________________
' १५६,
. , सङ्घपतिचरितापरनामक
' [त्रयोदशः । सह सेनासहस्रेण, शिशुपालः पलीयत । राममालोक्य रुक्मी तु, युद्धैकश्रद्धया स्थितः ॥२१॥ कृत्वाऽथ विरथं रामो, रुक्मिणं रणमूर्धनि । क्षिप्रं क्षुरप्रनिर्लन-केशं तमिदमभ्यधात् ॥२२॥ __.. त्वं मत्कनिष्ठकान्ताया, रुक्मिण्याः सोदरो यतः ।
जीवन् मुक्तोऽसि तत् केशच्छेदैच्छुटितमस्तकः रुक्मी कृतशिरस्तुण्डमुण्डनः कुण्डिने पुरे । न जगाम ह्रिया चक्रे, तत्र भोजकटं पुरम् ॥ २४ ॥
इतश्च दर्शयामास, रुक्मिण्यै द्वारकां हरिः न्यवेदयच्च पूरेषा, कृता श्रीदेन मत्कृते ॥ २५ ॥ .. सफलीकुरु हेलाभिरिहोपान्तावनीवनीः । लीलाशैल-सरो-वापी-सिन्धुबन्धुरिताः सदा. ॥२६॥ अथाऽऽहं रुक्मिणी स्वामिन्नहमेकाकिनी हृता । परिवारं ततो देहि, सत्यभामादिवन्मम ॥ २७॥ . कार्या तदधिकाऽसीति, प्रतिपद्यं जनार्दनः । रुक्मिणीममुचद् भामाधामान्तिकनिकेतने ॥ २८॥ । परिणीयांथ गान्धर्वविवाहेन बलानुजः । क्षणवत् क्षणदां कृत्स्नामिमामरमयन्मुदा ॥२९॥ . अतिमुक्तमुनिः प्रापदन्यदा रुक्मिणीगृहम् । तन्मत्वा सत्यभामाऽपि, रभसा समुपागमत् ।। ३०॥ .
भावी मम सुतो नो वा ?, रुक्मिण्येत्युदितो मुनिः । - जनार्दनसमो भावीत्युक्त्वा तां स ययौ तदा
॥३१॥ अथाऽऽह रुक्मिणी भामा, कथितो मे सुतोऽमुना। तेन वादेन ते याते,'हरिमन्योन्यकोपने ॥ ३२ ॥ अथ तत्राऽऽगतो धैर्यधुर्यो दुर्योधनो नृपः । भामा तमाह जातो मे, सूनुर्वोढा सुतां तव ॥ ३३ ॥ रुक्मिणी सत्यभामांच, प्राह दुर्योधनो नृपः । प्राग् भावी तनयो यस्यास्तस्यै देयो सुता मया ॥ ३४ ॥
_____ अथाऽऽह भामा प्रथम, यत्पुनः परिणेष्यते।
तस्यै च्छित्त्वा शिरःकेशान्, द्वितीया स्वान् प्रदास्यति ॥ ३५॥ . निश्चित्येदं तदा सत्या, रुक्मिणी च समान्तरे । तत् साक्षीचक्रतुः कृष्ण-राम-दुर्योधनादिकान् दृष्टः स्वप्नेऽथ रुक्मिण्या, विशन्नास्ये सिंतो वृषः ।। तद्विचारं हरियाख्यद्, यद् भावी तेद्भुतः सुतः
.. दासीमुखादिति श्रुत्वा, सत्याऽप्यांगत्य कल्पितम् । . . .. . आचख्यौ हरये स्वप्नं, यन्ममाऽऽस्ये गजोऽविशत् " - ॥ ३८॥ , तं मत्वाऽपि हरिः स्वप्नं, कल्पितं जल्पितेजितैः । मा भूदस्यां विषादस्तद्, व्याख्यद् वरसुंतोद्भवम् ॥ ३९॥ ...
अथो महर्द्धिकः कोऽपि, महाशुक्राच्युतः सुरः । उदरे रुक्मिणीदेव्यास्तेजोरविरवातरत् ॥ ४० ॥ । अथ सत्याऽप्यधाद् गर्भमुदरं ववृधे च तत् । यथावस्थोदरैवास्थात्, पुण्यगर्भा तु रुक्मिणी ॥ ११ ॥
कृष्णमेत्याऽन्यदा सत्या, प्राह सत्या न रुक्मिणी । उदरं मेदुरं नास्याः, पश्य गर्ने पुनर्मम ॥ ४२ ॥ ... ." वदन्त्यामिदमेवास्यां, दासी कृष्णमवर्धयत् । पुत्रोऽभूद् देव! रुक्मिण्या, रुक्मतुल्यतनुश्रुतिः ॥ १३ ॥ • वचस्तस्यास्तदाऽऽकर्ण्य, कर्णपीयूषमच्युतः । उत्थाय, रुक्मिणीसौधं, प्रति प्रचलितो मुर्दा ॥ ४४ ॥ .. गच्छन्ती सदने खिन्ना, तया सत्याऽपि वार्तया । वर्त्मन्येव भयस्यूताऽसूत सा भानुकं सुतम् ॥ ४५ ॥ .
लायितः, पाता' ॥ २ क्षुरप्रेण ततो लू पाता० ॥ ३ दत्रुटि' पाता० ॥ ४ बाययौ "धै खंता॥५. दं गता सत्या, खता० ॥ . ... ... . . . . . . .'..