________________
सर्गः],
धर्माभ्युदयमहाकाव्यम् । बहिर्निवेश्य सैन्यानि, देवकेन पुरस्कृतौ । पुरान्तर्जग्मतुः कंस-शौरी पौरनिरीक्षितौ ॥२७॥ अथोपविविशुभूपसदः प्राप्य त्रयोऽपि ते । त्रैलोक्यरक्षासामर्थ्य, मन्त्रयन्त इवाऽऽत्मस ॥२८॥ सुहृत्प्रेमोमिहंसेन, ततः कंसेन देवकः । याचितः प्रीतिवार्तासु, वसुदेवाय देवकीम् ॥२९ ।। सा स्वयं प्रार्थनीयेऽथे, प्रार्थ्यमांनोऽथ देवकः । ऊचे वयं त्वदायचा, देवकी देव! कीदृशी? ॥ ३० ॥ पुराऽपि नारदात्यातगुणोद्यदनुरागयोः । तयोरथ विवाहोऽभूद, देवकी-वसुदेवयोः ॥ ३१ ॥ देवकोऽथः दशार्हाय, बहुस्वर्णादिकं ददौ । नन्दं गोकोटियुक्तं-च, दशगोकुलनायकम् ॥ ३२ ॥ वसुदेवोद्भुतानन्दस्ततो-नन्दसमन्वितः । मथुरां सह कंसेन, प्रयातो दयितायुतः ॥ ३३ ॥ सुहृत्पाणिग्रहोपज्ञं, कंसश्चक्रे महोत्सवम् । अमानमदिरापानमत्तनृत्यद्वधूजनम्
॥३४॥ कंसानुजोऽतिमुक्तोऽथ, पूर्वोपात्तव्रतः कृती । अगादोकसि कंसस्य, पारणाय महातपाः ॥३५ ।। वीक्ष्य मत्ता तमायान्तं, प्रीता कंसप्रिया ततः । एहि देवर! नृत्यावो, जल्पन्तीति गलेऽलगत् ॥ ३६ ॥ अथोचे व्यथितः साधुर्यन्निमित्तोऽयमुत्सवः । तस्य सप्तमगर्मेणोच्छेद्यौ त्वपितृ-वल्लभो ॥ ३७ ॥ श्रुत्वेति मुनितो मुक्तमदा जीवयशा जवात् । गत्वा स्फारस्फुरत्खेदं, कंसायेदं न्यवेदयत् ॥ ३८॥ याच्यः सौहार्दतः सप्त, गर्भान् शौरिरसौ सुहृत् । निश्चित्येदमगात् कंसो, वसुदेवं प्रियान्वितः॥ ३९ ॥ प्रारब्धप्रेमवार्तासु, मत्तेनेवामदेन तत् । स मेने देवकीगर्भान् , सप्त कसेन याचितः ॥४०॥ आकर्ण्य शौरिरन्येदुरतिमुक्तकथामथ । चिखिदे वञ्चितो गर्भयाच्मायां सुहृदा च्छलात् ॥४१॥ ___इतश्चासीनाग इति, श्रीभद्रिलपुरे वणिक् । प्रियाऽभूत् तस्य सुलसा, कुलसागरचन्द्रिका ॥ ४२ ॥ अतिमुक्ताभिधः साधुश्चारणोऽस्याश्च शैशवे । निन्दुरिन्दुमुखी सेयं, भाविनीति न्यवेदयत् ॥ ४३ ॥ परमश्राद्धयाऽऽराधि, सुरः कश्चित् तयाऽप्यथ । तुष्टोऽयाचि सुतानेष, प्राह ज्ञात्वाऽवधेस्ततः ॥ १४ ॥ हन्तुं शौरिसुतान् प्रीतिकूटात् कंसेन याचितान् । अहं सञ्चारयिष्यामि, निन्दोः सुतपदे तव ।। ४५ ॥ इति:देवः प्रतिज्ञाय, चक्रे शच्या स्वकीयया । देवकी-सुलसापत्यप्रसवे तुल्यकालताम् ॥ ४६ ॥
सुषुवाते समं ते तु, देवक्या: षट् सुतान् क्रमात् । सुलसायै ददौ देवो, देवक्यै सौलसान् मृतान्
॥४७॥ स्फारमास्फालयद् प्राब्णि, कंसो निन्दुसुतान् स तान् । अवर्धन्त च देवक्या:, सूनवः सुलसागृहे
॥४८॥ नास्ताऽनीकयशोऽनन्तसेनावजितसैनिकः । निहतारिदेवयशाः, शत्रुसेनश्च ते श्रुताः ॥ १९ ॥ निशान्ते प्रेक्षत स्वप्ने, सिंहा-अर्का-ऽमि-ज-ध्वनान् । विमान-पद्मसरसी, ऋतुस्नाताऽथ देवकी॥ ५० ॥ तस्याः कुक्षाववातार्षीद्, गङ्गदत्तच्युतो दिवः । नभःसिताष्टमीरात्रिमध्येऽथ तमसूत सा ॥ ५१ ॥ सान्निध्यं तेनिरे तस्य, पुण्यपूर्णस्य देवताः । तज्जन्मनि ततः स्वापमापुस्ते कंसयामिकाः ॥ ५२ ॥ तदाऽऽहूय प्रियं प्राह, देवकी रक्ष मे सुतम् । वञ्चयित्वा द्विषं कसं, मोच्योऽसौ नन्दगोकुले ।। ५३ ॥ यशोदा जननीवामुं, सानन्दा नन्दवल्लभा । पालयिष्यति यद बालमुपचारै वैनवैः ॥५४॥ वसुदेवोऽपि तन्मत्वा, तमादायाङ्गजं व्रजन् । पार्श्वस्थदेवीक्लप्ताष्टदीप-च्छत्रजुषा पथा ॥ ५५ ॥ अथो धवलरूपेण, शिशुसान्निध्यदेवताः । पुरतो गोपुरद्वारकपाटान्युदघाटयन्
१ 'नोऽपि दे° खंता० ॥ २ बिता गर्भ खंता० ॥ ३ स्याऽऽशु # खंता० ॥