________________
सर्गः ]
धर्माभ्युदयमहाकाव्यम् ।
७५
उच्चैः प्रपञ्चिताटोपा, सकोपा साऽपि तापसीम् । निर्भर्त्स्य गृहपाश्चात्यद्वारेण निरसारयत् ॥ ३८६ ॥ व्रीडा-पीडाभराभुग्नकन्धराबन्धबन्धुरा । अथाकथयदस्मै सा, रुदती सुदती कथाम्
॥ ३८७ ॥
॥ ३८८ ॥
तदुक्तपश्चिमद्वारनिष्कासकथया ततः । अयमाहूतमात्मानं, मेने पश्चिमवर्त्मना निष्पन्नमात्मनः कार्यं, मत्वा स प्राह तापसीम् । वाच्या न कापि पापिष्ठा, मातः ! साइतः परं त्वया ॥ ३८९ ॥ इमां च शान्तसन्तापां, दत्तप्रस्तुतवस्तुतः । चकार कारणं सिद्धेः स्मरस्मरणदुर्मदः
॥ ३९० ॥
॥
३९१ ॥
॥
३९२ ॥
॥ ३९३ ॥ -
॥ ३९९ ॥ ॥ ४०० ॥
अथ मन्मथदीपेन, प्रकाशितपथो निशि । स्मरार्तो देवदत्तस्य तस्य धाम जगाम सः पाश्चात्यवर्त्मना कामविवशः प्रविशन्नसौ । ददर्श दुर्गिलामग्रे, साऽपि तं स्निग्धया दृशा समाप्य गृर्हकृत्यानि, पत्यौ निद्रावशंवदे । ययावुपपतिं हृष्टा, सा गृहोपवनावनौ अनारतरतश्रान्ता, सर्हं तेन हताशया । सा स्वापमाप तत्रैव, समं भत्रैव निर्भरम् तदानीं कायचिन्तार्थमुत्थायोपवनं गतः । देवदत्तः स्नुषां तत्र तदवस्थां व्यलोकयत् विपश्चिनिश्चयायाथ, सुतवासगृहं गतः । एकाकिनं सुतं वीक्ष्य, प्राप्तस्तत्र वने पुनः रुषा स्नुषापदाम्भोजादभिज्ञानकृते कृती । मन्दं मन्दं स्वहस्तेन, मञ्जीरमुदतीतरत् क्रमादुत्तार्यमाणे सा, नूपुरे जातजागरा । गुरुमालोकयामास, यान्तं कलितनूपुरम् ससम्भ्रममथोत्थाय, कृपणा प्राणवल्लभम् । नूपुरोत्तारवृत्तान्तं, सनिर्वेदं न्यवेदयत् क्रियमाणे प्रिय ! प्रातर्दिव्ये साहायकं त्वया । किञ्चिन्मम विधातव्यं, सेत्युक्त्वा विससर्ज तम् वहन्नत्यद्भुतं भीतिभारं सोऽपि युवा जवात् । पथा यथागतेनाधोवदनः सदनं ययौ दुर्गिला तु समालिङ्गय, निद्रारसवशीकृतम् । पतिं जागरयामास, मांसलस्नेहनाटिका महेया तया सार्धं, वर्धितोद्दामहेलया । तदा विद्राणनिद्रोऽयं, चिक्रीड ब्रीडमुक्तया तत्रा थोपवेने नीत्वा तं रतिश्रान्तिशान्तये । निद्रामुद्रितनेत्राब्जं त्रीडितेव जगाद सा पादादुत्तार्य मञ्जीरं, मम पश्य पिता तव । अयं प्रयाति निर्लज्जः, कुलाचारः क एष वः १ सहोपपतिना सुप्ता, गुप्ताऽसौ विपिनान्तरे । ध्यात्वेति त्वत्पिता मन्ये, चकर्ष मम नूपुरम् ॥ तत् साक्षादेव भाषस्व, पितरं हितरञ्जक ! | कलङ्क मत्कुले प्रातरयमानेष्यतेऽन्यथा निशम्येति गिरं देवदिन्नः कान्तामवोचत । शीलैकसज्जे ! लज्जेऽहमिदानीमेव तं ब्रुवन् ॥ ४०८ ॥ वक्ष्ये प्रातस्त्विति स्पष्टसन्धाकर्तरि भर्तरि । असौ सुष्वाप निस्तापा, पटुः कपटनाटके ॥ ४०९ ॥ देवदिनोऽथ कोपेन, पावकेनेव सवलन् । प्रिययोत्थापितः प्रातः प्रयातः पितरं प्रति ॥ ४१० ॥ मयैव सह सुप्ताया, बधूट्या नूपुरं हृतम् । भ्रान्तेन भवता यत् तदर्प्यतामित्यवोचत ॥ ४११ ॥ ॥ युग्मम् ॥
॥
४०४ ॥
॥
४०५ ॥
४०६ ॥
॥ ४०७ ॥
॥ ३९४ ॥
॥ ३९५ ॥
॥ ३९६ ॥
॥ ३९७ ॥
॥ ३९८ ॥
॥ ४०१ ॥
॥ ४०२ ॥
॥ ४०३ ॥
सुतं तमिति वक्तारमाह स्वर्णकृदग्रणीः । त्वां वीक्ष्य सुप्तमत्रास्याः, पांशुलाया हृतं मया ॥ ४१२ ॥ अथेति श्वशुरेणोक्ते, दुर्गिला साऽऽह साहसात् । भुज्यते प्रविधाय स्वं, निष्कलङ्क कुलं किल ॥ ४१३ ॥ अथो सुवर्णकारेण, कुटुम्बं मेलितं निजम् । स्वजना दुर्गिलायाश्च, समाहूताः समन्ततः ॥ ४१४ ॥ असत्यं हन्ति पादाधश्चारिणं यः क्षणाज्जनम् । यक्षस्य तस्य ते चैत्ये, जग्मुर्दुर्गिलया समम् ॥ ४१५ ॥
१. च सान्तःसन्ता ं संता० ॥ २ हकर्माणि, पत्यौ संता० ॥ ३ हानेन पाता० ॥ ४ निश्चिकायाथ वता० ॥ ५ 'वनं नीं बता० ॥