Book Title: Dharmabhyudaya Mahakavya
Author(s): Chaturvijay, Punyavijay
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 241
________________ १६८ सङ्घपतिचरितापरनामकं . 1. ''॥ ३२७॥ ॥ ३२८ ॥ ॥ ३२९ ॥ ! हिरण्यनाभोऽप्येतस्य स्यन्दनध्वजमच्छिदत् । 'जयसेनोऽलुनात् तस्य, 'ध्वज वर्मा-श्व-सारथीन् क्रुद्धोऽथ दशभिर्बाणैर्जयसेनं जघान सः । मर्माविद्भिरिभं मत्तं, करजैरिव' केसरी अथ धावनं महीसेनो, जयसेन सहोदरः । खंड- धर्मधरो दूरात्, क्षुरप्रेणामुना हतः अनाधृष्टिरथोत्तस्थे, बन्धुद्वयवधक्रुधा । ऊष्मलो दोष्मतां सीमा, सह भीमा-ऽर्जुनादिभिः ॥ ३३०॥ हिरण्यनाभं सक्रोधमनाधृष्टिरयोधयत् । परस्परमढौकन्त, परेऽप्यथ महारथाः आमूलं वैरिनाराचकीलनेन 'स्थिरीकृते । धनुर्युजि भुजि कोऽपि, ननन्द प्रहरन् रथी' सूते हतेऽपि पादाघृतप्राजनरश्मिकः । हयानवाहयत् कोऽपि, युयुधे च द्विषा रथी रथिकः कोऽपि बाणेन, पाणौ वामे कृतक्षते । ध्वजदण्डे धनुर्बद्धा, शरान् साक्षेपमक्षिपत् कस्यापि ' रथिनो बाणा, मेद्यं प्राणाधिका ययुः । अन्तः कृत्ता अपि द्वेषविशिखैर्भुजगा इव ॥ हन्तुमुच्छलितच्छिन्नमौलिरर्धपथे रथी । कोऽपि प्रतिरथं गत्वा, रिपोर्मुण्डमखण्डयत् ॥ ३३१ ॥ ॥ ३३२ ॥ ॥ ३३३ ॥ ॥ ३३४ ॥ ३३५ ॥ ॥ ३३६ ॥ ॥ ३३७ ॥ ॥ ३३८ ॥ ॥ ३४० ॥ $11.38211 '॥ ३४३ ॥ · · समरे विरथो व्यस्त्रश्चक्रवर्तीय कोऽप्यभात् । भग्नस्यात्मरथस्यैव, चक्रमादाय शस्त्रयन् छिन्नेषु कौतुकाद् योक्त्ररश्मिषु द्विषता शरैः । कस्यापि धनुराकृष्टिस्थाम्नाऽभूदुन्मुखो रथः इतः सात्यकिना कृष्णजयार्णवहिमांशुना । जिग्ये भूरिश्रवा भूपो, योक्त्रबद्धगलग्रहात् ॥ ३३९ ॥ star क्रोध, कृतरोधौ परस्परम् । अयुध्येतामनाधृष्टि-हिरण्यपृतनापती अथोद्धृतासि-फलकौ, बलकौतुककारिणौ । उत्सृज्य रथमन्योन्यं, क्रोधाद् वीरावधावताम् ॥ ३४१ ॥ अनाधृष्टिकृपाणेन, सर्पेणेवाथ सर्पता । हिरण्यस्य समं प्राणानिलैः कीर्तिपयः पपे अत्रान्तरे रणोद्धृतधूलीभिरिव धूसरः । अपराब्धौ गतः स्नातुमहामहाय नायकः अर्थाऽऽत्मस्थानमायातौ, सायं व्यूहावुभावपि । कल्प्रान्तविरतौ पूर्व - पश्चिमाम्भोनिधी इवं ॥ ३४४॥ म्यूहयोरनयोर्वीरव्यूहोऽथ रणकौतुकी । चतुर्युगीमिव श्यामाचतुर्यामीममन्यत अथ तद्युद्धकीलालनदीरक्तादिवाम्बुधेः । उदियाय रविः कुप्यत्कान्तादृक्कोणशोणरुक् अथ निजं निजं व्यूहं विरचय्य रणोत्सुकाः । अगर्निषुर्जरासन्ध - जनार्दनचमूचराः " जरासन्धाभिषिक्तोऽथ, शिशुपालश्चमूपतिः । पुरस्कृत्याश्वसैन्यानि प्रचचाल प्रति द्विषम् अनाधृष्टिरथो वाहवाहिनीं स्थिरयन् पुरः । अचस्खलत् खलममुं, सिन्धुपूरमिवाचलः उत्पाट्योत्पाट्य निस्त्रिंश-गदा- पट्टिश- मुद्गरान् । ततो युयुधिरे धीरास्तुरङ्गाश्च जिहेषिरे व्यालोलंत्पादकटकबद्धवधग्रहोत्थितम् । भ्रष्टं कोऽपि समित्यश्ववारमारोहयद्धयः छिन्नाग्रपादतुण्डोऽपि, कोऽप्यश्वः समरान्तरात् । ॥ ३४५॥ ॥ ३४६ । ॥ ३४७ ॥ ॥ ३४८ ॥ ॥ ३४९॥ ॥ ३५० ॥ ॥ ३५१ ॥ 'ना ३५२॥ ' क्रामन् पाश्चात्यपादाभ्यामाचकर्ष निषादिनम् खुरमित्रोटयन्नत्रावलीं द्विड्ङ्घातनिःसृताम् । कोऽप्यश्वः समरेऽधावत्, स्वसादिमनसा समम् ॥ ३५३ ॥ 'छिन्नमौली द्विषा कौचित्, तुरङ्गम-तुरङ्गिणौ । प्रधावने च घाते च स्पर्धयेव न निर्वृतौ ॥ ३५४ ॥ 'अश्वः कोऽप्युरसाऽऽहत्य, साश्ववारान् पुंरो हरीन् । धावन्नपातयद् युद्धश्रद्धां च निजसादिनः ॥ ३५५ ॥ 4 31 . }: # : १ नोऽच्छिनत् तस्य, खंता० सं० ॥ तो व सं० ॥ ५'वीरा' [सं० ॥ " 2018 3 [ त्रयोदशः : S ' २ निजनिजव्यू' खता० ॥ ३ 'त्य च सै' सं० ॥ ï 5

Loading...

Page Navigation
1 ... 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284