________________
सर्गः] । धर्माभ्युदयमहाकाव्यम्।
१३७ अथ प्रभाते सार्थेशपुरस्कृतमहोत्सवा । अवाप तापसपुरं, वैदर्भी सह सूरिभिः ॥५४२ ।। प्रतिष्ठां शान्तिचैत्यस्य, सम्यक्त्वारोपणं तथा । गुरुभ्यः कारयामास, दमयन्ती ससम्मदा ॥ ५४३ ॥ इति तत्रैव वैदा , सप्त वर्षाण्यगुस्ततः । विरञ्चिवर्षदीर्घाणि, प्राणप्रियवियोगतः ॥ ५४४ ।। अन्यदा कश्चिदागत्य, तां प्रति माह पूरुषः।नला प्रतीक्षमाणोऽस्ति, भवतीं वनवर्त्मनि ।। ५४५ ॥
अहं यास्यामि सार्थो मे, दवीयान् भवति क्रमात् । तमित्युक्त्वा जवाद् यान्तं, भैमी त्वरितमन्वगात्
॥ ५४६॥ क मे स्फुरति भर्तेति, व्याहरन्ती मुहुर्मुहुः। मैमी मार्गादपि भ्रष्टा, प्रयातः सोऽप्यदृश्यताम् ॥ ५४७ ॥ अथ अमन्ती कान्तारे, मृगीव मृगलोचना । अपश्यत् कौणपी काञ्चिदुच्चलद्रसनाञ्चलाम् ॥ ५४८ ॥ साऽप्याह भैमीमाकृष्टा, त्वं मया मायया रयात् । भोक्ष्ये त्वामधुना राहुरसनेन्दुतनूमिव ।। ५४९ ॥ इति तां विकृतां वीक्ष्य, भैमी स्वं धर्ममस्मरत् । तत्प्रभावादियं त्रस्ता, तमिस्रव दिवाकरात् ।। ५५० ।। अथैषा तृषिता देवी, श्रमन्ती निर्जले वने । व्याकुलाऽजनि निष्पुष्पे, भ्रमरीव वनस्पतौ ॥ ५५१ ॥ तदाऽऽह मम सान्निध्य, कुरुध्वं वनदेवताः । यथा वनमृगीवाऽहं, दाहं नहि सहे तृषः ॥ ५५२ ।। इन्द्रजालिकमन्त्रोक्तिस्पर्धिन्या तद्विरा ततः । दुकूलं तद्भुवः कूलङ्कषाऽऽविरभवत् पुरः ॥५५३ ॥ प्राप्तैरथ जलैर्मक, म्लानाऽप्यौज्ज्वल्यमाययौ । क्षणात् क्षयं ब्रजिष्यन्ती, तैलैर्दीपशिखेव सा ।। ५५४ ॥
कुतोऽपि सार्थतः प्राप्तैरथैषाऽभाषि पुरुषैः। ' काऽसि त्वं ? वनदेवी किं ?, तथ्यमित्याशु कथ्यताम् ॥ ५५५ ॥ साऽपि प्राह वणिक्पुत्री, यान्ती पत्या समं वने। सार्थाद् भ्रष्टाऽस्मि यूयं मां, स्थाने वसति मुञ्चत
॥ ५५६॥ अथ तैः सा समं नीत्वा, श्रेयाश्रीरिव देहिनी । अर्पिता धनदेवाय, सार्थवाहाय भीमभूः ॥ ५५७ ॥ सार्थवाहोऽपि मन्वानस्तनुजामिव तामथ । आरोप्य वाहने देवीं, नीत्वाऽचलपुरेऽमुचत् ॥ ५५८ ।।
लीलाकोककुलातकहेतुवक्वेन्दुदीधितिः। मृगाक्षी तृषिता वापी, कामपि प्राविशत् ततः॥ ५५९ ॥ राश्याश्चन्द्रयशोनाम्न्या, ऋतुपर्णमहीभुजः । पुष्पदन्तीकनिष्ठायाश्चेटीमिरियमैक्ष्यत ॥५६० ॥ तचंन्द्रयशंसे'ताभिस्तदा रूपवतीति सा'। निवेदिता द्रुतं गत्वा, द्वितीयेन्दुतनूरिव ॥५६१ ॥ भागिनेयीमजानन्ती, पुष्पदन्तीसुतामिमाम् । आनाय्य निजगादेति, ऋतुपर्णनृपप्रिया ॥ ५६२ ॥ सहोदरेव मत्पुयाश्चन्द्रमत्याः सुलोचनें! । वत्से ! कृतार्थयेदानीमृतुपर्णनृपश्रियम् ॥ ५६३ ।। निवेदय पुनः काऽसि, विकासिगुणगौरवा ? । नहि सामान्यवामाक्ष्या, रूपमीहक्षमीक्ष्यते ॥ ५६४ ॥ तां मातृभगिनीं सुभूरजानानाऽवदत् तदा । यथोक्तं धनदत्तस्य, सार्थवाहस्य पत्तिषु (1) ॥ ५६५ ॥ कदाचिद् भोजनाकावाप्राप्तप्रियदिदृक्षया । सा चन्द्रयशसः सत्रागारैश्वर्यमयाचत ॥५६६ ॥ ओमित्युक्तेऽथ भूपालप्रिययाऽसौ प्रियंवदा । अर्थिनां कल्पवल्लीव, सत्रागाराधिभूरभूत् ॥५६७ ।। देवि! मां रक्ष रक्षेति, वदन्तं बद्धमन्यदा । रक्षकैर्नीयमानं सा, पुरश्चौरं व्यलोकयत् ॥५६८॥ आरक्षकानथाऽपृच्छद्, देवी किममुना हृतम् । आचख्युस्ते ततश्चन्द्रमतीरत्नकरण्डकम् ॥ ५६९ ॥ देवी ततो दिदेशाऽथ, मुञ्चतैनं तपस्विनम् । तद्गिरा मुमुचुनैते, भीता विश्वम्भराभुजः ॥ ५७० ।।
१० १८