Book Title: Dharmabhyudaya Mahakavya
Author(s): Chaturvijay, Punyavijay
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 214
________________ सर्गः] धर्माभ्युदयमहाकाव्यम् । १४१ ' अक्षवृक्षमथो वीक्ष्य, कला दर्शयितुं निजाम् । कियन्त्यस्मिन् फलानीति, राजा कुब्जकमब्रवीत् ॥ ६५९ ॥ अंजानति ततः कुन्जे, फलसङ्ख्यां धराधवः । आख्यदस्मै परिस्पष्टमष्टादशसहस्रिकाम् ॥ ६६० ॥ मुष्टिपातेन दिग्दन्तिघातघोरेण तन्नलः । अपातयदशेषाणि, फलानि कलिपादपात् ॥६६१ ॥ यावद् गणयते तावत् , तावन्त्येवाभवत् पुरः। अश्वहृद्विद्यया सङ्ख्याविद्यां कुब्जस्तदाऽऽददे ॥६६२॥ धावन्नथो रथोऽनायि, स्थैर्य कुब्जेन सत्वरम् । भीमपुर्या मुखे तारतिलकायितकेतनः ॥६६३ ॥ अथ तस्या निशः प्रान्ते, भैमी स्वममलोकयत् । हृष्टा तद्भीमभूपाय, समागत्य न्यवेदयत् ॥ ६६४ ॥ स्वमेधुना मयाऽदर्शि, तात! नितिदेवता । इहाऽऽनीय तया व्योन्नि, दर्शितं कोशलावनम् ॥ ६६५ ॥ सहकारमिहाऽऽरोहं, तद्विराऽहं फलाकुलम् । समाzत स्मितं पाणौ, तया तामरसं ततः ॥ ६६६ ॥ मंदारोहात् पुराखंढः, पतन कोऽप्यपतत् तदा । आम्राद् भुवि रविक्रान्तादभ्रात् पूर्ण इवोडपः ॥ ६६७ ॥ अंथ भीमोऽवदत् पुत्रि!, प्रापि स्वप्नोऽयमुत्तमः । निर्वृतिस्तव भाग्यश्रीर्मता तनुमती ननु ॥ ६६८ ॥ कोशलावैभवं मावि, कोशलावनवीक्षणात् । सफलाम्राधिरोहेण, सराज्य-रमणागमः ॥६६९ ।। निपतन् यः पतन् कोऽपि, त्वयाऽदर्शि रसालतः । " भवत्याऽध्यासिताद् राज्यात्, पतिष्यति स कूवरः ॥६७०॥ अद्य सद्यः स्वचित्तेशसङ्गस्तव भविष्यति । यः प्रातः प्राप्यते स्वमः, सद्यः स हि फलेग्रहिः ॥ ६७१ ॥ तदाऽऽयातं पुराऽभ्यर्णे, दधिपर्णधराधवम् । आगत्याचीकथत् कोऽपि, श्रीभीमाय महीमुजे ॥ ६७२ ॥ अथ सम्मुखमागत्य, श्रीमान् भीमरथो नृपः । सम्मानेन पुरोत्सङ्गे, दधिपर्णमवीविशत् ॥ ६७३ ।। ऊंचे मिथः कथागोष्ठ्यां, दधिपर्ण विदर्भराद् । कुब्जाद् रसवती सूर्यपाका कारय मन्मुदे ॥ ६७४ ॥ तदुक्तो दधिपणेन, कुब्जो रसवतीं व्यधात् । इन्दुपुष्टिकृदाशुसम्पर्कसुरसीकृताम् ॥६७५ ॥ लोकैः साकं रसवती, बुभुजे भूभुजाऽथ सा । विचाराक्षमवैदग्ध्यैमिथःपश्यद्भिराननम् ॥६७६ ॥ आनायितां परीक्षार्थमथैतां भीमभूपभूः । स्वादयित्वा रसवतीं, कुब्जं निरचिनोन्नलम् ॥६७७ ॥ तद् वैदर्भी विदर्भेशं, प्रत्याह प्रीतिपूरिता । आस्तां कुब्जोऽपि खञ्जोऽपि, निश्चितः सैष नैपधिः ॥ ६७८ ॥ ज्ञानिना मुनिमुख्येन, कथितं मत्पुरः पुरा । नलो रसवतीमर्कपाका जानाति नापरः ॥६७९ ॥ सा(स्वा)भिज्ञानान्तरं तात !, पुनरेकं समस्ति मे । नलस्पर्शेन विपुलपुलकं यद् भवेद् वपुः ॥ ६८० ।। तन्मदङ्गमय कुब्जः, स्तोकं स्पृशतु पाणिना। इत्युक्ते भीमवचसा, तामङ्गुल्या नलोऽस्पृशत् ॥ ६८१ ॥ वपुः समुलकं तस्यास्तन्नलस्पर्शतः क्षणात् । प्रीतिपूरबहिःक्षिप्तास्तोकशोकमिवाभवत् ॥ ६८२ ॥ अन्तभैमी नलं निन्ये, तद् बलादबलाऽप्यसौ । अतूतुषत् तथा चाटुप्रेमामृतकिरा गिरा ॥ ६८३ ।। दमयन्त्युपरोधेनं, नलग्छन्न इवानलः । जज्ञे विश्वकरण्डाभ्यामाविष्कृतनिजाकृतिः ॥ ६८४ ॥ धृतस्वरूपं तद्रूपं, वीक्ष्य कं कं रसं न सा । भेजे भीमसुता धार्श्व-त्रपासम्पातकातरा ? ॥ ६८५ ।। तदा भाति स्म वैदर्भी, स्वेदाम्भःकणभासुरा। उपशान्तबियोगामिः, स्नाता हम्भिसीव सा ॥ ६८६ ॥ अभितो वीज्यमानाङ्गी, नलनेत्राञ्चलैश्चलैः । सद्यः स्वेदोदकस्नाता, सा चकम्पे चकोरहा ॥ ६८७ ।। १ राधिपम् खता० ॥ २ रभीक खताम० ॥ ३ तं भूपं, खंता० ।। - -

Loading...

Page Navigation
1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284