________________
T
सङ्घपतिचरितापरनाम
[ अष्टमः
स्नात्वा पवित्रगात्रा सा, यावचैत्याय गच्छति । तावद् ग्रहिलतादम्भाज्जारेणाऽऽलिङ्गिताऽग्रतः ॥ ४१६ ॥ धिग् 1 धिग् ! मा मा स्पृश त्वं मां वदन्तीत्यथ दुर्गिला । तस्माद् विमोचिता पार्श्ववर्तिभिः स्त्रपिता पुनः
८०
॥ ४१७ ॥
४२३ ॥
४२४ ॥
3
॥
४२५ ॥
॥ ४२६ ॥
॥ ४२७ ॥
४२८ ॥
४२९ ॥
४३० ॥
अथ चैत्यान्तरे गत्वा, यक्षं सम्पूज्य च स्वयम् । सा भालकुङ्मली भूतपाणिपद्मा व्यजिज्ञपत् ॥ ४१८ ॥ मुक्त्वा करग्रहीतारं, ग्रहिलं च नरो यदि । कोऽपि लग्नो मदङ्गे तद् देव ! कार्याऽस्मि भस्मसात् ॥ ४१९ ॥ इत्युदीर्य तदा यक्षे, संशयारूढचेतसि । अधश्वरणयोरेषा, निःससार धियांनिधिः ॥ ४२० ॥ शुद्धा. शुद्धेति वाचस्तत्, तालास्फालनगर्भिताः । उल्लासिता जनशतै, रुरुधुर्गगनाङ्गणम् ॥ ४२१ ॥ स्वयंदृष्टान्यपार्श्वस्थस्नुषासंशुद्धिचिन्तया । तदादि देवदत्तस्य, निद्रा नायादहर्निशम् ॥ ४२२ ॥ दिनैः कतिपयैर्मत्वा, विनिद्रं तं पुराधिपः । निजस्यान्तःपुरस्यान्तश्चकार किल यामिकम् ॥ सुप्तो जागर्ति वा सोऽयमित्युत्थाय मुहुर्मुहुः । राज्ञीमेकां स पश्यन्तीं ज्ञात्वा सुप्तोऽथ कैतवात् ॥ सत्यसुसमिमं ज्ञात्वा, राज्ञी जालकनिर्गता । अधस्ताद्धस्तिना निन्ये, भूतलं तलवर्तिना अथ हस्तिपकेनासौ, कुपितेन चिरागता । हस्तिहिञ्जीरघातेन, निजम्ने जघने धनम् जाग्रद्यामिकवृत्तान्तकथनेन प्रसेदुषा । तेन सा ध्वस्तकोपेन, समं चिक्रीड निर्भरम् तूर्णं गवाक्षमारुह्य, स्वर्णकारोऽपि कौतुकी । सविस्मयस्तयोस्तानि, क्रीडितानि व्यलोकयत् ॥ तं हस्तिपकमालिङ्गय, प्रत्यूषसमयेऽथ सा । राज्ञी करिकरेणैव, प्रस्थिता प्रतिजालकम् ॥ स्वस्थाने स्वर्णकारोऽपि समागत्याऽऽशु सुप्तवान् । वासवेश्मनि सुष्वाप, साऽपि क्षितिपवल्लभा ॥ हृदि दध्यावथ स्वर्णकारस्तच्चरितस्मितः । के वयं ? यन्नरेन्द्राणामप्यसौ विप्लवप्लवः इति निर्वृतिमासाद्य, सद्यो निद्रां प्रियामिव । भेजे चिरतरप्राप्तिगाढाश्लेषपरामसौ अथाकथ्यत भूपाय, सुप्तः परिजनैरयम् । सुघोरंघुर्धुरारावजितसूकरयूथपः निद्रा तथा विनिद्रेण, तेनाद्य यदवाप्यत । तन्मन्ये कारणं किञ्चिदुत्थाप्यस्तदसौ नहि इत्यादिष्टपरिवारस्तं सप्तम दिनोत्थितम् । रहस्याकार्य पप्रच्छ, क्ष्मापः स्वापस्य कारणम् समग्रं चरितं तस्मिन् निवेद्याथ गते सति । राजा समजनि क्रोध-त्रपासन्तप्तमानसः अथ कृत्वा किलिञ्चेन, कुञ्जरं राजकुञ्जरः । स्थित्वा रहसि राज्ञीः स्वाः, समाहूयेदमब्रवीत् ॥ ४३७ ॥ दुःस्वोऽद्य मया दृष्टस्तत् सत्यीकृत्य हन्यताम् । पर्यस्तवसनं हस्तिन्यस्मिन्नारुह्यतामिति ॥ ४३८ ॥ इत्यादिष्टा नरेन्द्रेण, सर्वाः शुद्धान्तयोषितः । उत्तेरुर्द्विपमारुह्य, पूर्वाद्रिमिव तारकाः सा तु दुष्टा बिभेमीति, भाषमाणा महीभुजा । हताऽभिमन्त्रितेनेव, पद्मेन पतिता भुवि अथास्या जघनं राजा, श्रृङ्खलाकि कश्मलम् । ददर्श शैवलालीढ जाह्रवीपुलिनोपम् अथाऽऽह तां हतां राजा, कोपाटोपारुणेक्षणः । अन्यासामपि भीरूणां भीरुतां प्रतिपादयन् ॥ ४४२ ॥ यासि द्विपकराज्जारं, बिभेषि तु कटद्विपात् । मोदसे शृङ्खलाघातैः, पद्मघातैस्तु मूर्च्छसि ॥ ४४३ ॥ इति ब्रुवन् भ्रुवं भाले, समारोप्यातिकोपनः । धृत्वा केशेषु लोकेशः, कृष्टवान् पिष्टवाँश्च ताम् ॥ ४४४ ॥
॥ ४३१ ॥
॥ ४३२ ॥
॥ ४३३ ॥
॥ ४३४ ॥
॥ ४३५ ॥
॥ ४३६ ॥
॥ ४४१ ॥
१ यैर्ज्ञात्वा ता० ॥ ३ सुप्तः स कै° खंता० ॥ खेता० ॥ ७ त्वा कलि
॥ ४३९ ॥
॥ ४४० ॥ ·
२ किं मां पश्यति राशीति, ध्यात्वा सुप्तः स कै पाता ॥.. ५ 'स्तिही पाता ॥ ६ tar खंता० ॥ ९ तारिकाः खंता० ॥
४
सममुं ज्ञा' खंता० ॥ पाता ॥ ८ह्यतां ततः