Book Title: Dharmabhyudaya Mahakavya
Author(s): Chaturvijay, Punyavijay
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 240
________________ सर्गः] . १६७ धर्माभ्युदयमहाकाव्यम् । मुक्तमार्गणसार्थेन, पार्थेन विरथीकृतः । दुर्योधनः समुत्पत्य, प्रपेदे शकुने रथम् ॥२९९ ॥ बभन्न भूभुजो धीरंमन्यानन्यानपि क्रुधा । पार्थः शरभरैः पद्मान् , धारासारैरिवाम्बुदः ॥ ३०० ॥ शक्त्याऽवधीद् द्विषां शल्यं, शल्यं युधि युधिष्ठिरः। , अमोघेनाऽऽशु वजेण, वज्रपाणिरिवाचलम् । हत्त्वा दुःशासनस्याऽऽशु, गवयाऽथ व्यदारयत् । उरो दुरोदरच्छद्मजयक्रुद्धो वृकोदरः ॥ ३०२ ।। सहदेवकरोत्थेन, श्येनेनेव पतत्रिणा । स्यादुड्डीयमानेन, चिच्छिदे शकुनेः शिरः ॥ ३०३ ॥ दीप्तं कौरवसेनाया, जीवितव्यमिवेषुभिः । अस्तं निनाय गाण्डीवधन्त्रा युधि जयद्रथम् ॥ ३०४ ॥ ज्वालाजालैरिव व्योम, व्याप्नुवन् विशिखैरथ । निर्दग्धुमर्जुनं दाववर्णः कर्णः समुत्थितः ॥ ३०५ ॥ यशोमुक्ताञ्चितं कर्णताडङ्कमिव जीवितम् । हरन् पार्थोऽकृताश्रीकं, कौरवध्वजिनीमुखम् ॥ ३०६ ॥ मृगेन्द्र इव कर्णेऽस्मिन् , निहतेऽथ मृगा इव । मेनिरे हतमात्मानमहता अपि कौरवाः ॥ ३०७ ॥ हते कर्णेऽर्जुनस्याऽऽसीजितमेवेति निश्चयः । भीमश्वासमरुत्तूले, जीवत्यपि सुयोधने ॥ ३०८ ॥ गजेन्द्रसेनासीमन्तो, भीमं तोयधिनिस्वनम् । क्रुद्धो दुर्योधनो राजा, सिंहं मृग इवाक्षिपत् ॥ ३०९ ।। भीमोऽथ शुण्डया धृत्वा, महेभान् समराद् बहिः।। दूरं चिक्षेप शेवालजालानीव सरोवरात् ॥३१०॥ कल्लोलानिव कुम्भीन्द्रान् , दोामुभयतः क्षिपन् । तदा तरीतुमारेभे, भीमः सङ्गरसागरम् ॥ ३११ ॥ दायाद एव भीमस्य, युद्धभागेऽप्यढौकत । सज्जीकृतद्विपकुलो, नकुलोऽथ प्रतिद्विषः ॥ ३१२ ॥ ततः पाण्डव-कौरव्यबलयोः प्रबलस्वनाः । अमिलनाशु कीनाशकिङ्करा इव कुञ्जराः ॥३१३ ॥ कौचिद् द्विपौ दृढाघातभ्रष्टदन्तौ रणे मिथः । अस्पृश्येतां कराण, मन्दमने द्विपीधिया ॥ ३१४ ॥ कोऽपि प्रतिद्विपं दन्ती, स्वदन्तप्रोतविग्रहम् । ऊर्द्धमुत्पाटयामास, कृतान्तायार्पयन्निव ॥ ३१५ ॥ युद्धेन चलितं योद्धुमक्षमं दन्तमात्मनः । द्विपोऽन्यः शुण्डयोन्मूल्य, तेनामैत्सीत् प्रतिद्विपम् ॥ ३१६ ॥ • पराङ्मुखौ मिथो भङ्गादभूतां सम्मुखौ पुनः ।। स्वेभैः परभ्रमात् कौचित् , ताडितौ चलितौ गजौ ॥ ३१७ ॥ उद्धृत्य शुण्डया कोऽपि, प्रतिदन्तिरदं रणे । रुषाऽक्षिपन्मुखे मूर्ता, रिपुकीर्तिमिव द्विपः ॥ ३१८॥ उत्क्षिप्तः शुण्डया दूर, केनापि करिणा करी । ततो भूभङ्गमीत्येव, दन्तदण्डे धृतः पतन् ॥ ३१९ ॥ लज्जयामासतुः स्वं स्वं, योघं कौचन सिन्धुरौ । एकस्त्रस्यन् परः पृष्ठे, व्रजन्नवमताङ्कुशः ॥ ३२० ॥ जानन्निवारिभग्नस्य, हृदयं निजसादिनः । करी प्रतिकरीन्द्रेणोपद्रुतः कोऽपि विद्रुतः ॥३२१ ॥ इतो व्यालोलकल्पान्तकालकल्पं सुयोधनः । भीमं द्विषद्वधाविष्टमभ्यधाविष्ट दुष्टधीः ॥ ३२२ ॥ द्यूतच्छलं स्मरन् भीमस्तथा तं गदयाऽपिषत् । यथाऽऽशु पवनेनैव, कीर्णा देहाणवोऽप्यगुः ॥ ३२३ ॥ ततो हिरण्यनाभस्य, शरणं तद्वलं ययौ । परिवरनाधृष्टिं, तेऽपि यादव-पाण्डवाः ॥ ३२४ ॥ हिरण्यनाभसेनानीः, सेनानीरजनीरविः । करैरिव शरैः शोषं, निन्येऽनाधृष्टिवाहिनीम् ॥ ३२५ ॥ अथाऽऽलोक्य तमायान्तमतुलं मातुलं निजम् । जयसेनो जयाकाली, शिवासूनुः समुत्थितः ॥ ३२६॥ १ दुत्कृय खेता० ॥ २ 'यनिधिस्व खता० ॥३ समरसा खंता० सं० ॥ ४ 'रणे त खता० सं० ॥

Loading...

Page Navigation
1 ... 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284