________________
१४२,
' [एकादशः
सङ्घपतिचरितापरनामक साम्बुनेत्राञ्जलिभ्यां सा, तुल्यं दयित-कामयोः। तदान्तःकान्तिदूर्वाभ्यां, व्यधादर्घमनर्व्ययोः ॥ ६८८ ॥ . अदर्शिः दर्शनीयश्रीरथाऽऽयातो बहिर्जनैः । नैषधिस्त्यक्तकुन्जत्वो, राहुमुक्त इवांशुमान् ॥ ६८९ ॥ अपराद्धं यदज्ञानान्मया नाथ ! क्षमस्व तत् । दधिपणोंऽवदन्नेवमपतन्नलपादयोः । ॥ ६९० ॥ . स्वयं वेत्रीभवन् भीमो, भद्रपीठे निवेश्य तत् । अभ्यषिञ्चनलं नाथस्त्वमस्माकमिति ब्रुवन् ॥ ६९१ ॥ ऋतुपर्णः प्रियायुक्तः, सार्थेशोऽपि वसन्तकः । सुख-दुःखांशदायादावाहूतौ नलकान्तया ॥ ६९२ ॥ .. वसन्त-दधिपर्ण-तुपर्ण-भीमैः समं नलः । चिक्रीड लोकपालैः स, चतुभिरिव पञ्चमः ॥ ६९३ ॥ धनदेवोऽपि सार्थेशः, कुतोऽपि प्राप कुण्डिनम् । तस्य प्रत्युपकारं सा, कारयामास भूभुजा ॥ ६९४ ॥ कश्चिदेत्य दिवोऽन्येधुर्देवः पश्यत्सु राजसु । भैमीं नत्वाऽवदद् देवि!, त्वत्प्रसादो मयीदृशः॥ ६९५॥ सम्बोध्य तापसेन्द्रोऽहं, पुरा प्रवाजितस्त्वया । विमाने केसरेऽभूवं, सौधर्मे केसरः सुरः ॥ ६९६ ॥ .' इत्युक्त्वा सप्त कल्याणकोटीर्वर्षन् पुरः सुरः । विद्युद्दण्ड इवोद्दण्डः, समुत्पत्य तिरोदधौ ॥ ६९७ ॥ नलादेशेन देशेभ्यः, स्वेभ्यः स्वेभ्यस्ततो नृपाः । ऋतुपर्णादयः स्वं स्वं, सैन्यमानाययन् जवात् ॥ ६९८ ।। नलस्तदैव दैवज्ञदत्तेऽह्नि प्रति कोशलाम् । प्रयाणं कारयामास, वासवोपमविक्रमः ॥ ६९९ ॥ भूभृतः सैन्यचारेण, स्थावरानपि कम्पयन् । देवभूतमपि क्षोदः, स्थगयन् सूरमण्डलम् ॥ ७०० ॥ कैश्चित् प्रयाणकैः प्राप, नलः कोशलपत्तनम् । नमयन् पृतनाक्रान्तं, पातालेन्द्रमपि क्षणात् ॥ ७०१ ॥ आकर्ण्य कोशलोद्यानविद्यमानवलं नलम् । अथो यमातिथिमन्यश्चकम्पे कूवरो नृपः ॥ ७०२ ॥ पुनर्लक्ष्मी पणीकृत्य, द्यूतार्थ दूतभाषया। नलः कूवरमाकार्य, दीव्यन् जित्वाऽग्रहीन्महीम् ॥ ७०३ ॥ , अथाऽऽनन्दी नलो मन्दीकृतकोघो निजानुजम् ।
। अपि क्रूरं व्यधाद् यौवराज्ये प्राज्यमहोत्सवात्
॥ ७०४॥ अथ सम्प्रेष्य निःशेष, राजकं राजकुञ्जरः । कोशलाचैत्यचक्रेषु, चक्रे कान्तान्वितोऽर्चनाम् ।। ७०५ ॥ बहून्यब्दसहस्राणि, भैम्या सह सहर्षया । त्रिखण्डा खण्डितारातिरपालयदिलां नलः ॥ ७०६ ॥
एत्य देवो दिवोऽन्येधुनिषधो न्यगदन्नलम् । फलं गृहाण मानुष्यभूरुहस्य व्रताभिधम् ॥ ७०७ ॥ .. प्राग मया प्रतिपन्नं ते, व्रतकालनिदेशनम् । तद् वृथा मा विलम्बिष्ठा, यात्यायुर्जलविन्दुवत् ॥ ७०८ ॥ इत्युक्त्वाऽस्मिन् गते देवे, नलः कान्तान्वितो ययौ। जिनसेनाभिधं सूरिं, विज्ञातागमनं तदा ॥ ७०९॥ प्रणम्य नैषधिः सूरि, निविष्टः क्षितिविष्टरे। पप्रच्छ स्वस्य देव्याश्च, कारणं सुख-दुःखयोः ॥ ७१०॥ निर्लनमन्मथो वाचमथोवाच महामुनिः । प्रदत्तमिश्रशर्माणि, प्राकर्माणि शृणु क्षणात् ॥ ७११ ॥ . . जम्बूद्वीपशिरोरत्नं, भरतक्षेत्रभूषणम् । अष्टापदसमीपेऽस्ति, श्रीसङ्गरपुरं पुरम् ॥७१२ ॥ ... तत्राऽऽसीन्मम्मणो राजा, तस्य वीरमती प्रिया ।
अन्यदाऽऽखेटके गच्छन्, भूपोऽपश्यत् पुरो मुनिम् ॥ ७१३ ॥ . मन्वन्नशकुनं सोऽथ, धारयामास तं क्रुधा । तद् द्वादशघटीप्रान्ते, कृपयाऽमूमुचत् पुनः ॥ ७१४॥ .
तदहिंसामयो धर्मः, साधुनाऽस्मै निवेदितः । राज्ञाऽप्यङ्गीकृतो वीरमत्या दयितया समम् ॥ ७१५ ॥ . ' ताभ्यां राजसमावेन, तद् व्रती प्रतिपालितः । अपराधं क्षमस्वेत्थमुक्त्वा मुक्तो जगाम सः ॥ ७१६ ॥ '; सेवाप्रसादिता वीरमती शासनदेवता । धर्मस्थैर्यकृते निन्येऽन्येचुरष्टापदोपरि ॥७१७ ॥
१ दोऽयमी खता० ॥ २ दधे खता० ॥, ३ प्रतिलोभितः खता० ॥