________________
सर्गः]
.
धर्माभ्युदयमहाकाव्यम् । इतश्च रुक्मिणीसौधे, हरिः सिंहासने स्थितः । अपश्यत् पुत्रमानाय्य, विभाजितविभाकरम् ॥ ४६॥ आनन्दाम्बुधिनिर्मग्नो, निजगाद जनार्दनः । प्रद्युम्न इति तं नाम्ना, धाम्नां सीमा सुतो हि सः ॥ १७ ॥ ज्योतिष्कः पूर्ववैरेण, धूमकेतुस्तदा सुतम् । तं कृष्णादुक्मिणीवेषो, हृत्वा वैताट्यमभ्यगात् ॥ १८ ॥ तं चूतरमणोद्याने, बालं टङ्कशिलोपरि । एष क्षुधातुरत्वेन, म्रियतामित्यमुञ्चत ॥१९॥ असावनपमृत्युस्तञ्चरमाणतया शिशुः । अबाधितोऽपतद् भूरिपर्णाकीर्णमहीतले ॥ ५० ॥ गच्छतः स्वपुरं कालसंवरस्य पुरान्तरात् । विमानमस्खलत् प्रातस्तत्रैव व्योमचारिणः ॥५१ ।। अथाधोदत्तदृष्टिस्तं, दृष्ट्वा बालं रविच्छविम् । पल्यै कनकमालाय, पुत्र इत्यार्पयत् खगः ॥ ५२ ॥ अथाऽऽल्यन्मेधकूटाख्ये, खेचरः स्वपुरे गतः । गूढगर्भाऽधुनैवामुं, मत्पनी सुषुवे सुतम् ॥५३ ॥ पुत्रजन्मोत्सवादूई, संवरः सुदिने व्यधात् । तस्य प्रद्युम्न इत्याख्यां, दिक्प्रद्योतनतेजसः ॥ ५४ ॥ अथैत्यापच्छि रुक्मिण्या, श्रीगोविन्दः क नन्दनः । अधुनेवाग्रहीः पुत्रं, हरिरित्युत्तरं ददौ ॥ ५५ ॥ केनापि च्छलितोऽसीति, भाषमाणाऽथ रुक्मिणी । पपात मूर्छिता भूमौ, लब्धसंज्ञा रुरोद च ॥ ५६ ॥ यदुभिः पद्मवम्लानं, भास्वत्यस्मिन् गते सुते । कुमुद्वतीव भामा तु, मुदिता सपरिच्छदा ।। ५७ ॥ आप्ताय नारदायाथ, किमेतदिति पृच्छते। आख्यत् सर्वं हरिर्दुःखी, शुद्धिं वेत्सीति चावदत् ॥ ५८ ॥
अथाऽऽह नारदो ज्ञानी, पुराऽऽसीदतिमुक्तकः। अधुना स गतो मुक्ति, न ज्ञानं भारतेऽस्ति तत्
. ॥ ५९॥ तदहं प्राग्विदेहेषु, पृष्ट्वा सीमन्धरं जिनम् । कथयिष्यामि ते सर्वमित्युक्त्वा नारदो ययौ ॥ ६०॥ गत्वाऽथ ज्ञानिनिःसीम, सीमन्धरजिनेश्वरम् । प्रणम्य नारदोऽपृच्छत् , कृष्णसूनुगतिप्रथाम् ॥ ६१ ॥ अथाऽऽख्यत् तीर्थकृद् धूमकेतोः प्राग्वैरचेष्टितम् । विद्याधरगृहे वर्द्धमानं च हरिनन्दनम् ॥ १२ ॥ पृच्छते नारदायाथ, तस्य प्राग्वैरकारणम् । स्वामी सीमन्धरस्तत्रे, सर्वमित्थमचीकथत् ॥ ६३ ॥ प्रद्युम्नस्य पूर्वभवचरितम्
अस्ति हस्तिपुरं जम्बूद्वीपे धरणिभूषणम् । विष्वक्सेनोऽत्र भूपोऽभूद्, विष्वक्सेनोद्धृताहितः
॥ ६४॥ मधु-कैटभनामानौ, तस्याभूतामुभौ सुतौ । भेजे राजा व्रतं राज-युवराजौ विघाय तौ ॥६५॥ छलात् पल्लीपति मस्तयोर्देशमुपाद्रवत् । तं हन्तुमथ भूपालश्चचालाचलविक्रमः ॥ ६६ ।। • मार्गे चटपुरेन्द्रेण, कनकप्रभभूभुजा । मधु जन-वस्त्रादिदानैः सानन्दमर्चितः ॥ ६७॥ तत्रासौ वीक्ष्य चन्द्राभां, कनकप्रभवल्लभाम् । चेतस्तत्रैव मुक्त्वाऽगाद्, भीमं पल्लीपतिं प्रति ।। ६८ ॥ मधुः पल्लीपतिं हत्वा, कण्ठीरव इव द्विपम् । चलितः पुनरामन्त्रि, कनकप्रभभूभुजा ॥ ६९ ॥
अथाऽयच्छति चन्द्राभां, याच्या कनकप्रमे । बलात्कारेण तां निन्ये, मधुर्मधुसखातुरः ॥ ७० ॥ • चन्द्रामाविरहाद् मेजे, वैकल्यं कनकप्रभः । मधुस्तु हास्तिनपुरं, प्राप्य रेमे समं तया ॥ ७१ ।।
१ "त्यस्तङ्गते खंता० ॥ २ °त्र, तदा सर्वमची पाता० । 'त्र, सर्वमेवम खता० ॥ ३ भीमप संता०॥