________________
सर्गः] धर्माभ्युदयमहाकाव्यम् ।
१४१ ' अक्षवृक्षमथो वीक्ष्य, कला दर्शयितुं निजाम् । कियन्त्यस्मिन् फलानीति, राजा कुब्जकमब्रवीत्
॥ ६५९ ॥ अंजानति ततः कुन्जे, फलसङ्ख्यां धराधवः । आख्यदस्मै परिस्पष्टमष्टादशसहस्रिकाम् ॥ ६६० ॥ मुष्टिपातेन दिग्दन्तिघातघोरेण तन्नलः । अपातयदशेषाणि, फलानि कलिपादपात् ॥६६१ ॥ यावद् गणयते तावत् , तावन्त्येवाभवत् पुरः। अश्वहृद्विद्यया सङ्ख्याविद्यां कुब्जस्तदाऽऽददे ॥६६२॥ धावन्नथो रथोऽनायि, स्थैर्य कुब्जेन सत्वरम् । भीमपुर्या मुखे तारतिलकायितकेतनः ॥६६३ ॥ अथ तस्या निशः प्रान्ते, भैमी स्वममलोकयत् । हृष्टा तद्भीमभूपाय, समागत्य न्यवेदयत् ॥ ६६४ ॥ स्वमेधुना मयाऽदर्शि, तात! नितिदेवता । इहाऽऽनीय तया व्योन्नि, दर्शितं कोशलावनम् ॥ ६६५ ॥ सहकारमिहाऽऽरोहं, तद्विराऽहं फलाकुलम् । समाzत स्मितं पाणौ, तया तामरसं ततः ॥ ६६६ ॥ मंदारोहात् पुराखंढः, पतन कोऽप्यपतत् तदा । आम्राद् भुवि रविक्रान्तादभ्रात् पूर्ण इवोडपः ॥ ६६७ ॥ अंथ भीमोऽवदत् पुत्रि!, प्रापि स्वप्नोऽयमुत्तमः । निर्वृतिस्तव भाग्यश्रीर्मता तनुमती ननु ॥ ६६८ ॥ कोशलावैभवं मावि, कोशलावनवीक्षणात् । सफलाम्राधिरोहेण, सराज्य-रमणागमः ॥६६९ ।।
निपतन् यः पतन् कोऽपि, त्वयाऽदर्शि रसालतः । " भवत्याऽध्यासिताद् राज्यात्, पतिष्यति स कूवरः
॥६७०॥ अद्य सद्यः स्वचित्तेशसङ्गस्तव भविष्यति । यः प्रातः प्राप्यते स्वमः, सद्यः स हि फलेग्रहिः ॥ ६७१ ॥ तदाऽऽयातं पुराऽभ्यर्णे, दधिपर्णधराधवम् । आगत्याचीकथत् कोऽपि, श्रीभीमाय महीमुजे ॥ ६७२ ॥ अथ सम्मुखमागत्य, श्रीमान् भीमरथो नृपः । सम्मानेन पुरोत्सङ्गे, दधिपर्णमवीविशत् ॥ ६७३ ।। ऊंचे मिथः कथागोष्ठ्यां, दधिपर्ण विदर्भराद् । कुब्जाद् रसवती सूर्यपाका कारय मन्मुदे ॥ ६७४ ॥ तदुक्तो दधिपणेन, कुब्जो रसवतीं व्यधात् । इन्दुपुष्टिकृदाशुसम्पर्कसुरसीकृताम् ॥६७५ ॥ लोकैः साकं रसवती, बुभुजे भूभुजाऽथ सा । विचाराक्षमवैदग्ध्यैमिथःपश्यद्भिराननम् ॥६७६ ॥ आनायितां परीक्षार्थमथैतां भीमभूपभूः । स्वादयित्वा रसवतीं, कुब्जं निरचिनोन्नलम् ॥६७७ ॥
तद् वैदर्भी विदर्भेशं, प्रत्याह प्रीतिपूरिता । आस्तां कुब्जोऽपि खञ्जोऽपि, निश्चितः सैष नैपधिः
॥ ६७८ ॥ ज्ञानिना मुनिमुख्येन, कथितं मत्पुरः पुरा । नलो रसवतीमर्कपाका जानाति नापरः ॥६७९ ॥ सा(स्वा)भिज्ञानान्तरं तात !, पुनरेकं समस्ति मे । नलस्पर्शेन विपुलपुलकं यद् भवेद् वपुः ॥ ६८० ।। तन्मदङ्गमय कुब्जः, स्तोकं स्पृशतु पाणिना। इत्युक्ते भीमवचसा, तामङ्गुल्या नलोऽस्पृशत् ॥ ६८१ ॥ वपुः समुलकं तस्यास्तन्नलस्पर्शतः क्षणात् । प्रीतिपूरबहिःक्षिप्तास्तोकशोकमिवाभवत् ॥ ६८२ ॥ अन्तभैमी नलं निन्ये, तद् बलादबलाऽप्यसौ । अतूतुषत् तथा चाटुप्रेमामृतकिरा गिरा ॥ ६८३ ।। दमयन्त्युपरोधेनं, नलग्छन्न इवानलः । जज्ञे विश्वकरण्डाभ्यामाविष्कृतनिजाकृतिः ॥ ६८४ ॥ धृतस्वरूपं तद्रूपं, वीक्ष्य कं कं रसं न सा । भेजे भीमसुता धार्श्व-त्रपासम्पातकातरा ? ॥ ६८५ ।। तदा भाति स्म वैदर्भी, स्वेदाम्भःकणभासुरा। उपशान्तबियोगामिः, स्नाता हम्भिसीव सा ॥ ६८६ ॥ अभितो वीज्यमानाङ्गी, नलनेत्राञ्चलैश्चलैः । सद्यः स्वेदोदकस्नाता, सा चकम्पे चकोरहा ॥ ६८७ ।।
१ राधिपम् खता० ॥ २ रभीक खताम० ॥ ३ तं भूपं, खंता० ।।
-
-