________________
सर्गः]
.
१६७
धर्माभ्युदयमहाकाव्यम् । मुक्तमार्गणसार्थेन, पार्थेन विरथीकृतः । दुर्योधनः समुत्पत्य, प्रपेदे शकुने रथम् ॥२९९ ॥ बभन्न भूभुजो धीरंमन्यानन्यानपि क्रुधा । पार्थः शरभरैः पद्मान् , धारासारैरिवाम्बुदः ॥ ३०० ॥
शक्त्याऽवधीद् द्विषां शल्यं, शल्यं युधि युधिष्ठिरः। ,
अमोघेनाऽऽशु वजेण, वज्रपाणिरिवाचलम् । हत्त्वा दुःशासनस्याऽऽशु, गवयाऽथ व्यदारयत् । उरो दुरोदरच्छद्मजयक्रुद्धो वृकोदरः ॥ ३०२ ।। सहदेवकरोत्थेन, श्येनेनेव पतत्रिणा । स्यादुड्डीयमानेन, चिच्छिदे शकुनेः शिरः ॥ ३०३ ॥ दीप्तं कौरवसेनाया, जीवितव्यमिवेषुभिः । अस्तं निनाय गाण्डीवधन्त्रा युधि जयद्रथम् ॥ ३०४ ॥ ज्वालाजालैरिव व्योम, व्याप्नुवन् विशिखैरथ । निर्दग्धुमर्जुनं दाववर्णः कर्णः समुत्थितः ॥ ३०५ ॥ यशोमुक्ताञ्चितं कर्णताडङ्कमिव जीवितम् । हरन् पार्थोऽकृताश्रीकं, कौरवध्वजिनीमुखम् ॥ ३०६ ॥ मृगेन्द्र इव कर्णेऽस्मिन् , निहतेऽथ मृगा इव । मेनिरे हतमात्मानमहता अपि कौरवाः ॥ ३०७ ॥ हते कर्णेऽर्जुनस्याऽऽसीजितमेवेति निश्चयः । भीमश्वासमरुत्तूले, जीवत्यपि सुयोधने ॥ ३०८ ॥ गजेन्द्रसेनासीमन्तो, भीमं तोयधिनिस्वनम् । क्रुद्धो दुर्योधनो राजा, सिंहं मृग इवाक्षिपत् ॥ ३०९ ।।
भीमोऽथ शुण्डया धृत्वा, महेभान् समराद् बहिः।। दूरं चिक्षेप शेवालजालानीव सरोवरात्
॥३१०॥ कल्लोलानिव कुम्भीन्द्रान् , दोामुभयतः क्षिपन् । तदा तरीतुमारेभे, भीमः सङ्गरसागरम् ॥ ३११ ॥ दायाद एव भीमस्य, युद्धभागेऽप्यढौकत । सज्जीकृतद्विपकुलो, नकुलोऽथ प्रतिद्विषः ॥ ३१२ ॥ ततः पाण्डव-कौरव्यबलयोः प्रबलस्वनाः । अमिलनाशु कीनाशकिङ्करा इव कुञ्जराः ॥३१३ ॥ कौचिद् द्विपौ दृढाघातभ्रष्टदन्तौ रणे मिथः । अस्पृश्येतां कराण, मन्दमने द्विपीधिया ॥ ३१४ ॥ कोऽपि प्रतिद्विपं दन्ती, स्वदन्तप्रोतविग्रहम् । ऊर्द्धमुत्पाटयामास, कृतान्तायार्पयन्निव ॥ ३१५ ॥ युद्धेन चलितं योद्धुमक्षमं दन्तमात्मनः । द्विपोऽन्यः शुण्डयोन्मूल्य, तेनामैत्सीत् प्रतिद्विपम् ॥ ३१६ ॥ •
पराङ्मुखौ मिथो भङ्गादभूतां सम्मुखौ पुनः ।। स्वेभैः परभ्रमात् कौचित् , ताडितौ चलितौ गजौ
॥ ३१७ ॥ उद्धृत्य शुण्डया कोऽपि, प्रतिदन्तिरदं रणे । रुषाऽक्षिपन्मुखे मूर्ता, रिपुकीर्तिमिव द्विपः ॥ ३१८॥ उत्क्षिप्तः शुण्डया दूर, केनापि करिणा करी । ततो भूभङ्गमीत्येव, दन्तदण्डे धृतः पतन् ॥ ३१९ ॥ लज्जयामासतुः स्वं स्वं, योघं कौचन सिन्धुरौ । एकस्त्रस्यन् परः पृष्ठे, व्रजन्नवमताङ्कुशः ॥ ३२० ॥ जानन्निवारिभग्नस्य, हृदयं निजसादिनः । करी प्रतिकरीन्द्रेणोपद्रुतः कोऽपि विद्रुतः ॥३२१ ॥ इतो व्यालोलकल्पान्तकालकल्पं सुयोधनः । भीमं द्विषद्वधाविष्टमभ्यधाविष्ट दुष्टधीः ॥ ३२२ ॥ द्यूतच्छलं स्मरन् भीमस्तथा तं गदयाऽपिषत् । यथाऽऽशु पवनेनैव, कीर्णा देहाणवोऽप्यगुः ॥ ३२३ ॥ ततो हिरण्यनाभस्य, शरणं तद्वलं ययौ । परिवरनाधृष्टिं, तेऽपि यादव-पाण्डवाः ॥ ३२४ ॥ हिरण्यनाभसेनानीः, सेनानीरजनीरविः । करैरिव शरैः शोषं, निन्येऽनाधृष्टिवाहिनीम् ॥ ३२५ ॥
अथाऽऽलोक्य तमायान्तमतुलं मातुलं निजम् । जयसेनो जयाकाली, शिवासूनुः समुत्थितः
॥ ३२६॥ १ दुत्कृय खेता० ॥ २ 'यनिधिस्व खता० ॥३ समरसा खंता० सं० ॥ ४ 'रणे त खता० सं० ॥