________________
सङ्घपंतिचरितापरनामकं .
[विशः आयातो गोपुरे शौरिरुपसेनेन भाषितः । भास्वन्तं दर्शयन् बालं, सानन्दमिदमब्रवीत् ॥ ५७ ॥ ' पुत्रव्याजेन शत्रुस्ते, कंसोऽनेन हनिष्यते । त्वमुद्धरिष्यसे मैवं, पुनः कापि प्रकाशयः ॥ ५८॥ . आकयेत्युग्रसेनेन, हर्षादनुमतस्ततः । जगाम नन्दकान्ताया, यशोदाया निकेतनम् . । ॥ ५९॥. तस्यास्तमात्मजं शौरिः, समाथ तदात्मजाम् । तनयां समुपादाय, देवक्याः पुरतोऽमुचत् ।। ६०॥ इति कृत्वा गते शौरी, प्रबुद्धाः कंसयामिकाः । कन्यामिमां समादाय, कंसाय द्रागढौकयन् ॥ ६१॥ स्त्रीमयं सप्तमं वीक्ष्य, तं गर्भ निर्भयो नृपः । विदधे च्छिन्ननासायां; मानी ज्ञानं हसन् मुनेः ॥ १२ ॥ अमूमुचदम कंसो, देवक्या एव सन्निधौ । पुनर्जातेयमित्यन्तः, प्रमोद प्राप साऽप्यथ ॥ ६३ ॥ स कृष्ण इति संहूतः, कृष्णाङ्गत्वेन गोमिभिः । वसुदेवकुलोत्तंसो, गोकुलान्तरवर्धत ॥६४ ॥ . गते मासि सुतं द्रष्टुमुल्सुका देवकी ययौ । सह स्त्रीभिः प्रियं पृष्ट्वा, गोकुले गोऽर्चनच्छलात् ॥६५॥ मुदं दधौ यशोदाकवर्तिनं निजनन्दनम् । श्रीवत्सलान्छितं स्निग्ध-श्याममालोक्य देवकी ॥६६ ॥ सदैव देवकी तत्र, गोपूजाव्याजतो ययौ । आविर्बभूव लोकेऽत्र, ततः प्रभृति गोव्रतम् ॥६॥ वैरेण वसुदेवस्यान्यदा शकुनि-पूतने । विद्यया तत्सुतं मत्वा, निहन्तुं कृष्णमागते । ॥ ६८ ॥ बभूवैका समारुह्य, शकटं कटुनादिनी । पूतना नूतनक्ष्वेडलित स्तनमपाययत्' " ॥१९॥ " सान्निध्यं विदधानामिर्देवताभिस्तदा मुदा । कृष्णस्य देहमाविश्य, हते तेनैनसैव ते । ॥ ७० ॥ एत्य नन्दोऽथ वीक्ष्येदं, खेदं मनसि धारयन् । यशोदां प्राह नैकाकी, बालो मोच्यः कदाचन ।। ७१ ॥ तं पालयति सानन्दा, यशोदाऽथ स्वयं सदा । छलादुच्छृङ्खलो बालः, प्रयातीतस्ततः स तु ॥ ७२ ॥ दाम्नोदूखलबद्धेन, तस्य बद्धाऽन्यदोदरम् । यशोदा तद्गीता, गृहेऽगात् प्रतिवेशिनः ॥ ७३॥ तदा पितामहद्वेषादेत्य सूर्पकमः शिशुम् । तं मध्ये पेष्टुमभितो, जगामार्जुनयुग्मंताम् ॥ ७४ ॥ अनयोः कृष्णदेव्याऽथ, माथश्चक्रे महीरुहोः । ऊचे गोपैस्ततोऽभञ्जि, कृष्णेनार्जुनयोर्युगम् ॥ ७५ ॥ तदाऽऽकण्येति नन्दश्च, यशोदा च समीयतुः । तौ धूलिधूसर वीक्ष्य, प्रीती बालं चुचुम्बतुः ॥ ७६ ॥ बद्धो यदुदरे दाना, नाम्ना दामोदरस्ततः । ख्यातोऽयं गोकुले बालो, वल्लवीप्रीतिपल्लवी ॥ ७ ॥ मत्वा शताङ्ग-शकुनि-पूतना-ऽर्जुनसङ्कथाम् । दध्यौ शौरिर, कंसो, ज्ञास्यत्येवंविधौजसा ॥७८ ॥ माऽपकार्षीत् किमप्यस्य, मत्वाऽपि क्रूरधीरसौ । अहं तदस्य रक्षायै, कश्चिन्मुश्चामि नन्दनम् ॥ ७९ ॥ तद् यथातथमाख्याय, राममुद्दामविक्रमम् । सुतत्वेनार्पयामास, यशोदा-नन्दयोर्मुदा ॥ ८० ॥ .. सहेलं खेलतस्तत्र, राम-दामोदरौ ततः । गोकुले गोमति व्योग्नि, सतारे शशि-सूर्यवत् ॥४१॥ आयुधेषु समग्रेषु, श्रमं रामेण कारितः । प्रकृत्या विक्रमी कृष्णः, संपक्षाहिरिवाबभौ । ॥८२ ॥ , गोपस्त्रियः प्रियममुं, गूढोन्मुद्रितमन्मथाः । समालिङ्गन्ति चुम्बन्ति, बालव्यवहृतिच्छंलात् ॥८॥ साकूताभिरनाकूतः, खेल्यते गोपखेलनैः । स गोपीभिः पणीकृत्य, चुम्बना-ऽऽलिङ्गनादिकम्' "॥ ८४ ॥ अस्फुटं कृष्ण कृष्णेति, जल्पन्त्यः प्रति तं मुहुः । पतन्ति मदिरोद्भूतमदव्याजेन गोपिकाः ॥ ८५॥ तं मध्येकृत्य नृत्यन्ति, गोप्यो मण्डलनर्तनँः । तत्र तालध्वजस्तालवाद्य वितनुते मुदा ', '॥८६॥ एनं केनाप्युपायेन, काऽपि गोपी कदाचन । स्पृशन्ती निर्विकारैव, सेर्प्यमन्यामिरीक्ष्यते ॥ ७ ॥
'१सुतं झात्या, पाता० ॥ २६, 'वृत्तं मनः पाता. ॥ ३ कभू शि पाता० ॥ . ' • ४ 'रोद्धत खंता । . . . . .