________________
॥ ७५७॥
सङ्घपतिवरितापरनामक
[एकादशः वसुदेव! नलः सोऽहं, सजातोऽस्मि धनाधिपः। विपद्य साऽपि वैदी, बभूव मम वल्लभा ॥ ७४६ ॥ अथेयं झटिति च्युत्वा, ततः कनकवत्यभूत् । तेन पूर्वानुरागेण, बद्धः सोऽहमिहाऽऽगमम् ॥ ७४७ ॥ इहैव कर्म निर्मूल्य, सेयं यास्यति निर्वृतिम् । इत्याख्यन्मे विदेहेषु, विमलस्वामितीर्थकृत् ।। ७४८ ॥ इत्युक्त्वा वसुदेवस्य, पुरः किंपुरुपेश्वरः । शारीरैः पूरयन्नंशुपूरै रोदस्तिरोदधे ॥ ७४९ ॥ . वसुदेवोऽन्यदा खेलन् , खेचरीभिः सहान्वहम् । सूर्पकेणैकदा जहूऽमोचि गङ्गाजले ततः ॥ ७५० ॥ उत्तीर्य वीर्यवान् गङ्गा, पल्ली कामपि जग्मिवान् । असौ परिम्रमन् साकं, पथिकैः पथि कैश्चन ॥ ७५१ ॥ जराभिधां स्मराटोपभल्ली पल्लीन्दुनन्दनीम् । तत्रोपयेमे रेमे च, चन्द्रिकामिव चन्द्रमाः ॥ ७५२ ॥ तस्यां जराकुमाराख्यं, समुत्पाद्याथ नन्दनम् । विचरन्नन्यतोऽभाषि, साक्षाद् देव्या कयाचन ।। ७५३ ॥ कन्या रुधिरभूपस्य, दत्ता ते रोहिणी मया । ब्रज पाणविकीभूय, तूर्णं तस्याः स्वयंवरे ॥ ७५४ ॥ इत्युक्तः स तया शौरिर्गतोऽरिष्टपुरं प्रति । जरासन्धादिभूपाब्यस्वयंवरणमण्डपे ॥७५५ ॥ रूपेण त्रिजचित्तारोहिणी रोहिणी ततः । स्वयंवरणमास्येन, राजमानाऽऽजगाम सा ॥७५६ ॥
शृङ्गारितेऽप्यरूपेऽस्मिन्, राजकेऽस्याः स्थिता न दृक् ।
वर्ण्यवर्णेऽपि निर्गन्धे, कर्णिकार इवालिनी शौरिरेषोऽन्यवेषोऽथ, विस्फूजस्तूर्यवादिषु । वादयामास पटहमित्थं पटुभिरक्षरैः । ॥ ७५८ ॥
आगच्छाऽऽगच्छ मां तन्वि!, नन्वितः किमु वीक्षसे ?। ___अस्मि त्वदनुरूपोऽहं, कृतोत्कण्ठः सुकण्ठि.! यत्
॥ ७५९॥ वादयन्तमिति प्रेक्ष्य, शौरि शूरनिभप्रभम् । रोहिणी रोहदानन्दाऽनन्दयद् वरमालया ॥ ७६० ॥ अथ पाटहिके तस्मिन् , वृते रुधिरकन्यया । अहसन् सहसा सेय, सर्वेऽप्यु:शकुञ्जराः ॥ ७६१॥ अहो! कोलीन्यमेतस्याः, कुलीनमवृणोद् यतः। इति वार्ता मिथश्चनुः, पश्यन्तो रुधिरं च ते ॥ ७६२ ॥ अथ तेषु सहासेषु,प्राह पाटहिकः क्रुधा । दोर्दण्डे यस्य कण्डूतिः, कोलीन्यं तस्य दयते ॥ ७६३ ॥ श्रुत्वा शौरेगिरं दावकीलालीलामिमामथ । तद्वधाय जरासन्धः, स्वभूपान् समनीनहत् ॥ ७६४ ॥ सन्नद्धनिजसैन्योऽथ, रुधिरोऽपि धराधिपः । जरासन्धेन युद्धाय, क्रुद्धः शौरेः पुरोऽस्फुरत् ॥ ७६५ ॥ सारथीभूय ,शोडीरावधिर्दधिमुखाभिधः । खेचरः समरक्रूरं, रथे शौरिमवीविशत् - ॥ ७६६ ॥ वेगाद वेगवतीमात्राऽङ्गारमत्याऽर्पितानि तत् । चण्डः कोदण्ड-तूणानि, जगृहे विग्रहामही ॥ ७६७ ॥ जरासन्धधराधीशै, रुधिरं युधि रंहसा । भग्नं वीक्ष्य गिरा शौरे, खेचरो रथमैरयत् ॥७६८॥ शौरि स्ववर्यभूमीभृत्कुम्भिकेसरिणं रणे । पश्यन्नूचे जरासन्धः, समुद्रविजयं प्रति ॥ ७६९ ॥ न पाणविकमात्रोऽयं, तदेनं साधय स्वयम् । वनं भञ्जन्निभः केन, रक्ष्यः पञ्चाननं विना ? ॥ ७७० ॥ शूरमेनं निराकृत्य, त्वं भवन् रोहिणीधवः । मद्यशःकुमुदं स्मेरीकुरुष्वानेन मुद्रितम् ॥७७१ ॥ , वृतान्यनरनिष्ठाया, न धवोऽस्या भवाम्यहम् । जेयोऽसौ तु त्वदादेशादित्युत्तस्थौ समुद्रराट् ।। ७७२ ॥ ततः समद्रमुन्मुद्रवेलं खेलन्तमाहवे । अवलोक्य स्म कुर्वन्ति, देवाः कल्पान्तविनमम्- : ॥ ७७३ ॥ . युयुधाते क्रुधा तेजस्तिरस्कृतदिवाकरौ । शौरी दूरीकृतत्रासावथ प्रथम-पश्चिमौ ॥७७४ ॥
१ पल्लीशितुः सुताम् । तत्रों खंता० ॥ २ विहर' खंता० ॥ ३ पाब्ये, स्वं खंता । ४ पुरोऽविशत् खता.. . .