Book Title: Dharmabhyudaya Mahakavya
Author(s): Chaturvijay, Punyavijay
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 238
________________ सर्गः]: . धर्माभ्युदयमहाकाव्यम्। दिने क्रोष्टुकिनाऽऽदिष्टे, रथी दारुकसारथिः । ततः पूर्वोत्तराशायां, विष्णुर्बलवृतोऽचलत् ॥ २४१ ॥ ॥ पञ्चभिः कुलकम् ॥ योजनानि पुरात् पञ्चचत्वारिंशतमीयिवान् । प्रामेऽथ शतपल्याख्ये, स निवासानकारयत् ।। २४२ ॥ चतुर्भिर्योजनैः कृष्णे, स्थितेऽर्वाग मगधेशितुः । एत्य विद्याधराः केऽपि, समुद्रनृपमभ्यधुः।। २४३ ॥ त्वद्रातुर्वसुदेवस्य, गुणगृह्या वयं नृप! । तदागमाम वैताढ्यादाख्यातुं भवतां हितम् ॥ २४४ ॥ अन्येभ्यः किमु साहाय्यं, भवतां भुजशालिनाम् । तथापि सुजनस्नेहसम्मोहादिदमुच्यते ॥ २१५॥ जरासन्धस्य मित्राणि, वैतात्ये सन्ति खेचराः । असमायान्त एवामी, योग्याः साधयितुं द्विषः ॥ २४६॥ प्रद्युम्न-साम्बसहितं, वसुदेवं तदादिश । वयं यथा विगृह्णीमो, रिपुमित्राणि खेचरान् ॥ २४७ ॥ ओमिति क्ष्मामृताऽऽदिष्टे, वसुदेवे चलत्यथ । प्रददौ भगवान्नेमिरौषधीमस्त्रवारणीम् ॥२४८ ॥ अथाऽऽदिश्य जरासन्धो, हंस-डिम्भकमन्त्रिणौ । अमेधं रिपुचक्रेण, चक्रव्यूहमकारयत् ॥ २४९ ॥ चक्रस्यास्या सहसारीसहस्र भूमुजोऽभवन् । भूरिस्यन्दन-हस्त्य-ऽश्व-पदातिपरिवारिताः ॥२५० ॥ षट्सहस्रमहीपानां, दधिरे प्रधिरूपताम् । भूपपञ्चसहस्रीवान् , स्थितोऽन्तर्मगधाधिपः ॥ २५१ ।। पृष्ठे सैन्धव-गन्धारसेनाऽभून्मगधप्रभोः । धार्तराष्ट्राः शतं युद्धदक्षा दक्षिणतोऽभवन् ॥ २५२ ।। सन्धौ सन्धौ च पञ्चाशच्छकटव्यूहसङ्कटे । न्यूहेऽस्मिन् दधिरे गुल्मा, भूपानामन्तराऽन्तरा, ॥ २५३ ।। चक्रव्यूहस्य च बहिर्बहुधा व्यूहधारिणः । स्थाने स्थाने नृपास्तस्थुमहीयांसो महाभुजाः ॥ २५४ ॥ हिरण्यनाभं भूपालं, भूभुजां दण्डनायकम् । कृतं वीक्ष्य भयेनेव, सूरोऽप्यस्तमितस्तदा ॥२५५ ॥ दोषायामथ दुर्घर्षा, यदवोऽपि दवोर्जिताः । चक्रिरे गरुडव्यूह, चक्रव्यूहजयेच्छया ॥२५६ ॥ अर्धकोटिः कुमाराणां, न्यूहस्यास्य मुखे स्थिताः। शीरि-शार्ङ्गधरौ युद्धदुर्धरौ मूर्धनि स्थितौ ॥ २५७।। वसुदेवभुवोऽक्रूरमुख्या द्वादश दुर्धराः । रथलक्षयुता विष्णोरभूवन् पृष्ठरक्षकाः ॥२५८ ॥ पृष्ठे तेषामभूदग्रसेनः कोटिमितै रथैः । तत्पृष्ठरक्षकास्तस्य, चत्वारः सूनवोऽभवन् ॥२५९ ॥ व्यूहस्य दक्षिणे पक्षे, समुद्रविजयः स्वयम् । तस्थौ परिवृतो वीरैति-प्रातृव्य-सूनुभिः ॥२६० ।। चश्चन्तः पञ्चविंशत्या, रथलक्षैरथाऽपरे । समुद्रविजयं भूपाः, परिवृत्याऽवतस्थिरे ॥२६१ ॥ वामपक्षे तथोद्दामधामानो रामनन्दनाः । युधिष्ठिरादयः पाण्डुसूनवश्वावतस्थिरे ॥२६२ ॥ कृतास्त्रताण्डवास्तस्थुः, पाण्डवानां तु पृष्ठतः।मास्वन्तो भूरयो भूपा, धार्तराष्ट्रवधेच्छया ॥ २६३ ॥ यमदण्डोमदोर्दण्डा, अर्ककर्कशतेजसः । अभूवन् भूरयो भूपाः, परितो व्यूहरक्षिणः ॥२६४ ॥ इत्येष गरुडव्यूह, विदधे गरुडध्वजः । यं वीक्ष्य विलयं प्राप, दर्पसपों विरोधिनाम् ॥२६५ ॥ अथ प्रेषितमिन्द्रेण, जैत्रशस्त्रचयान्वितम् । युयुत्सु मिरारूढो, रथं मातलिसारथिम् ॥२६६ ॥ समुद्रविजयेनाथ, चमूनाथपदे स्वयम् । कृष्णाग्रभूरनाधृष्टिरभिषिक्तो महाभुजः ॥२६७ ॥ स्कन्धावारे हरेरासीदथो जयजयारवः । विपक्षक्षितिपक्षोभकारी ब्रह्माण्डमाण्डभित् ॥२६८ ॥ १°धरः कोऽपि, समुद्रनृपमभ्यधात् खता० ॥ २ "हादयमुद्यमः ॥ खता० ॥ ३ जयादयः । खता०॥ ४ °क्ष्य प्रलयं याति, दर्प खता० ॥ ५ याञ्चितम् खंता०॥ ६ प्रथिः संता० ॥

Loading...

Page Navigation
1 ... 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284