________________
सर्ग: 1
धर्माभ्युदयमहाकाव्यम् |
॥ ७७५ ॥
॥ ७७६ ॥
कृतस्य प्रतिकुर्वाणावविशेषतया चिरम् । अयुध्येतामुभौ धीरौ, नृणां कृतचमत्कृती समुद्रविजयं सम्यगधिगम्य विनीतधीः । चिक्षेप साक्षरं नम्रं वसुदेवः शरं पुरः पाणौ बाणमथाऽऽदाय, समुद्रोऽवाचयल्लिपिम् । तदा च्छलेन यातस्त्वां वसुदेवो नमाम्यहम् ॥ ७७७ ॥ वत्सलो वत्स । वत्सेति, समुद्रोऽथ वदन्नदः । अभ्यधावद् रथं मुक्त्वा तं प्रतीन्दुमिवाम्बुधिः ॥ ७७८ ॥ प्रीतिमान् वसुदेवोऽपि, समुत्तीर्य समुत्सुकः । निपतन् पादयोर्दोर्भ्यामुद्धृत्यानेन सस्वजे ॥ ७७९ ॥ क स्थितस्त्वमियत्कालमिति पृष्टोऽग्रजन्मना । समग्रमात्मनो वृत्तं वसुदेवो न्यवेदयत् ॥ ७८० ॥ दशमः सोऽयमिति मत्वा पराक्रमात् । दधिरे रुधिरोर्वीश- जरासन्धादयो मुदम् ॥ ७८१ ॥ प्रसङ्गायातनिःशेषभूपालविहितोत्सवम् । पुण्येऽह्नि वसुदेवोऽथ, रोहिणीं परिणीतवान् ॥ ७८२ ॥ जरासन्धादयो जग्मुर्भूभुजो रुधिरार्चिताः । तत्रैव यदवः सर्वे, तस्थुः कंसान्विताः पुनः ॥ ७८३ ॥ अन्येद्युर्जरती काऽपि, श्रीसमुद्रे सभाजुषि । आगत्य गगनोत्सङ्गाद्, वसुदेवमवोचत || ७८४ ॥ मम पुत्र्यौ चिराद् बालचन्द्रा वेगवती तथा । त्वद्वियोगातुरे देव !, सञ्जाते वाढदुर्बले ॥ ७८५ ॥ इति श्रुत्वा मुखं पश्यन् समुद्रेण स भाषितः । गच्छ वत्स ! चिरं तत्र, मास्म स्थाः पूर्ववत् पुनः ॥ ७८६ ॥ इत्याकर्ण्य तया साकं, वसुदेवो दिवा ययौ । तदागमोत्सुकः प्राप, समुद्रोऽपि स्वपत्तनम् ॥ ७८७ ॥ कन्ये काश्चनंदंष्ट्रस्य, खेचरेन्द्रस्य वृष्णिभूः । उपयेमे प्रसन्नस्ते, पुरे गगनबलमे विवोढा पूर्वोढा निजनिजपुरेभ्यो मृगदृशः,
1
॥ ७८८ ॥
समादाय भ्राम्यन् दिशि दिशि दशार्होऽथ दशमः । समागत्य व्योम्ना स्वपुरमपरैः खेचरचमूसमूहैर्लक्ष्मीवाननमत समुद्रं स्मितमतिः
।। ७८९ ।।
॥ इति श्रीविजयसेन सूरिशिष्यश्रीमदुदयप्रभसूरिविरचिते श्रीधर्माभ्युदयनान्नि श्रीसङ्घपतिचरिते लक्ष्म्यङ्के महाकाव्ये वसुदेवयात्रावर्णनो नामैकादशः सर्गः ॥
दृश्यः कस्यापि नायं प्रथयति न परप्रार्थनादैन्यमन्यस्वच्छामिच्छां विधत्ते तनुहृदयतया कोऽपि निष्पुण्यपण्यः । इत्थं कल्पद्रुमेऽस्मिन् व्यसनपरवशं लोकमालोक्य सृष्टः,
स्पष्टं श्रीवस्तुपालः कथमपि विधिना नूतनः कल्पवृक्षः ॥ १ ॥ || श्रैन्थाग्रम् ७९८ । उभयम् ३९४३ ॥
१४५
१ "नचन्द्रस्य, खेळ खंता० ॥ २ ग्रन्थानम् ८०४ ॥ उभयम् ४०१९ संता० ॥
५० १९