Book Title: Dharmabhyudaya Mahakavya
Author(s): Chaturvijay, Punyavijay
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 210
________________ सर्गः] । धर्माभ्युदयमहाकाव्यम्। १३७ अथ प्रभाते सार्थेशपुरस्कृतमहोत्सवा । अवाप तापसपुरं, वैदर्भी सह सूरिभिः ॥५४२ ।। प्रतिष्ठां शान्तिचैत्यस्य, सम्यक्त्वारोपणं तथा । गुरुभ्यः कारयामास, दमयन्ती ससम्मदा ॥ ५४३ ॥ इति तत्रैव वैदा , सप्त वर्षाण्यगुस्ततः । विरञ्चिवर्षदीर्घाणि, प्राणप्रियवियोगतः ॥ ५४४ ।। अन्यदा कश्चिदागत्य, तां प्रति माह पूरुषः।नला प्रतीक्षमाणोऽस्ति, भवतीं वनवर्त्मनि ।। ५४५ ॥ अहं यास्यामि सार्थो मे, दवीयान् भवति क्रमात् । तमित्युक्त्वा जवाद् यान्तं, भैमी त्वरितमन्वगात् ॥ ५४६॥ क मे स्फुरति भर्तेति, व्याहरन्ती मुहुर्मुहुः। मैमी मार्गादपि भ्रष्टा, प्रयातः सोऽप्यदृश्यताम् ॥ ५४७ ॥ अथ अमन्ती कान्तारे, मृगीव मृगलोचना । अपश्यत् कौणपी काञ्चिदुच्चलद्रसनाञ्चलाम् ॥ ५४८ ॥ साऽप्याह भैमीमाकृष्टा, त्वं मया मायया रयात् । भोक्ष्ये त्वामधुना राहुरसनेन्दुतनूमिव ।। ५४९ ॥ इति तां विकृतां वीक्ष्य, भैमी स्वं धर्ममस्मरत् । तत्प्रभावादियं त्रस्ता, तमिस्रव दिवाकरात् ।। ५५० ।। अथैषा तृषिता देवी, श्रमन्ती निर्जले वने । व्याकुलाऽजनि निष्पुष्पे, भ्रमरीव वनस्पतौ ॥ ५५१ ॥ तदाऽऽह मम सान्निध्य, कुरुध्वं वनदेवताः । यथा वनमृगीवाऽहं, दाहं नहि सहे तृषः ॥ ५५२ ।। इन्द्रजालिकमन्त्रोक्तिस्पर्धिन्या तद्विरा ततः । दुकूलं तद्भुवः कूलङ्कषाऽऽविरभवत् पुरः ॥५५३ ॥ प्राप्तैरथ जलैर्मक, म्लानाऽप्यौज्ज्वल्यमाययौ । क्षणात् क्षयं ब्रजिष्यन्ती, तैलैर्दीपशिखेव सा ।। ५५४ ॥ कुतोऽपि सार्थतः प्राप्तैरथैषाऽभाषि पुरुषैः। ' काऽसि त्वं ? वनदेवी किं ?, तथ्यमित्याशु कथ्यताम् ॥ ५५५ ॥ साऽपि प्राह वणिक्पुत्री, यान्ती पत्या समं वने। सार्थाद् भ्रष्टाऽस्मि यूयं मां, स्थाने वसति मुञ्चत ॥ ५५६॥ अथ तैः सा समं नीत्वा, श्रेयाश्रीरिव देहिनी । अर्पिता धनदेवाय, सार्थवाहाय भीमभूः ॥ ५५७ ॥ सार्थवाहोऽपि मन्वानस्तनुजामिव तामथ । आरोप्य वाहने देवीं, नीत्वाऽचलपुरेऽमुचत् ॥ ५५८ ।। लीलाकोककुलातकहेतुवक्वेन्दुदीधितिः। मृगाक्षी तृषिता वापी, कामपि प्राविशत् ततः॥ ५५९ ॥ राश्याश्चन्द्रयशोनाम्न्या, ऋतुपर्णमहीभुजः । पुष्पदन्तीकनिष्ठायाश्चेटीमिरियमैक्ष्यत ॥५६० ॥ तचंन्द्रयशंसे'ताभिस्तदा रूपवतीति सा'। निवेदिता द्रुतं गत्वा, द्वितीयेन्दुतनूरिव ॥५६१ ॥ भागिनेयीमजानन्ती, पुष्पदन्तीसुतामिमाम् । आनाय्य निजगादेति, ऋतुपर्णनृपप्रिया ॥ ५६२ ॥ सहोदरेव मत्पुयाश्चन्द्रमत्याः सुलोचनें! । वत्से ! कृतार्थयेदानीमृतुपर्णनृपश्रियम् ॥ ५६३ ।। निवेदय पुनः काऽसि, विकासिगुणगौरवा ? । नहि सामान्यवामाक्ष्या, रूपमीहक्षमीक्ष्यते ॥ ५६४ ॥ तां मातृभगिनीं सुभूरजानानाऽवदत् तदा । यथोक्तं धनदत्तस्य, सार्थवाहस्य पत्तिषु (1) ॥ ५६५ ॥ कदाचिद् भोजनाकावाप्राप्तप्रियदिदृक्षया । सा चन्द्रयशसः सत्रागारैश्वर्यमयाचत ॥५६६ ॥ ओमित्युक्तेऽथ भूपालप्रिययाऽसौ प्रियंवदा । अर्थिनां कल्पवल्लीव, सत्रागाराधिभूरभूत् ॥५६७ ।। देवि! मां रक्ष रक्षेति, वदन्तं बद्धमन्यदा । रक्षकैर्नीयमानं सा, पुरश्चौरं व्यलोकयत् ॥५६८॥ आरक्षकानथाऽपृच्छद्, देवी किममुना हृतम् । आचख्युस्ते ततश्चन्द्रमतीरत्नकरण्डकम् ॥ ५६९ ॥ देवी ततो दिदेशाऽथ, मुञ्चतैनं तपस्विनम् । तद्गिरा मुमुचुनैते, भीता विश्वम्भराभुजः ॥ ५७० ।। १० १८

Loading...

Page Navigation
1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284