________________
सर्गः]: .
धर्माभ्युदयमहाकाव्यम्। दिने क्रोष्टुकिनाऽऽदिष्टे, रथी दारुकसारथिः । ततः पूर्वोत्तराशायां, विष्णुर्बलवृतोऽचलत् ॥ २४१ ॥
॥ पञ्चभिः कुलकम् ॥ योजनानि पुरात् पञ्चचत्वारिंशतमीयिवान् । प्रामेऽथ शतपल्याख्ये, स निवासानकारयत् ।। २४२ ॥ चतुर्भिर्योजनैः कृष्णे, स्थितेऽर्वाग मगधेशितुः । एत्य विद्याधराः केऽपि, समुद्रनृपमभ्यधुः।। २४३ ॥ त्वद्रातुर्वसुदेवस्य, गुणगृह्या वयं नृप! । तदागमाम वैताढ्यादाख्यातुं भवतां हितम् ॥ २४४ ॥ अन्येभ्यः किमु साहाय्यं, भवतां भुजशालिनाम् । तथापि सुजनस्नेहसम्मोहादिदमुच्यते ॥ २१५॥
जरासन्धस्य मित्राणि, वैतात्ये सन्ति खेचराः । असमायान्त एवामी, योग्याः साधयितुं द्विषः
॥ २४६॥ प्रद्युम्न-साम्बसहितं, वसुदेवं तदादिश । वयं यथा विगृह्णीमो, रिपुमित्राणि खेचरान् ॥ २४७ ॥ ओमिति क्ष्मामृताऽऽदिष्टे, वसुदेवे चलत्यथ । प्रददौ भगवान्नेमिरौषधीमस्त्रवारणीम् ॥२४८ ॥ अथाऽऽदिश्य जरासन्धो, हंस-डिम्भकमन्त्रिणौ । अमेधं रिपुचक्रेण, चक्रव्यूहमकारयत् ॥ २४९ ॥ चक्रस्यास्या सहसारीसहस्र भूमुजोऽभवन् । भूरिस्यन्दन-हस्त्य-ऽश्व-पदातिपरिवारिताः ॥२५० ॥ षट्सहस्रमहीपानां, दधिरे प्रधिरूपताम् । भूपपञ्चसहस्रीवान् , स्थितोऽन्तर्मगधाधिपः ॥ २५१ ।। पृष्ठे सैन्धव-गन्धारसेनाऽभून्मगधप्रभोः । धार्तराष्ट्राः शतं युद्धदक्षा दक्षिणतोऽभवन् ॥ २५२ ।। सन्धौ सन्धौ च पञ्चाशच्छकटव्यूहसङ्कटे । न्यूहेऽस्मिन् दधिरे गुल्मा, भूपानामन्तराऽन्तरा, ॥ २५३ ।। चक्रव्यूहस्य च बहिर्बहुधा व्यूहधारिणः । स्थाने स्थाने नृपास्तस्थुमहीयांसो महाभुजाः ॥ २५४ ॥ हिरण्यनाभं भूपालं, भूभुजां दण्डनायकम् । कृतं वीक्ष्य भयेनेव, सूरोऽप्यस्तमितस्तदा ॥२५५ ॥ दोषायामथ दुर्घर्षा, यदवोऽपि दवोर्जिताः । चक्रिरे गरुडव्यूह, चक्रव्यूहजयेच्छया ॥२५६ ॥
अर्धकोटिः कुमाराणां, न्यूहस्यास्य मुखे स्थिताः। शीरि-शार्ङ्गधरौ युद्धदुर्धरौ मूर्धनि स्थितौ
॥ २५७।। वसुदेवभुवोऽक्रूरमुख्या द्वादश दुर्धराः । रथलक्षयुता विष्णोरभूवन् पृष्ठरक्षकाः ॥२५८ ॥ पृष्ठे तेषामभूदग्रसेनः कोटिमितै रथैः । तत्पृष्ठरक्षकास्तस्य, चत्वारः सूनवोऽभवन् ॥२५९ ॥ व्यूहस्य दक्षिणे पक्षे, समुद्रविजयः स्वयम् । तस्थौ परिवृतो वीरैति-प्रातृव्य-सूनुभिः ॥२६० ।। चश्चन्तः पञ्चविंशत्या, रथलक्षैरथाऽपरे । समुद्रविजयं भूपाः, परिवृत्याऽवतस्थिरे ॥२६१ ॥ वामपक्षे तथोद्दामधामानो रामनन्दनाः । युधिष्ठिरादयः पाण्डुसूनवश्वावतस्थिरे ॥२६२ ॥ कृतास्त्रताण्डवास्तस्थुः, पाण्डवानां तु पृष्ठतः।मास्वन्तो भूरयो भूपा, धार्तराष्ट्रवधेच्छया ॥ २६३ ॥ यमदण्डोमदोर्दण्डा, अर्ककर्कशतेजसः । अभूवन् भूरयो भूपाः, परितो व्यूहरक्षिणः ॥२६४ ॥ इत्येष गरुडव्यूह, विदधे गरुडध्वजः । यं वीक्ष्य विलयं प्राप, दर्पसपों विरोधिनाम् ॥२६५ ॥ अथ प्रेषितमिन्द्रेण, जैत्रशस्त्रचयान्वितम् । युयुत्सु मिरारूढो, रथं मातलिसारथिम् ॥२६६ ॥ समुद्रविजयेनाथ, चमूनाथपदे स्वयम् । कृष्णाग्रभूरनाधृष्टिरभिषिक्तो महाभुजः ॥२६७ ॥ स्कन्धावारे हरेरासीदथो जयजयारवः । विपक्षक्षितिपक्षोभकारी ब्रह्माण्डमाण्डभित् ॥२६८ ॥
१°धरः कोऽपि, समुद्रनृपमभ्यधात् खता० ॥ २ "हादयमुद्यमः ॥ खता० ॥ ३ जयादयः । खता०॥ ४ °क्ष्य प्रलयं याति, दर्प खता० ॥ ५ याञ्चितम् खंता०॥ ६ प्रथिः संता० ॥