________________
धर्माभ्युदयमहाकाव्यम् ।
१४३
अकृत प्रतितीर्थेश, विंशतिं विंशतिं ततः । आचाम्लानि चमत्कारिभक्तिचारुः सुलोचना ॥ ७१८ ॥ तथा तिलकमेकैकं, जिनेशानां व्यधापयत् । सौवर्णमर्णः सम्पूर्णमणिसन्दर्भगर्भितम् ॥ ७१९ ॥ तदुद्यापनकं कृत्वा, प्रीता भूकान्तकामिनी । मुनीनानन्द्य दानेन, चारणान् पारणां व्यधात् ॥ ७२० ॥ तत् तीर्थेश पदाम्भोजसेवाहेवाकशालिनी । राजधानीं राजवधूराजगाम प्रमोदिनी ॥ ७२१ ॥ चिराराद्धजिनाधीशधर्मनिर्मलितावथ । व्यंपद्येतामुभौ वीरमती - मम्मणभूपती ॥ ७२२ ॥
७२३ ॥
७२४ ॥
॥
७२५ ॥
भूपजीवोऽथ बहलीदेशान्तः पोतने पुरे । आभीरधम्मिलाभस्य, सुतोऽभूद् रेणुकाङ्गभूः ॥ तस्यैव धन्यसञ्ज्ञस्य, धूसरी नाम वल्लभा । आसीद् वीरमतीजीवः, पूर्ववत् प्रेमभाजनम् ॥ वर्षासु महिषीर्धन्यश्चारयन्नन्यदा वने । वर्षत्यम्भोधरेऽपश्यदेकपादस्थितं मुनिम् न्यधात् तदुपरि च्छन्नं, धन्यो भावनया ततः । अपारवारिभृद्धाराघोरणीवारणक्षमम् न तिष्ठत्यम्बुदो वर्षन्, साधुः स्थैर्यं न मुञ्चति । धन्यस्त्यजति न च्छत्रं, त्रयोऽपि स्पर्द्धिनोऽभवन्
॥ ७२६ ॥
सर्गः ]
3
॥ ७२७ ॥
॥ ७२९ ॥
॥ ७३० ॥
॥
७३१ ॥
॥
७३२ ॥
सप्तमेऽह्नि निवृत्तेऽब्दे, कायोत्सर्गमपारयत् । मुनिः पूर्णप्रतिज्ञोऽसौ ततो धन्येन वन्दितः ॥ ७२८ ॥ स्वस्थवृत्तिरथापृच्छन्मुनीशं धूसँरीवरः । भवतां व्रजतां कुत्र, मेघोऽयं विघ्नतां गतः ? अथावदददः साधुर्लङ्कायां गुरुसन्निधौ । गच्छतो मम मेघेन, प्रारेभे वृष्टिरीशी अभिग्रहं गृहीत्वा च, तद्वृष्टिविरमावधिम् । कायोत्सर्ग व्यधां तत्र, त्वया साहायकं कृतम् ततः सद्मनि धन्येन, सममाकारितो व्रती । निषिध्य महिषारोहं, प्राचालीत् पङ्किले पथि' क्षैरेयीपारणं पुण्यकारणं सप्तमेऽहनि । मुनीशं कारयामास, शुद्धात्मा धूसरीधवः ॥ ७३३ ॥ करुणातरुणीहारो, विहारोद्यमविक्रमी । वर्षात्यये यथाकामं, ग्रामाद् ग्रामं जगाम सः ॥ ७३४ ॥ धन्योऽपि मुनिना दत्तं, श्रावकत्वं प्रियान्वितः । पालयित्वा चिरं हैमवते युगलधर्म्यभूत् ॥ ७३५ ॥ ततोऽपि क्षीरॅदण्डीराभिधानौ दम्पती दिवि । शोभमानौ प्रभूताभिस्तावभूतां विभूतिभिः ॥ ७३६ ॥ तच्युत्वा क्षीरँदण्डीरजीवोऽभून्नैषधिर्भवान् । प्रिया ते क्षीरँदण्डीरादेवीजीवश्च भीमभूः ॥ ७३७ ॥ यद् द्वादश घटीर्दथे, मम्मणेन त्वया मुनिः । तत्प्रियाविरहो राज्यभ्रंशश्च द्वादशाव्दिकः ॥ ७३८ ॥ यच्छत्रधारणं क्षीरपारणं च मुनेः कृतम् । त्वया धन्येन धन्येन, तेनायं विभवस्तव ॥ ७३९ ॥ भैमी वल्लभा वीरमतीजन्मनि यन्मुदा । अष्टापदेऽर्हतां रत्नतिलकानि व्यधापयत् करप्रकरविस्तारकिङ्करीकृतभास्करः । तदस्याः शाश्वतो भाले, तिलको भाति भासुरः
11 080 11
॥ ७४१ ॥
॥ युग्मम् ॥
॥ ७४३ ॥
इति प्राग्भवमाकर्ण्य, समं दयितया नलः । पुष्कलाख्ये सुते राज्यं, नियोज्य व्रतमाददे ॥ ७४२ ॥ व्रतेनातीव तीब्रेण, क्क्रुतव्रतिचमत्कृती । एतौ यशः सुधापूरैः, शुभ्रयामासतुर्दिगः नेलो विलोक्य वैदर्भीमन्यदा मदनातुरः । गुरुभिर्न्यत्कृतः स्वर्गादेत्य पित्रा प्रबोधितः ॥ ७४४ ॥ तन्नलोऽनशनं भेजे, व्रतपालनकातरः । नलानुरागतः साध्वी, प्रपेदे भीमभूरपि
।। ७४५ ॥
१ विपद्याभवतामेतौ दम्पती दिवि पूर्ववत् ॥ संतासं० ॥ २ स्वच्छवृत्तिरथा पाना० । स्वच्छवृत्तिमथा ता० ॥ ३ रीधवः पाता० ॥ ४ सं० विनाऽन्यत्र -- व्यधात् तत्र, पता० ना० ॥ ५-६-७ 'रडिण्डी पाता० ॥ ८ भास्वरः संता० ॥ ९ नलोऽवलो' संता० ॥