________________
, १३८
सङ्घपतिचरितापरनामक ' [एकादशः . आच्छोटयदमुं देवी, तदम्भश्चुलुकैस्त्रिभिः । बन्धास्तैरत्रुटन नागपाशास्तार्श्वनखैरिव । ॥ ५७१॥" अथातिमुमुदे लोकैरालोक्येदं कुतूहलम् । आश्चर्यमृतुपर्णोऽपि, तदाकर्ण्य तदाऽऽययौ ॥ ५७२ ॥
.:. . प्रीतोऽपि प्राह भूपस्तां, किं चौरः पुत्रि ! मोच्यते । . ..!" " , व्यवस्था पृथिवीशाना, कथमित्थं विजृम्भते ? । . . . ॥ ५७३ ॥ अथाऽऽह नलभूपालवल्लभा भूमिवल्लभम् । आर्हत्या न मया दृष्टश्चौरोऽपि म्रियते पितः। ॥ ५७४ ।। अथाऽऽप्रहेण वैदाः , सुताया इव भूपतिः । अमूमुचदमुं चौरं, प्रीतिप्रोत्फुल्ललोचनम् ॥ ५७५ ॥
देवीं प्रीतः:प्रणम्याथ, स जगाद मलिम्लुचः । देवि! त्वमद्वितीयाऽपि, द्वितीया जननी मम ।। ५७६ ॥ .. । अथायमन्वहं देव्याः, कुलदेव्या इव क्रमौ । प्रातः प्रातः समागत्य, प्रणिपत्य प्रमोदते ॥५७७ ।।
चौरः पृष्ठोऽन्यदा देव्याः, समीचीनं न्यवेदयत्। अस्मि दासो वसन्तस्य, श्रीतापसपुरप्रभोः ।। ५७८ । । पिङ्गलाख्योऽहमेतस्य, हृत्वा रत्नोत्करं प्रभोः । नश्यन् मार्गे धृतश्चौरैर्न क्षेमः स्वामिवञ्चिनाम् ॥ ५७९ ।। अथास्य नरदेवस्य, सेवकोऽहमिहाऽभवम् । सर्वतोऽप्यतिविश्रम्भादवारितगतागतः ॥५८० ॥ तदा तदाऽऽप्य भूपालपुत्रीरत्नकरण्डकम् । अहारे त्वत्पदप्राप्तिपुण्यप्रेरितया धिया ।। ॥५८१॥ :
निर्गच्छन् यामिकैदृष्ट्वा, सलोत्रः क्ष्माभुजोऽर्पितः । । ... . .. । ज्ञात्वाऽहं भूभुजा चौरो, रक्षकेभ्यः समर्पितः . . ॥ ५८२ ॥ ततो दृष्टिप्रपातेन, त्वदीयेन तदा मम । सर्वाङ्गमत्रुटन् बन्धाश्चौर्याय च मनोरथाः ॥५८३ ॥ . : . अपरं च तदा देवि !, निःसृतायां पुरात् त्वयि ।वसन्तसार्थवाहोऽयं, भोजनादिकमत्यजत् ॥ ५८४ ॥ . सप्तमेऽहनि सम्बोध्य, श्रीयशोभद्रसूरिभिः । कथञ्चिद् भोजयाञ्चक्रे, देवि! त्वदुःखदुर्मनाः ।। ५८५ ॥ . उपादाय वसन्तोऽयमपरेधुरुपायनम् । कुशलः कोशलां गत्वा, प्रणनाम नलानुजम् ॥५८६ ॥ ददौ पृथ्वीपतिः प्रीतस्तस्य तापसपर्तने । चामरालीमरालीभिः, शोभितां राजहंसताम् ॥५८७ ॥ । अथ हृष्टः प्रविष्टः स्वां, वसन्तनृपतिः पुरीम् । मौक्तिकस्वस्तिकव्याजराजत्प्ररवेदबिन्दुकाम् ॥ ५८८ ॥ '.
___ सोऽपि देवि! प्रभावस्ते, सोऽभूद् यद् भूपतिर्वणिक् । . हन्ति गर्भगृहध्वान्तं, दर्पणोऽर्ककरार्पणात्
॥५८९ ॥ तद्भूपतिपदप्रीता, तं देवी निजगाद तत् । यदि ते हृदि कोऽप्यस्ति, विवेको मार्गदीपकः ॥ ५९० ॥
., उत्सहिष्णुस्तदाऽऽदत्स्व, वत्स! पापच्छिदे व्रतम् । ' ' तदादेशाद् व्रतीभूय, सोऽप्यगाद् गुरुभिः सह ॥ ५९१ । युग्मम् ॥
''प्रान्दृष्टः कुण्डिनादेत्य, हरिमित्रोऽन्यदा द्विजः । । . . . . वीक्ष्य क्षोणीपति क्षिप्रमगाञ्चन्द्रयशोऽन्तिकम् ' ' ॥५९२ ।। देवी तंवीक्ष्य पप्रच्छ, कुशला-ऽकुशलादिकम् । कथामकथयत् सोऽपि, वैदर्भीत्यागतः पराम् ॥ ५९३ ॥ नलस्य दमयन्त्याश्च, वार्तामार्तान्तराशयः । ज्ञातुं श्रीभीमभूमीशो, भूमीभागे न्ययुक्त माम् ॥ ५९४ ॥ .. अरण्य-नगर-ग्राम-गिरि-कुञ्जादिकं ततः'। समालोकि मया प्रापि, प्रवृत्तिरपि नैतयोः ॥५९५ ।। तद्वार्ता काऽपि युष्माकमाकस्मिकतयाऽप्यभूत् । तदिदं ज्ञातुमत्रामागतः का गतिः परा ? ॥ ५९६ ॥ .
इत्याकर्ण्य कथां चन्द्रयशसा सहसा ततः । आक्रन्दि मेदिनीखण्डखण्डिताखिलमण्डनम् ॥ ५९७ ।। . '.. १ क्येति कु खता. पाता. ॥ २ नाहरन्त्या मया पाता० ॥ ३ लाक्षोऽह बता० ॥ ...त्तनम् । चा खेता०॥ ५ °ण्डितालिकमण्ड' खता०सं० ॥