________________
त्रयोदशः सर्गः।
प्रद्युम्नकुमारचरितम् ददन्मुदं दशार्हाणां, तस्यां हलियुतो हरिः । चिरं चिक्रीड सहितो, यादवैड्लितादवैः ॥ १ ॥ तदन्तर्नेमिनाथोऽपि, बाल्यं साफल्यमानयंत् । त्रिज्ञानवानपि क्रीडारसैर्यदुमदप्रदः ॥ २ ॥ आजन्म मन्मथजयी, निर्विकारमनाः क्रमात् । श्रीनेमियौवनं प्राप, दशचापोन्नताकृतिः ॥ ३ ॥ पितृ-प्रातृ-सुहृद्धगैः, प्रार्थ्यमानोऽप्यहर्निशम् । न मेने नेमिनाथस्तु, पाणिग्रहमहोत्सवम् ॥४॥ अन्येयुः केलिवल्लीनां, नीरदो नारदो मुनिः । पर्यटन्नेत्य गोविन्दार्चितो भामागृहं ययौ ॥ ५ ॥ तत्रानभ्युत्थितायां तु, दर्पणालोककौतुकात् । क्रुद्धो दध्यौ ददाम्यस्याः, सापल्यमिति नारदः ॥ ६ ॥
अथ भीष्मकभूपालसुतायै कुण्डिने पुरे।।
रुक्मिण्यै रुक्मिसोदय, व्याख्यात् कृष्णगुणान् ‘मुनिः ॥ ७ ॥ तस्याः कृष्णानुरक्ताया, रूपं चित्रपटस्थितम् । कृष्णाय दर्शयामास, नेत्रपात्रामृतं मुनिः ॥ ८॥ कृष्णस्तदनुरक्तोऽथ, सत्कृत्य मुनिपुङ्गवम् । रुक्मिणे रुक्मिणीयाच्या हेतो तं नियुक्तवान् ॥ ९ ॥ दूतेन रुक्मिणी रुक्मी, प्रार्थितोऽभिदधौ हसन् । शिशुपालाय देयाऽसौ, न तु गोकुलरक्षिणे ॥ १० ॥
इत्युक्त्वाऽस्मिन् गते दूते, रुक्मिणी कृष्णरागिणी ।
पितृण्वना सहाऽऽलोच्य, न्ययुत हरये चरम् माधे मांसि सिताष्टम्यां, वने नागार्चनच्छलात् । मामभ्युपेयुषी हर्तुमागन्तव्यं त्वया रयात् ॥ १२ ॥
वचः श्रुत्वेति रुक्मिण्याः, दूतात् प्रीतो जनार्दनः ।।
आहूतः शिशुपालस्तु, रुक्मिणा रुक्मिणीकृते । रामेण सह सङ्केतदिने गरुडकेतनः । आययौ कुण्डिनोद्याने, तनाथ रथिना रथी ॥१४॥ इतोऽपि रुक्मिणी नागपूंजाव्याजेन निःसृता । पितृष्वस्राऽप्यनुमता, रथं कृष्णस्य शिश्रिये ॥ १५ ॥ अथ स्वदोषमोषीय, सत्कारं पितृष्वसा । रुक्मिणेऽकथयनहे, रुक्मिणी हरिणा हठात् ॥ १६ ॥ पाञ्चजन्य-सुघोषाख्यौ, शङ्खावापूर्य निर्भरम् । हत्वा च रुक्मिणी कृष्ण-रामावचलतां ततः ।। १७ ॥ अपहार स्वसुः श्रुत्वा, रुक्मी रोषारुणेक्षणः। शिशुपालान्वितोऽचालीत्, कृष्णस्यानुपदं तदा ॥ १८ ॥
तस्थौ रामोऽथ युद्धाय, ययौ तूर्णं तु केशवः । रथेन रुक्मिणीनेत्रस्पर्धतरलवाजिना ॥ १९ ॥ '. रामस्तदनु सामकुशलो मुशलोद्धतः । ममन्थारिवलं शुण्डाचण्डो हूदमिव द्विपः ॥२०॥
. १ 'यन् खता० पाता० ॥ २ हर्दिवम् खंता० पाता० ॥ ३ तस्यां कृष्णानुरक्तायां, रूपं पाता० ॥ ४ थ, पूजयित्वा तु नारदम् पाता. ॥ ५ माघमासे सिता खता० । सिताष्टम्यामहं माघे, मासे नागार्चनच्छलात् । वनमेष्यामि मां हर्नु पाता० ॥ ६ कृष्णस्य रेयमारुहत् पावा० ॥ ७ तां हत्वा रुक्मि खंता० पाता ॥ ८ ततः खता० ॥ ९ तूर्ण जनार्दनः पाता० ॥