Book Title: Dharmabhyudaya Mahakavya
Author(s): Chaturvijay, Punyavijay
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 234
________________ सर्गः] . धर्माभ्युदयमहाकाव्यम्। मुने.! प्रसीद तद् ब्रूहि, कदा भावी स वासरः । यत्र पुत्रो ममोत्सङ्गसङ्गमङ्गीकरिष्यति ! ॥ १४५ ।। मुनिरूचे क्षुधातॊऽहं, तत् किञ्चिद् देहि भोजनम् । कथयामि यथा सुस्थस्त्वत्पुत्रागमवासरम् ॥ १४६॥ अथाऽऽह रुक्मिणी कृष्णमोदकाः सन्ति नापरम् । ते तु नान्यस्य जीर्यन्ते, तन्मुने ! किं ददामि ते ? ॥१४७॥ किश्चिन्मे दुर्जर नेति, जल्पते साधवेऽथ सा। एकैकं मोदकं प्रादादाद कृत्स्नान् क्रमादसौ ॥ १४८ ॥ इतोऽपि सत्यभामानुयुक्ताः पटलिकाभृतः ।। रुक्मिणीमेत्य विजितान् , दास्यः केशान् ययाचिरे ॥१४९॥ भृत्वा पटलिकास्तासामेव केशैः स कृष्णभूः। स्मितस्ताः प्रेषयामास, मुण्डितस्वामिनीसमाः ॥ १५० ॥ ताः प्रेक्ष्य कुपिता सत्या, प्रैषीज्झगिति नापितान् । कुट्टितास्ते कुमारेण, रुक्मिणीकुन्तलार्थिनः ॥ १५१॥ अथ भामा समामेत्य, कोपना प्राह केशवम् । प्रयच्छ रुक्मिणीकेशान् , यदभूःप्रतिभूरिह ।। १५२ ।। रामो दामोदरेणाथ, केशार्थ प्रेषितो ययौ। कृष्णीभूय तदा चास्थात् , कुमारो मातुरन्तिके ।। १५३ ॥ बलोऽवलोक्य तत् सर्व, वलितो हृदि लज्जितः।मांप्रेष्य त्वमगास्तत्र, कृष्णमित्याह कोपतः ॥ १५४ ।। श्रुत्वेति हलिनो वाचे, सत्यभामाऽतिकोपना । सर्वे कपटिनो यूयमित्युक्त्वाऽऽत्मगृहं गता ॥ १५५ ॥ प्रद्युम्नो नारदेनासौ, रुक्मिण्य कथितस्ततः । तदा स्वं रूपमास्थाय, स्वजनन्यै नमोऽकरोत् ॥ १५६ ।। स्तनयोरुज्ज्वलं प्रीत्या, 'साजनं नेत्रयोः पयः । मेने मूर्ध्नि पतद्गङ्गा, यमी स्नानं नमन्नसौ ॥ १५७ ॥ न ज्ञाप्योऽहं पितुर्यावञ्चित्रं किञ्चन दर्शये । इत्युक्त्वा मातरं मायी, रथे न्यस्य चचाल सः ॥ १५८ ॥ हरेऽहं जीवतः कान्तां, हरेर्दष्ट्रां हरेरिव । स इत्याख्यान जने शङ्ख, दध्मौ दुर्धरविक्रमः ॥ १५९ ॥ मुमूर्षुः कोऽत्र मूर्योऽयं, वदन्निति बलान्वितः। कोपी गोपीधवो धन्व, विधुन्वन्नभ्यधावत ॥ १६० ॥ कैशवः शैशवे तिष्ठन् , भक्त्वा कृष्णचमूरमूः । चिरान्निरायुधं चक्रे, वैकुण्ठं कुण्ठितोद्यमम् ॥ १६१ ॥ तदाऽऽगतं हरिं प्रीतिभारदो नारदोऽवदत् । मा विषादीरसौ युद्धं, विधत्ते रुक्मिणीसुतः ॥ १६२ ॥ श्रुत्वेति सप्रमोदस्य, गोविन्दस्य पदाब्जयोः । य॒द्युम्नो न्यपतत् कुर्वन्नश्रुमुक्ताफलार्चनम् ॥ १६३ ॥ प्रविवेश गतावेशः, केशवः सबलः पुरीम् । प्रद्युम्न-रुक्मिणीरोचमानो मानधनापणीः ॥ १६४ ।। प्रद्युम्नहृतमुक्तां तो, दुर्योधननृपात्मजाम् । पर्यणैषीत् ततः सत्यातनुभूर्भानुकामिधः ॥१६५ ।। रौक्मिणेयविभूत्याऽथ, भामां दुर्मनसं हरिः।। अपृच्छत् किं विषण्णाऽसि, पूरये किं तवेहितम् ! ॥१६६ ॥ भामा प्राह मयि प्रीतो, यदि देव ! प्रयच्छ तत् । प्रद्युम्नमिव सद्युम्नं, नन्दनं चित्तनन्दनम् ॥ १६७ ॥ प्रत्यक्षीकृत्य तपसा, गीर्वाणं नैगमेषिणम् । हरियाचे भामायां, प्रद्युम्नप्रतिमं सुतम् ॥ १६८ ॥ १ दादावत् क खता० ॥ २ कुण्टिता' खंता० ॥ ३ गत्य ह खैता. पाता. ॥ ४ पपात पुरतोऽभीतः, प्रद्युम्नो मन्मथद्युतिः इतिरूपमुत्तरार्ध पाता० ॥ ५ तां, कन्यां पर्यणयत् ततः। दुर्योधनसुतां भामानन्दनो भानुकाभिधः इत्येवंरूप. श्लोकः पाता० ॥ ध० २१

Loading...

Page Navigation
1 ... 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284