________________
सर्गः] . ' धर्माभ्युदयमहाकाव्यम्।
१३९ अन्वरोदि तथा भूपप्रियापरिजनैरपि । नददादिवराहस्य, शोभा लेभे यथा नभः ॥५९८ ।। अयेत्थमाकुले राजकुले क्षुत्कुञ्चितोदरः । हरिमित्रस्ततः सन्त्रागारं प्रति ययौ द्विजः ॥ ५९९ ॥ अकिञ्चन इवालोक्य, भैमी कल्पलतामिव । अजिह्वावर्णनीयानां, स तदाऽभूत् पदं मुदाम् ।। ६०० ।। स प्रीतस्तां प्रणम्याथ, हनूमज्जित्वरत्वरः। सत्रागारेऽस्ति भैमीति, समेत्याऽऽह नृपप्रियाम् ॥ ६०१ ॥ कर्णामृतमिति श्रुत्वा, वाचं प्रीता नृपप्रिया । असिञ्चत् तं ततः स्वर्ण-रत्नाभरणवृष्टिभिः ॥६०२ ॥ कुन कुत्रेति जल्पन्ती, पद्भ्यां परिजनैः सह । सत्रागारं ययौ चन्द्रयशाश्चन्द्रमुखी मुदा ॥ ६०३ ।। देवी ततोऽवदत् पुत्रि, वञ्चिताऽस्मि स्वगोपनात् । यन्मातुरधिका मातृष्वसेति वितथीकृतम् ।। ६०४ ॥ इत्युपालम्भसंरम्भिवाष्पा भूपालवल्लभा । निकेतनमुपेताऽसौ, पुरस्कृत्य नलप्रियाम् ॥६०५ ॥ भूषयित्वा स्वहस्तेन, भैमी साश्रुविलोचना । अभ्यर्णमृतुपर्णस्य, निनाय विनयानताम् ॥ ६०६ ॥ साऽपि चन्द्रयशोवाचा, सम्मायं प्रकटं व्यधात् । भाखन्तमिव भास्वन्तमलिके तिलकाङ्कुरम् ॥ ६०७ ॥ अथ प्रणम्य भूपालं, पितृवद् भीमनन्दनी । उपविष्टा पुरः पृष्टा, स्ववृत्तान्तं न्यवेदयत् ।। ६०८ ॥ स्ववंश्यनलवृत्तान्ते, कथ्यमानेऽथ तादृशे । लज्जमान इवामजन्न्यग्मुखो रविरम्वुधौ ॥६०९ ॥ रवावस्ते समस्तेऽपि,क्ष्मापतिः प्राप विस्मयम् । समान्तर्भान्तमालोकमालोक्य तिमिरापहम् ॥ ६१० ॥ राज्ञी विज्ञपयामास, मनो मत्वा नृपं प्रति । भास्वन्तं शाश्वतं भैमीभाले तिलकमीदृशम् ॥ ६११ ॥ भूपतिस्तत्पितेवास्या, भालं प्यधित पाणिना । तच्छलान्वेषिभिरिव, प्रादुर्भूतं तमोभरैः ॥ ६१२ ॥ करेऽपसारित राज्ञा, तत् तस्यास्तिलकांशुभिः । किशोरकैरिवाग्रासि, घाससङ्घातवत् तमः ॥ ६१३ ॥
क्षणेऽस्मिन् कश्चिदागत्य, भाभासुरनभाः सुरः। नत्वा मध्येसमं भैमी, प्राह बन्धुरकन्धरः ॥ ६१४ ॥ यस्त्वया तस्करो बद्धगलः पिङ्गलसंज्ञकः । मोचयित्वा तदा देवि!, बोधयित्वा व्रतीकृतः ॥ ६१५ ॥ स तापसपुरं प्राप्तो, विहरन् सह सूरिभिः । सशानेऽश्मनरप्रायः, कायोत्सर्ग निशि व्यधात् ॥ ६१६ ॥ चिताभवदवज्वालाजालेन कवलीकृतः । अमुक्तध्यानधैर्योऽयं, सौधर्मत्रिदिवं ययौ ॥६१७ ॥ अहं स हंसगमने!, त्वां नमस्कर्तुमागतः । त्वत्प्रसादप्रभावर्द्धिवर्द्धितेदृशवैभवः ॥६१८ ॥ इत्युक्त्वा सप्त कल्याणकोटीर्वृष्ट्वा ययौ सुरः । वृत्तेनैतेन राजाऽपि, जिनभक्तोऽभवत् तदा ॥ ६१९ ॥ हरिमित्रोऽन्यदाऽवादीद्, भूपं भूपप्रियामपि । प्रेष्यतां दवदन्तीयं, प्रीणातु पितरौ चिरात् ॥ ६२० ॥ समं चमूसमूहेन, चैदर्भीमथ पार्थिवः । प्रैषीचन्द्रयशोदेव्या, कृतानुगमनां स्वयम् ॥६२१ ॥ श्रीचन्द्रयशसं देवीं, प्रणम्याथ नलप्रिया । अल्पैः प्रयाणकैरुर्वीमण्डनं प्राप कुण्डिनम् ॥ ६२२ ।। ईयतुः सम्मुखौ तस्याश्चिराकारणसोत्सुकौ । पितरौ स्मितरोचिभिः, खचिताधरविद्रुमौ ॥ ६२३ ॥ पितरं तरसा वीक्ष्य, रसाद् युग्यं विमुच्य सा । अनमत् क्रमराजीवयुग्मविन्यस्तमस्तका ॥ ६२४ ॥ पक्किलं तं किलोद्देशमस्राम्भःसम्भ्रमो व्यधात् । विनप्रेणाम्बुजेनेव, मुखेन तु स भूपितः ॥ ६२५ ।। अथ राज्ञा सहायातामियं मातरमातुरा । नमश्चकार हर्षाश्रुमुक्तास्तबकितेक्षणाम् ॥ ६२६ ॥ सकलेनापि भूनाथलोकेनाथ नमस्कृता । कुण्डिनं मण्डयामास, सा त्रैलोक्यशिरोमणिः ॥ ६२७ ।। गुरु-देवार्चनै राजा, पुरे सप्तदिनावधि । महोत्सवमहोरात्रमतिमात्रमकारयत् ॥६२८॥ साक्षात् तत्रास्ति धात्रीशनलध्यानधुरन्धरा । कृशा कृशानुकल्पेन, विरहेण विदर्भजा ॥ ६२९ ।।
१ योऽसौ, सौधर्मत्रिदिवं गतः खंता० ॥ २ 'तरौ तर खता० ॥