Book Title: Dharmabhyudaya Mahakavya
Author(s): Chaturvijay, Punyavijay
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 230
________________ सर्गः] . धर्माभ्युदयमहाकाव्यम् । इतश्च रुक्मिणीसौधे, हरिः सिंहासने स्थितः । अपश्यत् पुत्रमानाय्य, विभाजितविभाकरम् ॥ ४६॥ आनन्दाम्बुधिनिर्मग्नो, निजगाद जनार्दनः । प्रद्युम्न इति तं नाम्ना, धाम्नां सीमा सुतो हि सः ॥ १७ ॥ ज्योतिष्कः पूर्ववैरेण, धूमकेतुस्तदा सुतम् । तं कृष्णादुक्मिणीवेषो, हृत्वा वैताट्यमभ्यगात् ॥ १८ ॥ तं चूतरमणोद्याने, बालं टङ्कशिलोपरि । एष क्षुधातुरत्वेन, म्रियतामित्यमुञ्चत ॥१९॥ असावनपमृत्युस्तञ्चरमाणतया शिशुः । अबाधितोऽपतद् भूरिपर्णाकीर्णमहीतले ॥ ५० ॥ गच्छतः स्वपुरं कालसंवरस्य पुरान्तरात् । विमानमस्खलत् प्रातस्तत्रैव व्योमचारिणः ॥५१ ।। अथाधोदत्तदृष्टिस्तं, दृष्ट्वा बालं रविच्छविम् । पल्यै कनकमालाय, पुत्र इत्यार्पयत् खगः ॥ ५२ ॥ अथाऽऽल्यन्मेधकूटाख्ये, खेचरः स्वपुरे गतः । गूढगर्भाऽधुनैवामुं, मत्पनी सुषुवे सुतम् ॥५३ ॥ पुत्रजन्मोत्सवादूई, संवरः सुदिने व्यधात् । तस्य प्रद्युम्न इत्याख्यां, दिक्प्रद्योतनतेजसः ॥ ५४ ॥ अथैत्यापच्छि रुक्मिण्या, श्रीगोविन्दः क नन्दनः । अधुनेवाग्रहीः पुत्रं, हरिरित्युत्तरं ददौ ॥ ५५ ॥ केनापि च्छलितोऽसीति, भाषमाणाऽथ रुक्मिणी । पपात मूर्छिता भूमौ, लब्धसंज्ञा रुरोद च ॥ ५६ ॥ यदुभिः पद्मवम्लानं, भास्वत्यस्मिन् गते सुते । कुमुद्वतीव भामा तु, मुदिता सपरिच्छदा ।। ५७ ॥ आप्ताय नारदायाथ, किमेतदिति पृच्छते। आख्यत् सर्वं हरिर्दुःखी, शुद्धिं वेत्सीति चावदत् ॥ ५८ ॥ अथाऽऽह नारदो ज्ञानी, पुराऽऽसीदतिमुक्तकः। अधुना स गतो मुक्ति, न ज्ञानं भारतेऽस्ति तत् . ॥ ५९॥ तदहं प्राग्विदेहेषु, पृष्ट्वा सीमन्धरं जिनम् । कथयिष्यामि ते सर्वमित्युक्त्वा नारदो ययौ ॥ ६०॥ गत्वाऽथ ज्ञानिनिःसीम, सीमन्धरजिनेश्वरम् । प्रणम्य नारदोऽपृच्छत् , कृष्णसूनुगतिप्रथाम् ॥ ६१ ॥ अथाऽऽख्यत् तीर्थकृद् धूमकेतोः प्राग्वैरचेष्टितम् । विद्याधरगृहे वर्द्धमानं च हरिनन्दनम् ॥ १२ ॥ पृच्छते नारदायाथ, तस्य प्राग्वैरकारणम् । स्वामी सीमन्धरस्तत्रे, सर्वमित्थमचीकथत् ॥ ६३ ॥ प्रद्युम्नस्य पूर्वभवचरितम् अस्ति हस्तिपुरं जम्बूद्वीपे धरणिभूषणम् । विष्वक्सेनोऽत्र भूपोऽभूद्, विष्वक्सेनोद्धृताहितः ॥ ६४॥ मधु-कैटभनामानौ, तस्याभूतामुभौ सुतौ । भेजे राजा व्रतं राज-युवराजौ विघाय तौ ॥६५॥ छलात् पल्लीपति मस्तयोर्देशमुपाद्रवत् । तं हन्तुमथ भूपालश्चचालाचलविक्रमः ॥ ६६ ।। • मार्गे चटपुरेन्द्रेण, कनकप्रभभूभुजा । मधु जन-वस्त्रादिदानैः सानन्दमर्चितः ॥ ६७॥ तत्रासौ वीक्ष्य चन्द्राभां, कनकप्रभवल्लभाम् । चेतस्तत्रैव मुक्त्वाऽगाद्, भीमं पल्लीपतिं प्रति ।। ६८ ॥ मधुः पल्लीपतिं हत्वा, कण्ठीरव इव द्विपम् । चलितः पुनरामन्त्रि, कनकप्रभभूभुजा ॥ ६९ ॥ अथाऽयच्छति चन्द्राभां, याच्या कनकप्रमे । बलात्कारेण तां निन्ये, मधुर्मधुसखातुरः ॥ ७० ॥ • चन्द्रामाविरहाद् मेजे, वैकल्यं कनकप्रभः । मधुस्तु हास्तिनपुरं, प्राप्य रेमे समं तया ॥ ७१ ।। १ "त्यस्तङ्गते खंता० ॥ २ °त्र, तदा सर्वमची पाता० । 'त्र, सर्वमेवम खता० ॥ ३ भीमप संता०॥

Loading...

Page Navigation
1 ... 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284