________________
द्वादशः सर्गः। .
4
"इतश्च कश्चन श्रेष्ठी, जज्ञे श्रीहस्तिनापुरे । ललितस्तत्सुतो मातुः, प्राणेभ्योऽपि प्रियोऽभवत् ॥ ६॥ "अथान्यो गर्मतो दुःखदाता मातुः कृतज्वरः । पातहेतून वृथाकृत्य, द्वैतीयीकः सुतोऽभवत् ॥ २ ॥ "स दोस्या त्याजितो मत्वा, पित्रा च्छेन्नीकृतः किल । ववृधे' गङ्गदत्ताख्यो, लालितो ज्येष्ठंबन्धुना ॥ ३ ॥ "ललितः श्रेष्ठिनं प्रोऽन्येचुरेष गृहे यदि । भोज्यते गंगदत्तस्तत् , सुन्दरं"तात ! जायते ॥ ४ ॥
स्वमातुश्छन्नमेवैतत् , कार्यमेवमुवाच' सः । ललितोऽथ 'तमानीय, तल्पस्याधो न्यषादयत् । ॥ ५ ॥ "ललितक्षिप्तमन्नं च, भुञ्जानं हर्षनिर्भरम् । गङ्गदत्तं 'कथंञ्चित् तं, व्यालोक्य जननी क्रुधा' ॥ ६ ॥ "दण्डकाष्ठं समुद्यम्य, गृहीत्वा चिहुरबजे । क्षणान्निष्कासयामास, कुट्टयन्ती मुहुर्मुहुः ॥ ७ ॥ युग्मम् ।। 'तमेवानुगतौ श्रेष्ठि-ललितौ कलितौ शुचा ।' पुरो वीक्ष्य मुनि तस्य, मातृवैरमपृच्छताम् ॥ ८॥ " ऊचे मुनिः कचिदामे, बन्धू अभवतामुभौ । एकदा शकटं काष्ठैः, पूर्ण प्रामाय निन्यतुः ॥ ९ ॥ "ज्येष्ठः पुरश्चरन् मार्गे; चक्कलण्डा महोरगीम् । वीक्ष्य प्रोचेऽनुज-सूत, रक्ष्याऽसौ शकटादिति ॥ १० ॥ इति तद्वाक्यविश्वस्ता, सा स्थितैव भुजङ्गमी । सूतेन चूरिता गन्याऽस्थिमङ्गध्वनिकौतुकात् ॥ ११ ॥ सा ज्येष्ठे दधती प्रीतिमप्रीतिं च कनीयसि । गन्त्रीचक्रेण भनाङ्गी, चकलण्डा व्यपद्यत ॥१२॥
सा ते जाता प्रिया श्रेष्ठिन्' !, 'ज्येष्ठः स ललितस्त्वसौं ।
गङ्गादत्तः कनिष्ठस्तु, प्राकृतेन 'प्रियाऽप्रियो इत्याकर्ण्य भवोद्विग्नः, श्रेष्ठी सूनुद्वयान्वितः । जैनं पाप व्रतं पापमतङ्गजमृगाधिपम् ॥ १४ ॥ तौ श्रेष्ठि-ललितावायुः, पूरयित्वा तपोनिधी । देवलोकं महाशुक्र, जग्मतुस्तिग्मतेजसौ ॥१५॥ जगाम विश्ववाश्लभ्यमिदानीं गङ्गादत्तकः । तपस्तपनपूर्वादिस्तमेव त्रिदशालयम् ॥१६॥ . च्युत्वा ललितजीवोऽयं, तन्महाशुक्रकल्पतः। रोहिण्या वसुदेवस्य, प्रेयस्या उदरेऽभवत् ॥ १७ ॥ . . बदने विशतः स्वमे, हलभूजन्मसूचकान् । सामृगाक-मृगेशा-ब्धीन् , निशाशेषे व्यलोकयत् ॥ १८ ॥
ततोऽझतेजसा ध्वान्तद्रोहिण रोहिणी सुतम् । असूत भूतधात्री, तर्जितद्युमणिं मणिम् ॥ १९ ॥ " रामो नाम्नाऽमिरामत्वात् , पितृभ्यां तत्प्रतिष्ठितः। क्रीडन् भोगीव बालोऽपि, जातः परभयङ्करः ॥ २० ॥
वसुदेवोऽन्यदाऽऽइतः, कंसेन, प्रीतिशालिना । ययौ.राजानमापृच्छय, मथुरायाममन्थरः ॥२१॥ : वसुदेवमथ प्राह, कंसो जीवयशोऽन्वितः । अस्तीन्द्रपुरनिर्यासो, नगरी मृत्तिकावती ॥ २२ ॥ राजा तत्र पितृव्यो मे, देवकः सेवकप्रियः । वर्तते नर्तितश्रीका, सुता तस्यापि देवकी ॥२३॥ सा कान्तिसुमनोवल्ली, त्वं यौवनवनद्रुमः । युवयोस्तद्-द्वयोर्लक्ष्मीवेश्मनोरस्तु सङ्गमः ॥२४॥ तस्यां ननु वरो भावी, भवाननुवरस्त्वहम् । तदेहि देवकाद् याच्या, देवकन्येव देवकी ॥२५॥ इदमालोच्य निश्चित्य, शौरिः कंसान्वितो गतः। नगर्यां मृत्तिकावत्या, राजा सम्मुखमाययौ ॥ २६ ॥ . १ जितो हावा, खता० पाता० ॥ २ ज-स्वं तं, रक्षासौ खंता० ॥ ३ हिणी रोहि खंता ॥ . . ४ °व, निर्जित खता० ॥ ..