________________
सर्गः].
.
धर्माभ्युदयमहाकाव्यम् ।
१६९ हयतः पतितौ पादकटकस्खलितक्रमौ । केशाकर्षादयुध्येतां, शस्त्र्या कौचिदधोमुखौ ॥३५६ ॥ सारणेन रणे जप्ने, तदा रामानुजन्मना । जवनाख्यो जरासन्धयुवराजो महाभुजः ॥३५७ ॥ ततः सुतवधक्रुद्धो, जरासन्धोऽपि जनिवान् । दश रामसुतान् तायव्यहाधिनखरानिव ॥ ३५८ ॥ कृष्णोऽपि शिशुपालस्य, मूर्धानमसिनाऽच्छिनत् । चक्राधिरूढकलशं, कुलाल इव तन्तुना ॥ ३५९ ॥ तदाऽष्टाविंशतिस्तत्र, जरासन्धसुता हताः । बलेन मुशलेनाऽऽशु, निजाङ्गजवधनुधा ॥३६० ।। जरासन्धेर्न चापत्यपेपरोषान्धचक्षुषा । आहतो गदया रक्तं, वमन् भुवि वलोऽपतत् ॥ ३६१ ॥ तदा बन्धुपराभूतिक्रोधाविर्भूतिदुर्धरः । जरासन्धभुवोऽभेत्सीद्, विष्णुरेकोनसप्ततिम् ॥ ३६२ ॥ तदो रविरोधेन, क्रोधेन मगधाधिपः । ज्वलंश्चचाल कृष्णाय, शरमायेव केसरी ॥३६३ ।। __ इहान्तरे जरासन्धशरासारतिरस्कृते । अभवद् यदुसैन्येऽस्मिन् , हतो हरिरिति प्रथा ॥ ३६४ ॥ तदाऽऽकुलं यदुकुलं, श्रीमान् नेमिर्विलोकयन् । रथं मातलिना युद्धे, ससम्भ्रममविभ्रमत् ॥ ३६५ ॥ अथेन्दचापनिमुक्तैः, शरैः स्वामी रिपुत्रजम् । आच्छादयदुड्डस्तोमं, करैरिव दिवाकरः ॥ ३६६ ॥ एक एव तदा स्वामी, विश्वरक्षा-क्षयक्षमः । विपक्षक्ष्माभृतां लक्षं, रुरोधाऽघातकैः शरैः ॥ ३६७ ॥ किरीटेषु ध्वजाग्रेषु, कुन्तप्रान्तेषु सारिषु । फलकेष्वातपत्रेषु, पेतुः प्रभुपतत्रिणः ॥३६८ ॥ अथ श्रीनेमिसाहाय्यलब्धोत्साहो यदुव्रजः । परेषुमारुतप्रत्तोद्यमो दव इवाज्वलत् ॥ ३६९ ॥ भीमस्तंदा रणक्षोणावन्विष्यान्विण्य कौरवान् । करीवोन्मूलयामास, वनान्तः सल्लकीतरून ॥ ३७० ।। भास्वानाश्वासनामाप्य, वलोऽपि प्रवलोद्यमः । अरीन् व्यरीरमद् वायुः, कज्जलध्वजवजवात् ॥ ३७१ ॥ ___ सद्योऽजब्रजध्वंसोबुद्धकंसवधक्रुधा । जिष्णुं जगाद जाज्वल्यमानधीमगधाधिपः ॥ ३७२ ।। अयुध्यमानो मल्लानां, पश्यन् कौतूहलं छलात् । अरे। वीरकुलोत्सः, कंसः किल हतस्त्वया ॥ ३७३ ॥ तस्मिन् रणाङ्गणोताले, काले दत्तप्रयाणके । पलाय्याऽऽशु प्रविष्टोऽसि, पयोधिपरिखां पुरीम् ॥ ३७४ ।। तवाद्य केन देवेन, दत्ता दुर्मद! दुर्मतिः । स तादृशो दृशोर्मा , यदस्माकमढौकथाः ॥ ३७५ ॥ कुक्षौ कस्यों स कंसोऽस्ति ?, वद त्वां हन्मि हेलया। प्रतिज्ञां पूरयाम्यद्य, तां जीवयशसश्चिरात् ॥ ३७६ ॥ ततस्तमाह गोविन्दः, किमालपसि बालिश ! । कंसकुञ्जरसिहस्य, जरद्गव इवासि मे ॥ ३७७ ॥ कंसोऽस्ति वामकुक्षौ मे,कुक्षिः शून्यस्तु दक्षिणः। इहाऽऽविश जवाद् येन, तृप्तः खेलामि भूतले ॥ ३७८॥ प्रतिज्ञां पूरय रयात् , तां जीवयशसोऽधुना । त्वत्प्रेयसीनां सार्थेन, यात्वसौ दहनाध्वना ॥ ३७९ ॥ अथ कुद्धोऽक्षिपद् बाणान्, मगधश्चिच्छिदुश्च तान् । दिवि कृष्णशरा भानुकरानिव पयोधराः ॥ ३८० ॥ पर्जन्याविव गर्जन्तौ, तर्जयन्तावुभौ मिथः । युयुधाते क्रुधा तेजःपिञ्जरौ कुञ्जराविव ॥ ३८१ ॥ तयोस्तदेषुजातेन, जाते नभसि मण्डपे । नापूरि नाकनारीणां, रणालोकनकौतुकम् ॥ ३८२ ।। शस्त्रैस्तमपरैः शत्रुमजेयं परिभावयन् । मेगधेशोऽस्त्रमाग्नेयं, वाग्नेयं विशिखे न्यधात् ॥३८३ ॥ ज्वलनः प्रज्वलन्नुघद्धमलेखाङ्कितस्तदा । शत्रुदाहं प्रतिज्ञातुं, मुक्तचूल इवाभवत् ॥ ३८४ ॥ अथाऽऽलोक्य बलं ज्वालाजिबज्वालाकुलाकुलम् । अम्भोदास्त्रं महारम्भो, जम्भारेरनुजोऽमुचत् ॥३८५||
१'न तत्पुत्रपेष खंता० ॥ २ अच्छा खंता० ॥ ३ कुम्भप्रा खंता० ॥ ४ 'तोत्साहो दव खंता० सं० ॥ ५मागे खंता० ॥ ६ स्तथा खंता० ॥
घ. २२