________________
१६६
सङ्घपतिचरितापरनामकं
सैन्यद्वयेऽपि नासीरवीरा युयुधिरे ततः । । गर्जन्तोऽस्त्राणि वर्षन्तो, युगान्तघनवद् धनम् गजेन्द्रगर्जिभिस्तूर्यरसितैर्हयहेषितैः । रथघोषैर्भटारावैः, शब्दाद्वैतं जगत्यभूत् जरासन्धभटैर्भग्नानिव वीक्ष्य भटानथ । ऊर्डीकृत्य भुजादण्डं, धीरयामास केशवः उत्तस्थिरे महानेमि- पार्था- ऽनाधृष्टयस्त्रयः । तार्क्ष्यपक्षद्वयीचञ्चरूपा भूपावलीवृताः दध्मुर्निजं निजं शङ्ख, तथामी दुर्धरास्त्रयः । यथा चेतश्चमत्कारं, श्रीनेमेरपि चक्रिरे युद्ध्यमानैः ‘स्फुरन्मानैरथ तै रथिभिस्त्रिभिः । चक्रव्यूहो रयादेव, त्रिषु स्थानेष्वभज्यत मां वीरत्रयीं व्यूहे, विशन्तीमन्वगुर्नृपाः । दृढीभूताः पटे गाढे, सूचिकामिव तन्तवः तान् प्रत्युत्थितान् दुर्योधन - रौधिरि-रुक्मिणः । एतैरथ मिथः षड्भिर्द्वन्द्वयुद्धमुरीकृतम् ॥ अथ तगृह्यवीराणां, कुप्यत्कीनाशतेजसाम् । मिथो विश्वत्रयत्रासचणः प्रववृधे रणः केऽपि भीताः परे क्रुद्धा, न तु कोपोऽप्यजायत । केषाञ्चित् खेळतां शत्रुशिरोभिः कन्दुकैरिव
#:
[ त्रयोदशः
॥ २६९ ॥
॥ २७० ॥
॥ २७९ ॥
॥ २७२ ॥
श्यामप्रभो बभौ धन्वी, वर्षन् धारा इवाम्बुदः अथाऽवलोक्य संहारमूर्तिमर्जुनमातुरः । संभूय भूरिभूपालैर्गर्जन् दुर्योधनोऽरुषत्
11.203 11,
॥ २७४ ॥
॥ २७५ ॥
२७६ ॥',
1120611
२७९ ॥
२८० ॥
२८९ ॥
॥ २८४ ॥
मौलौ कोऽप्यसिकृत्तेऽपि, दन्तदष्टाधरः क्रुधा । रिपुं जघान हस्तेन, समालम्ब्य गलं बलात् ॥ कोऽपि प्रसन्नगम्भीरो, वीरो निर्दारयन्नरीन् । दर्शयामास नेत्रौष्ठ - मानेऽपि न विक्रियाम् ॥ शिरो वैरिशरोत्क्षितं, कस्याप्यालोलवेणिकम् । सखङ्गराहुसंभ्रान्त्या, दिवि देवानभापयत् ॥ नृत्ते सदृष्टिभ्रूभङ्ग, शत्रौ कृत्तशिरस्यपि । हन्तुर्लोहमयेनापि, शिरः खङ्गेन कम्पितम् ॥ २८२ ॥ जिघांसुमिभमायान्तं, गृहीत्वा कोऽपि शुण्डया | भ्रमयन्नम्बरे भ्रष्टशस्त्रो योद्धुमशास्त्रयत् ॥ २८३ ॥ क्रमव्यापारिताशेषभ्रष्टशस्त्रो रणेऽपरः । नखैर्दन्तैरपि रिपून्, बिभिदे सिंहविक्रमः दृशैव 'त्रासयन् वीरान्, हुङ्कारेणैव कुञ्जरान् । अभ्युद्यतास्त्र एवान्यः, परसैन्यमलोडयत् ॥ २८५ ॥ ध्वान्ते धूलिकृते खङ्गः, कस्यापि दलयन्नरीन् । केयूररत्नबिम्बेन, धृतदीप इवाबभौ ॥ २८६ ॥ हत्वा चपेटयैवान्यः, पविपातसमानया । अल्लुठदिभान् भूमौ पर्वतानिव वासवः आस्फाल्यान्योन्यमन्योऽरिशिरांसि करलीलया । नालिकेरी फलानीव, बभञ्ज भुजकौतुकी हंकापराच्पुखः पुच्छे, धृतः केनापि कुञ्जरः । प्राणं कुर्वन् गतौ मुक्तो, मुखाप्रेणापतद् भुवि अन्योन्यास्फालनोन्मुक्तस्फुलिङ्गैरसिभिस्तदा ।
॥ २८७ ॥
॥
२८८ ॥
॥ २८९ ॥
11.200 ||
धूमायितं प्रदीप्तानां शिखिनामिव दोष्मताम्
॥ २९० ॥
कचग्रहपरः शत्रुहस्तोंऽसादसिना क्षतः । कस्याप्यपतितो हस्तिशोभां शुण्डानिभो दधौ ॥ २९९ ॥ उद्यन्महा महानेमिर्विरथं रुक्मिणं व्यधात् । तन्महानेमये शक्ति, राजा शत्रुन्तपोऽक्षिपत् ॥ २९२ ॥ श्री नेमिनाथमालोच्य, मातलिर्वज्रसङ्क्रमम् । महानेमिशरे चक्रे, शक्तिस्तेन हताऽपतत् ॥ २९३ ॥ शरैरतत्रसद् दुर्योधनं 'तंत्र'धनञ्जयः । बाणवृष्ट्वाऽप्यनाष्टष्टिर्विधुरं रौधिरं व्यधात् ॥ २९४ ॥ इतोऽपि यदुभिर्वीरैर्वैरिसैन्यं चिलोडितम् । जमिरे भूरिशो भूपा, द्रुमाद्या माद्यदुद्यमाः ॥ २९५ ॥ संहताभ्यामितो रामाङ्गजैर्मत्तगजैरिव । भीमार्जुनाभ्यां कौरव्याः शरज्यीचक्रिरे क्रुधा ॥ २९६ ॥ वेगादलक्षसन्धान-मोक्षः पार्थः शरान् किरन् ।
॥ २९७ ॥
॥ २९८ ॥
।