________________
सर्गः]
.
धर्माभ्युदयमहाकाव्यम् । तं वीक्ष्य विवशा गोप्यो, निमीलितविलोचनाः । पिण्डीकृत्योरसि रसात् , तरसैंव न्यपीडयन् ॥ ८८ ॥ कृष्णः सदाऽपि मायूरपिच्छपूरविभूषणः । जगौ गोपालवालाभिः, सह गोपालगूर्जरीम् ॥ ८९ ।। वंशनादवशैर्नेन-गति-कान्तिजितैरिव । सोऽयं कुरङ्ग-मातङ्ग-भुजगैरनुगैर्वभौ
॥९०॥ राम-गोविन्दयोः क्रीडारसनिर्मग्नयोरिति । गोपयोर्जमुरेकाहवदेकादश वत्सराः ॥९१ ।।
इतश्च कार्तिक कृष्णद्वादश्यां त्वाष्ट्रगे विधौ । समुद्रविजयाख्यस्य, पत्न्यां शौर्यपुरेशितुः ।। ९२ ।। शिवायाः कुक्षिमध्यास्त, शङ्खजीवोऽपराजितात्।सा निशान्ते महास्वप्नांश्चतुर्दश ददर्श च ।। ९३ ।।
गजोक्ष-सिंह-लक्ष्मी-सक्-चन्द्रा-अर्क-कलश-ध्वजाः ।
पद्माकर-विमाना-ब्धिरलपुञ्जा-अयस्तु ते नारकाणामपि स्वर्गजुषामिव तदा सुखम् । क्षणमासीत् प्रकाशश्च, चकास्ति स्म जगत्स्वपि ॥ ९५ ॥
पत्युरत्युत्सुका स्वप्नानाख्यद् देवी प्रबुध्य तान् ।
राज्ञा तदैव दैवज्ञोऽपृच्छयत क्रोष्टुकिः स्वयम् । स व्याचल्यौ सुतो भावी, जिनो वां त्रिजगत्पतिः । श्रुत्वेति तावपि प्रीती, पीयूषस्नपिताविव ॥ ९७ ॥ गर्भस्थितेन तेनाथ, स्वामिना नृपकामिनी । बभौ स्मितमुखाम्भोजा, हंसेनेव सरोजिनी ॥९८॥ निशीथे सितपञ्चम्यां, श्रावणे त्वाष्ट्रगे विधौ । शङ्खध्वजं शिवाऽसूत, सुतं जीमूतमेचकम् ॥ ९९ ।। षट्पञ्चाशदथाऽऽगत्य, दिक्कुमार्यो यथाक्रमम् । शिवा-जिनेन्द्रयोश्चक्रुः, सूतिकर्माणि भक्तितः ॥१०॥ पञ्चरूपो हरिः स्वर्गादथाऽऽगत्य यथाविधि । अतिपाण्डुकम्बलायां, शिलायां नीतवान् विभुम् ॥ १०१॥
तत्र सिंहासनारूढः, सोऽयं स्वाङ्के जिनं दधौ ।
त्रिषश्या त्वपरैः शनैः, स्नानं चक्रेऽच्युतादिभिः ॥ १०२॥ अहे तदीशमीशानो, दधौ सिंहासनासनः । सौधर्मेन्द्रोऽकृत स्नात्रा-रात्रिक-स्तवनादिकम् ॥ १०३ ॥ प्रभोरप्सरसः पञ्च, धात्रीराधाय वासवः । कृत्वा नन्दीश्वरे यात्रां, मुदितः स्वपदं ययौ ॥ १०४ ॥ सप्रभावं प्रभावन्तं, राकेन्दुमिव नन्दनम् । तमालोक्य समुद्रोऽभूदुन्मुद्रितमहोदयः ॥१०५॥ दृष्टो रिष्टमणेर्नेमिर्मात्रा स्वमेऽत्र गर्भगे । अरिष्टनेमिरित्याख्या, सूनोस्तद् विदधे पिता ॥ १०६ ॥ मथुरायामथाऽऽतेने, नेमिजन्ममहोत्सवम् । दशाहों दशमस्तेन, कंसस्तस्याऽऽययौ गृहम् ॥ १०७॥
छिन्ननासापुटां वीक्ष्य, खेलन्ती तत्र तां सुताम् ।
भीतः कंसोऽधिकं सोऽथ, स्मृत्वाऽनुजमुनेर्वचः नैमित्तिकं स कंसस्तदपृच्छत् सदने गतः । स्त्रीगर्भः सप्तमः सोऽयं, मुनिनोक्तो भवेन्न वा ॥ १०९ ॥ ऊचे नैमित्तिकः साधुगिरो विपरियन्ति न । छाप्यस्ति हस्तिमल्लौजाः, स गर्भस्ते भयकरः ॥ ११० ।। तमरिष्टोख्यमुक्षाणं, हयेशं केशिनं च तम् । खर-मेषौ च तौ मुञ्च, क्रमाद् वृन्दारके वने ॥ १११ ।। अत्युग्रानपि तान् खेलन्, सहेलं यो हनिष्यति । हन्त ! हन्ता स ते सत्यं, निरर्गलभुजार्गलः ॥ ११२ ।। पूजयेज्जननी यत् ते, शाङ्ग धन्व क्रमागतम् । आरोपयिष्यति पयःसितकीर्तिः स एव तत् ॥ ११३ ॥ कालियाहेर्दमयिता, चाणूरस्य विपादकः । हनिष्यति द्विपेन्द्रौ ते, स पद्मोत्तर-चम्पको ॥ ११४ ॥ आदिश्याऽथ श्रमायाऽसौ, मल्लौ चाणूर-मौष्टिको अरिष्टादीन् वनेऽमुञ्चदरातिं ज्ञातुमात्मनः ।। ११५ ॥
१ 'टाक्षमु खता० ॥ २ षौ ततो मु° पाता० ॥ ३ यति च यः, सित पाता ।।