वल्यमानधीमगधाधिपः ॥ ३७२ ।। अयुध्यमानो मल्लानां, पश्यन् कौतूहलं छलात् । अरे। वीरकुलोत्सः, कंसः किल हतस्त्वया ॥ ३७३ ॥ तस्मिन् रणाङ्गणोताले, काले दत्तप्रयाणके । पलाय्याऽऽशु प्रविष्टोऽसि, पयोधिपरिखां पुरीम् ॥ ३७४ ।। तवाद्य केन देवेन, दत्ता दुर्मद! दुर्मतिः । स तादृशो दृशोर्मा , यदस्माकमढौकथाः ॥ ३७५ ॥ कुक्षौ कस्यों स कंसोऽस्ति ?, वद त्वां हन्मि हेलया। प्रतिज्ञां पूरयाम्यद्य, तां जीवयशसश्चिरात् ॥ ३७६ ॥ ततस्तमाह गोविन्दः, किमालपसि बालिश ! । कंसकुञ्जरसिहस्य, जरद्गव इवासि मे ॥ ३७७ ॥ कंसोऽस्ति वामकुक्षौ मे,कुक्षिः शून्यस्तु दक्षिणः। इहाऽऽविश जवाद् येन, तृप्तः खेलामि भूतले ॥ ३७८॥ प्रतिज्ञां पूरय रयात् , तां जीवयशसोऽधुना । त्वत्प्रेयसीनां सार्थेन, यात्वसौ दहनाध्वना ॥ ३७९ ॥ अथ कुद्धोऽक्षिपद् बाणान्, मगधश्चिच्छिदुश्च तान् । दिवि कृष्णशरा भानुकरानिव पयोधराः ॥ ३८० ॥ पर्जन्याविव गर्जन्तौ, तर्जयन्तावुभौ मिथः । युयुधाते क्रुधा तेजःपिञ्जरौ कुञ्जराविव ॥ ३८१ ॥ तयोस्तदेषुजातेन, जाते नभसि मण्डपे । नापूरि नाकनारीणां, रणालोकनकौतुकम् ॥ ३८२ ।। शस्त्रैस्तमपरैः शत्रुमजेयं परिभावयन् । मेगधेशोऽस्त्रमाग्नेयं, वाग्नेयं विशिखे न्यधात् ॥३८३ ॥ ज्वलनः प्रज्वलन्नुघद्धमलेखाङ्कितस्तदा । शत्रुदाहं प्रतिज्ञातुं, मुक्तचूल इवाभवत् ॥ ३८४ ॥ अथाऽऽलोक्य बलं ज्वालाजिबज्वालाकुलाकुलम् । अम्भोदास्त्रं महारम्भो, जम्भारेरनुजोऽमुचत् ॥३८५|| १'न तत्पुत्रपेष खंता० ॥ २ अच्छा खंता० ॥ ३ कुम्भप्रा खंता० ॥ ४ 'तोत्साहो दव खंता० सं० ॥ ५मागे खंता० ॥ ६ स्तथा खंता० ॥ घ. २२

Loading...

Page Navigation
1 ... 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284