________________
1.
.
सङ्कपतिचरितापरनामक
[ एकावंशः कथयन्ती कथामित्थं, स्वयं स्वजननी प्रति । मयाऽश्रूयत वैदर्भी, तुभ्यमावेदितं च तत् ॥ ६३० ॥ इदानीं तु भवद्भूतः कोऽपि भूपालमभ्यधात् । यदस्ति दधिपर्णस्य, पार्श्वे कुब्जः कलानिधिः ॥ ६३१ ।। नलस्य सूपकारोऽहमिति वक्ति करोति च । अधीतां नलतः सूर्यपाका रसवतीमसौ ॥६३२ ॥ इत्याकर्ण्य समीपस्था, भैमी भूमीशमभ्ययात् । नान्यो रसवतीवेत्ता, कुजोऽमूनल एव सः ॥ ६३३ ॥ द्रष्टुमेनमहं देव!, तद्वीमेन नियोजितः। धिक् कुब्जेऽस्मिन् नलाशका, कृष्णागारे मणिश्रमः॥ ६३४ ॥ आकर्ण्य दधिपर्णोऽयमिति विस्तरतः कथाम् । श्रुतां कुब्जेन साझेण, यथोक्तरसनाटिना ॥ ६३५॥ । शरीराभरणस्तोमदानेनाऽऽनन्द्य सम्मदी । प्रेषीत् तं ब्राह्मणं राजा, कुब्जस्तु जगृहे गृहे ॥ ६३६ ॥ ..
। ॥ युग्मम् ॥ अभोज्यत स कुब्जेन, रसवस्याऽर्कपाकया । स्वर्णादिकं नृपाल्लब्धं, दत्त्वा च प्रीणितस्ततः ॥ ६३७ ॥ अथायं कुब्जमापृच्छय, गतः कुण्डिनपत्तनम् । तदीयं दान-भोज्यादि, सर्वमुर्वीभुजेऽभ्यधात् ॥ ६३८ ॥ तं निशम्याऽवदद् भैमी, मुदिता मेदिनीपतिम् । नल एव स कुब्जत्वं, ययौ केनापि,हेतुना ।। ६३९ ॥ ', तहान-सा मतिः सूर्यपाका रसवती च सा । सन्ति नान्यत्र कुत्रापि, युष्मजामातरं विना ॥ ६४.० ॥ तामालोच्य ततस्तात !, समुन्मेषय शेमुषीम् । नलो यया स्यादेव, प्रकटीभवति स्वयम् ॥ ६४१ ।। सोत्साहमाह भूपस्तच्चरं सम्प्रेष्य कञ्चन । आकार्यों दधिपर्णोऽयं, त्वत्स्वयंवरणच्छलात्. ॥ ६४२ ॥ गत्वा यथार्थवर्णोऽयं, कथयिष्यति तं प्रति । श्वस्तने यहिने भावी, दमयन्त्या: स्वयंवरः । ६४३ ॥ तत्पाधै यदि कुब्जोऽयं, नलः स्यादवनीधवः । तदश्वहृदयाभिज्ञस्तमानेष्यत्यसौ द्रुतम् ॥ ६४४ ॥ इति निश्चित्य भीमेन, भूभृता प्रेषितश्चरः। सुसमारपुरं गत्वा, दधिपर्णमदोऽवदत् ॥६४५ ॥
न प्रापि. नलवार्ताऽपि, क्वापि तेन. करिष्यति । ६ . . . . . . भूयः स्वयंवरं भैमी, प्रभुणा प्रेषितोऽस्मि तत् ..... ॥ ६४६ ॥ किन्तु.मार्गे,विलम्बोऽभूद्, देहस्यापाटवान्मम । प्रत्यासन्नतरं जातं, तल्लमं श्वस्तने दिने. ॥ ६४७ ॥ तूर्णं. देव ! तदेतव्यमित्युक्त्वाऽस्मिन् गते चरे। अचिन्तयनलश्चित्ते, किमेतदिति विस्मितः ॥ ६४८॥ , वर्षिष्यति विषैरिन्दुर्वदिष्यत्यनृतं मुनिः । किमन्यमपि भर्तारं, दमयन्ती करिष्यति ? ॥ ६४९ ॥ विवोढुं प्रौढिमा कस्य, मत्पनी मयि जीवति । सिंहेऽभ्यर्णगते सिंहीं, मानसेनापि का स्पृशेत् ॥ ६५० ॥ .' इति, ध्यात्वा चिरं चित्ते, दधिपर्ण जगाद सः। आसन्नलान-दूरो/गतिचिन्तापरायणम्.. ॥ ६५१ ॥ समर्पय हयान् जात्यान् , रथं गाढं च कञ्चन । यथाऽहमश्ववेदी, नये झटिति कुण्डिने ॥ ६५२ ।। इंति प्रीतिमताऽऽकर्ण्य, दधिपर्णेन भूभुजा । उक्तोऽग्रहीचतुर्वाही, रथं चाहीनपौरुषम् ॥ ६५३ ।। अथ चामरभूद्युग्म-च्छत्रभृद्भूपभासुरम् । नियुक्तवाजिनं कुञ्जो, रथं, तूर्णमवाहयत् , ॥६५४ ॥ नुन्नरथ रथे वाहैर्जवनैः पवनैरिव । अपत, भूपतेरंसात्, पटी शैलादिवाऽऽपगा,,,," || ६५५ ॥ राजा तदाऽवदत् कुन्ज!, स्थिरीकुरु हयानिमान् । एतदादीयते यावद्, वासो, वसुमतीगतम् ॥ ६५६॥ .. जंगाद कुन्जको राजन्नपतद् यत्र तेंऽशुकम् । पञ्चविंशतियोजन्या, साऽमुच्यत वसुन्धरा ॥ ६५७ ॥ i, न राजन् !.,वाजिनोऽमी ,ते, तादृक्षगुणलक्षिताः। . . . . . . . . H".: । इयत्या वेलया यान्ति, पञ्चाशद् योजनानि ये : ,, ,, ,,६५८ ॥
१ संविनाऽन्यत्र-त्वाऽऽशु- प्री वता० । त्वा तत् प्री खंता० ॥ , २ दवदन्त्याः खंता० ॥ ३ नयै झटिति कुण्डिनम् खता० ॥