________________
सर्गः] . धर्माभ्युदयमहाकाव्यम् । अथ हस्तिपकं हस्तिराज हस्तिगतिं च ताम् । हन्तुं नूतनमारेण, नृपः किश्चिदचिन्तयत् ॥ ४४५ ।। ततः क्षितिपतिः साकं, साकम्पैः स्वजनैर्भयात् । वैभारपर्वतं यातो, निन्ये तत्र च तत् त्रयम् ॥ ४४६ ॥ अथाऽऽदिशन्नृपो हस्तिपकं साकं स्त्रियाऽनया। आरुह्यारोपय रयाद्, द्विपं मूर्ध्नि गिरेरिति ॥ १४७ ॥ सममृत्यु-समस्थानगतिहर्षादुभाविभम् । अधिरूढावथाम्भोदं, रोहिणी-शशिनाविव ॥४४८ ॥ हस्ती हस्तिपकेनाथ, प्रेरितो गिरिमूर्धनि । आरुरोह पयोवाह, इव मन्देन वायुना ॥ ४४९ ।। अथाऽऽरूढं गिरेर्मुर्भि, मेण्ठमाज्ञापयन्नृपः । पातयैनं द्विपं शैलात् , कैलासगिरिगौरवात् ॥ ४५० ।। इत्युक्ते क्षितिनाथेन, निषादिकृतसंज्ञया । एकोऽम्बरे निरालम्बश्चरणः करिणा कृतः ॥ ४५१ ।। पातयेति नृपादेशान्मेण्ठनुन्नः पुनः करी । पदं द्वितीयमुद्धे, समारोदुमिवाम्बरम् ॥ ४५२ ॥ हाहाकारमथाऽऽधाय, पूर्लोकः शोकपूरितः । ईदृक्षं रक्ष रक्षेभमिति भूपं व्यजिज्ञपत् ॥ ४५३ ।। रोषदोषखनिः क्षमापस्तमुपेक्ष्य पुरीजनम् । उवाच पातयेत्युच्चैस्तदा हस्तिपकं पुनः ॥ ४५४ ।। तृतीयं मेण्ठनुन्नोऽथ, पादमुत्पाटयन करी । गिरावेकपदस्तस्थौ, तपस्यन्निव मुक्तये ॥ ४५५ ॥ लोकैरथ भृशं हाहाकारल्याहारवीचिभिः । क्षपितः क्षितिपालस्य, कोपाग्निः करिणं प्रति ॥ ४५६ ॥ अथावनीधवेनायं, निषादी भाषितस्तदा । कथञ्चिदुत्तरत्येष, करी जीवन् गिरेरिति ॥ ४५७ ॥ आवां मुञ्चसि जीवन्तौ, यद्युत्तरति तत् करी । इति विज्ञपयामास, मेण्ठः पृथ्वीपतिं प्रति ॥ ४५८॥ अभयं ते वयं दद्मः, पद्मासन द्विपं मम । उत्तारय रयादेतत् , तदाऽऽदिशदमुं नृपः ॥ ४५९ ॥ इत्यादेशान्नरेशस्य, मुदितेन निषादिना । उत्तारितः करी शैलादात्मा च यममन्दिरात् ॥ ४६० ॥ ___ अथ चक्षुष्पथं भर्तुर्विहाय सहितस्तया । चचाल सोऽयमुत्तालगतिर्देशान्तरं प्रति ॥ ४६१ ॥ प्रान्ते प्रामस्य कस्यापि, निशि देवकुलान्तरे । तौ लीनौ नलिनक्रोडे, तस्थतुर्भमराविव ॥ ४६२ ।। समयेऽथ निशीथस्य, ग्रामतः कोऽपि तस्करः । सलोप्त्रः प्राविशचैत्यं, तलारक्षरमुद्रुतः ॥ ४६३ ॥
उदिते विदितो भानौ, ग्राह्योऽयमिति निश्चयात् ।
ऊर्धास्ते पत्तयश्चैत्ये, दधुरन्ध्रवप्रताम्। सोऽपि चौरश्चरन्नन्तश्चैत्यमग्रस्फुरत्करः । लुठितस्याथ मेण्ठस्य, शरीरं पाणिनाऽस्पृशत् ॥ ४६५ ॥ निद्राविद्राणचैतन्ये, तस्मिन्नथ निषादिनि । चौरः सञ्चारयाञ्चक्रे, कर कमलकोमलम् ॥ ४६६ ॥ कथञ्चिदप्यथो राज्ञीकुचभूधरमूर्धनि । प्राणरक्षणदुर्गेऽस्य, तस्करस्य करो ययौ ॥ ४६७॥ तत्कोमलकरस्पर्शमनुभूय नृपाङ्गना । मनोभवार्ता तं वार्तामपृच्छत् को भवानिति ॥४६८ ॥ तेनोक्तमस्मि चौरोऽहमधिरोहन्मृतिर्यतः । एतच्चैत्यं चतुर्दिक्षु, मत्कृते वेष्टितं भटैः ॥४६९ ॥ भयवन्तं ब्रुवन्तं तमित्याह क्षितिपाङ्गना । मा भैषीर्भवतः प्राणरक्षा दक्ष ! करिष्यते ॥ ४७० ॥ हृत्वा त्वया यदानीतं, तदस्योच्छीर्षके त्यज । तदेहि दूरतो यावस्ताबदावां स्मितस्मरौ ॥ ४७१ ॥ निशम्य सम्यगायातमृत्युशान्तिमहौषधम् । एतस्या वचनं चौरश्चकार स यथोदितम् ॥ ४७२ ॥ क्षणेन साऽपि गौराङ्गी, चौराङ्गीकरणोद्यता । हस्त्यारोहममुञ्चत् तं, चित्तं को वेत्ति योषिताम् ? ॥ १७३ ।। अथोदिते द्युतिपतौ, ध्वान्तद्रुमदवानले । विविशुर्विवशाः कोपाच्चैत्यं चौरार्थिनो भटाः ॥ ४७४ ।। लोप्नवन्तं तदाऽऽरक्षाः, क्रोधाद् दधुनिषादिनम् । तन्वन्तस्तुमुलारावमुल्ललन्तस्तदा मुदा ॥ ४७५ ।।
घ. ११